Moodle-Learning-Management-System/C2/Courses-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:22, 8 March 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Courses in Moodle इति विषयकस्य स्पोकन्-ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् :

कोर्स्-रचना अपि च तेषु क्रियानां निर्वहणं च ज्ञास्यामः ।

00:16 पाठस्यास्य ध्वन्यङ्कनायाहं :

Ubuntu Linux OS 16.04,

00:24 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,

Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् इत्येतेषाम् विनियोगं करोमि ।

00:38 भवदभीष्टं यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:42 तथापि, Internet Explorer इत्यस्योपयोगः मास्तु । यतो हि तत् सम्यग् डिस्प्ले न करोति ।
00:50 पाठस्यास्य अभ्यासाय, भवन्तः मूडल् मध्ये categories रचनां जानीयुः ।
00:56 न चेत् तत्सम्बद्धानि Moodle ट्युटोरियल्स् जालपुटेऽस्मिन् पश्यन्तु ।
01:03 ब्रौसर् इत्यस्मै परिवर्त्य भवतां moodle होम्-पेज् उद्घाटयन्तु । XAMPP सर्वीस् रन्-जायमानमस्तीति दृढीकुर्वन्तु ।
01:11 भवताम् admin username तथा पास्वर्ड् आभ्यां लोगिन् कुर्वन्तु ।
01:16 वयमधुना ‘Admin’ डेश्-बोर्ड् मध्ये स्मः ।
01:19 वामभागे, नेविगेशन् मेन्यू उद्घाटयितुं drawer मेन्यू उपरि नुदन्तु ।
01:25 अत्र Site Administration नुदन्तु ।
01:29 Courses टेब् नुत्वा Manage courses and categories नुदन्तु ।
01:36 अत्र Mathematics इत्येकमेव ‘केटगरि’ अपि च
01:41 अस्माभिः पूर्वरचिते 1st Year Maths तथा 2nd Year Maths इति द्वे 'सब् केटगरिस्' स्तः ।
01:50 वयमधुना Mathematics इत्यस्याधः, एकं नूतनं 'कोर्स्' रचयाम ।
01:55 अतः, Create new course इत्यस्योपरि नुदन्तु ।
01:59 Add a new course पटले, सर्वाणि फ़ील्ड्स् दृष्टुं, उपरि दक्षिणतः Expand All नुदन्तु ।
02:12 Course full name टेक्स्ट्-बोक्स् मध्ये, Calculus इति टङ्कयामः ।
02:18 Course short name ,मध्ये, पुनः वयं Calculus इति टङ्कयामः ।
02:24 breadcrumbs मध्ये अपि च 'कोर्स्'सम्बद्धेषु इ-मेल्स् मध्ये , Course short name इतीदमुपयुज्यते ।
02:31 इदं course full name इत्यस्मात् भिन्नं भवितुमर्हति ।
02:35 यथा वयं पश्यामः तथा, Course Category इतीदं Mathematics वर्तते ।
02:40 अग्रिम-विकल्पः Course visibility वर्तते । उत्सर्गतया, Show इतीदं चितमस्ति ।
02:48 Visible सेट्टिङ्ग् इतीदम्, अन्यैः कोर्स् इत्येतैः सह 'कोर्स्' इतीदं दृश्यते वा न वा इति दृढीकरोति ।
02:56 निगूहितं 'कोर्स्', तत् कोर्स् यस्मै असैन् जातं तस्मै, अर्थात् Admin, Course creator, Teacher, Manager एभिरेव दृश्यते ।
03:08 सद्यः इमानि सेट्टिङ्ग्स् एवमेव त्यजामः ।
03:12 पश्चात् Course start date वर्तते ।
03:16 सेमिस्टर् आरम्बदिनवत् कस्मिन्नपि दिनाङ्के 'कोर्स्' प्रारभ्यते चेत्, तत् start date मध्ये चिन्वन्तु ।
03:25 अस्यार्थः, start date पर्यन्तम् इदं 'कोर्स्' छात्रैः न दृश्यते ।
03:32 उत्सर्गतया, Course end date इतीदं सक्रियं कृत्वा, कोर्स्-रचित-दिनाङ्काय तत् सेट् जातं वर्तते ।
03:42 चेक्-बोक्स् नुत्वा तत् निष्क्रियं कुर्वन्तु । अस्यार्थः, इदं कोर्स् कदापि न समाप्यते ।
03:51 तथापि 'कोर्स्' इत्यस्मै अन्तिमदिनाङ्कः वर्तते चेत्, भवन्तः अत्र चेक्-बोक्स् सक्रियं कर्तुं शक्नुवन्ति ।

पश्चात् भवतः आवश्यकतामनुसृत्य दिनाङ्कं चिन्वन्तु ।

04:02 कृपया अवलोक्यताम् : चितस्य end date इत्यस्यानन्तरं, छात्रैः इदं 'कोर्स्' न दृश्यते ।

अहमिदं निष्क्रियं करोमि ।

04:13 Course ID number , Category ID number इवास्ति ।

Course ID number एकम् ऐच्छिकं फ़ील्ड् वर्तते ।

04:22 इदम् एड्मिन् यूसर् इत्येतेभ्यः, 'कोर्स्' इतीदं ओफ़्लैन् कोर्सस् इत्येतैः सह अभिज्ञातुं वर्तते ।
04:28 यदि भवतः महाविद्यालयःकोर्सस् इत्यस्यार्थम् 'ऐ.डि.' उपयुञ्जते चेत्, भवन्तः तत् course ID इतीदमत्र उपयोक्तुमर्हन्ति ।

इदं फ़ील्ड् अन्यैः उपयोक्तृभिः न दृश्यते ।

04:40 इदं फ़ील्ड् ऐच्छिकं वर्तते । अपि च जालपुटे कुत्रापीदं न प्रदर्श्यते । अतोऽहमिदं रिक्तं त्यजामि ।
04:49 पश्चात्, Description इत्यस्याधः वयं Course Summary अपि च Course Summary files इति 2 फ़ील्ड्स् पश्यामः ।
04:59 Course summary- इदमेकम् ऐच्छिकं परन्तु प्रमुखं फ़ील्ड् वर्तते । यतो हि, user इत्यस्य अन्वेषणकाले, course summary टेक्स्ट् अपि स्केन् जायते ।
05:13 अत्र Topic नामानां लिस्ट्-करणमुत्तम् ।

एवं टङ्कयन्तु : Topics covered in this Calculus course are: Limits, Graph of a function, Factorial.

05:29 कोर्सस् इत्येतेषाम् आवल्या सह , Course summary अपि प्रदर्श्यते ।
05:35 Course summary सञ्चिकाः, Course summary files फ़ील्ड्-मध्ये एव अप्लोड् क्रियेत ।
05:42 उत्सर्गतया, केवलं jpg, gif तथा png सदृशाः सञ्चिकाः course summary files इत्यस्यार्थम् अनुमन्यन्ते ।

मह्यं याः काः अपि सञ्चिकाः अप्लोड् कर्तव्याः इति नास्ति । अतः अहमिदम् एवमेव त्यजामि ।

05:57 छात्रेभ्यः सम्पन्मूलानां तथा चर्याणां च आयोजनविधानं Course format सूचयति ।
06:06 अस्मिन् Format ड्रोप्-डौन् मध्ये, 4 विकल्पाः सन्ति -

Single Activity Format, Social Format, Topics Format अपि च Weekly Format.

06:20 अत्र साप्ताहिकाः प्रणाल्यः सन्ति ।
06:24 भवतां कोर्स् एवमस्ति चेत्, Weekly format चिन्वन्तु ।
06:30 प्रणाल्याः प्रत्येकसप्ताहाय start date तथा end date इत्येतैः सह एकं विभागं रचयति ।
06:39 Topic इत्येतमनुसृत्य प्रचलिष्यमाणाः कोर्सस् सन्ति । भवतां कोर्स् एवमस्ति चेत् , Topics format चिन्वन्तु ।
06:49 मूडल् इतीदं, प्रणाल्याः प्रत्येकाय topic इत्यस्मै एकं विभागं रचयति ।
06:55 Topics format, फ़ील्ड् इत्यस्मै डीफ़ोल्ट् वेल्यू वर्तते । वयं तत् तथैव त्यजामः ।
07:03 उत्सर्गतया विभागसङ्ख्या 4 वर्तते ।
07:07 भवतां कोर्स् इतीदं 4 तः अधिकं वा न्यूनं वा topic इत्येतेषु विभक्तं चेत्, तदनुसृत्य इदं फ़ील्ड् परिवर्तयन्तु । अहम् इयं सङ्ख्यां 5 इति स्थापयामि ।
07:20 अन्यानि फ़ोर्मेट्स् वयं आगामि पाठेषु पश्यामः ।
07:25 अन्यान् विकल्पान् वयं तथैव त्यजाम ।

पृष्टस्याधः स्क्रोल् कृत्वा Save and display गण्डं नुदन्तु ।

07:36 वयं Enrolled Users पृष्टं गतवन्तः । user enrollment विषयं वयम् आगामि-पाठेषु ज्ञास्यामः ।
07:46 सद्यः वयं Mathematics केटगरि मध्ये, अस्माकम् आदिमं कोर्स् Calculus रचितवन्तः ।
07:56 वयमस्मिन् course पृष्टे यदा भवामः तदा, वामतः मेन्यू परिवर्तितं दृश्यते ।
08:03 वामभागस्थं नेविगेशन् मेन्यू, अस्माभिः रचिताय कोर्स् इत्यस्मै सम्बद्धान् मेन्यू प्राप्तवदस्ति । इमानि Participants, Grades इत्यादीनि प्राप्तवन्ती सन्ति ।
08:15 वामतः, Calculus इति कोर्स् इत्यस्योपरि नुदन्तु ।
08:20 अत्र 5 Topic इतीमानि दृश्यन्ते इति वयं दृष्टुं शक्नुमः । इमानि Topic 1, Topic 2 … एवं नामदत्तानि ।

इतः पूर्वं, 5 इति सङ्ख्यां दत्तवन्तः इति स्मर्यताम् ।

08:34 पृष्टस्योपरि दक्षिणतः गेर्-ऐकान् नुदन्तु ।
08:39 पश्चात् Edit settings नुदन्तु ।

कोर्स् इतीदं यदा रचयामः तदा, विद्यमानपृष्टसदृशं पृष्टम् इदम् उद्घट्यते ।

08:51 अस्मिन् पृष्टे, वयं पूर्वतन सेट्टिङ्ग्स् परिवर्तयितुं शक्नुमः ।

वयं Course start date इतीदं 15th October 2017 इत्यस्मै परिवर्तयामः ।

09:04 पृष्टस्याधः स्क्रोल्-कृत्वा Save and display गण्डं नुदन्तु ।
09:11 गेर् मेन्यू इत्यस्याधो विद्यमानि अन्यानि सब्-मेन्यूस् पश्चात् वयं ज्ञास्यामः ।
09:17 अधुनास्माकं प्रणाल्याः रचनां परिवर्तयाम ।
09:22 Site administration उपरि नुदन्तु ।

Courses नुत्वा Manage courses and categories नुदन्तु ।

09:31 अस्माभिः रचिताः प्रणाल्यः दृष्टुं, Mathematics केटगरि नुदन्तु । प्रणाल्याः दक्षिणतः 3 ऐकान्स् पश्यन्तु ।
09:42 ऐकान्स् कानि सन्तीति दृष्टुं तस्योपरि कर्सर् चालयन्तु ।
09:46 गेर्-ऐकान् कोर्स् इत्यस्य एडिट् कर्तुं, delete अथवा trash ऐकान् कोर्स् डिलीट्-कर्तुम्,
09:55 अपि च ऐ-ऐकान् कोर्स् प्रच्छन्नीकर्तुं वर्तते ।
10:01 प्रच्छन्नीकृताः प्रणालीः सूचयितुं ऐ-ऐकान् इत्यस्मै क्रोस् कृतं वर्तते ।
10:07 course settings इतीदम् एडिट् कर्तुं, वयं कोर्स् इत्यस्य नाम्नः दक्षिणतः विद्यमानं गेर्-ऐकान् क्लिक् कर्तुं शक्नुमः ।
10:14 मया Course Summary इतीदं परिवर्त्य तत्राधुना विद्यमानेभ्यः विषयेभ्यः Binomials संयोजितव्यम् । शिष्टाः सेट्टिङ्ग्स् तथैव भवेत् ।
10:25 पृष्टस्याधः स्क्रोल् कृत्वा अधुना Save and return गण्डं नुदन्तु ।
10:34 भवद्भ्यः अत्र एकं पाठनियोजनमस्ति : Mathematics केटगरि इत्यस्याधः, Linear Algebra इत्येकं नूतनं कोर्स् रचयन्तु ।
10:44 सद्यः इदं कोर्स् पृच्छन्नीकुर्वन्तु ।
10:47 course summary मध्ये अधस्तन विषयान् भरन्तु : Linear equations, Matrices अपि च Vectors.

Save and Return गण्डं नुदन्तु ।

11:00 पाठाय विरामं दत्वा, पाठनियोजनं समाप्य पुनरारम्भं कुर्वन्तु ।
11:06 Mathematics इत्यस्याधः वयमधुना 2 कोर्स् प्राप्तवन्तः : Calculus तथा Linear Algebra.
11:14 अधुना courses इत्यस्य पार्श्वे एकं नूतनं ऐकान् दृश्यते इत्यवलोक्यताम् ।
11:20 ऊर्ध्वमुखम् अधोमुखं च बाणचिह्नानि, प्रणालीनां क्रमसंयोजनाय वर्तन्ते ।
11:26 ड्रेग् एण्ड् ड्रोप् सौकर्यमुपयुज्य, वयं क्रमपरिवर्तनं कर्तुं शक्नुमः ।

Calculus इतीदं वयं Linear Algebra प्रणाल्याः उपरि कर्षयामः ।

11:36 इमे द्वे कोर्सस् 1 वर्षस्य छात्रेभ्यः वर्तेते ।

अतः इमानि 1st Year Maths सब्-केटगरि इत्यस्याधः संयोजयाम ।

11:47 इमे द्वे कोर्सस् चेतुं , तेषां वामतः विद्यमानं चेक् बोक्स् नुदन्तु ।
11:53 पश्चात् Move selected courses to इति ड्रोप्-डौन् मध्ये, Mathematics / 1st year Maths चिन्वन्तु ।
12:02 अपि च Move गण्डं नुदन्तु ।
12:04 अस्माभिः -Successfully moved 2 courses into 1st year Maths इति सन्देशः लभ्यते ।
12:14 Mathematics इत्यस्याधः, कोर्सस् सङ्ख्या 0 अस्ति अपि च 1st year Maths इत्यस्याधः 2 वर्तेते इत्यवलोक्यताम् ।
12:24 1st year Maths सब्-केटगरि नुदन्तु ।
12:28 अस्मिन् सब् केटगरि मध्ये, लिस्ट् कृताः प्रणाल्यः वयं दृष्टुं शक्नुमः ।
12:33 अत्र वयं पाठस्यान्तमागतवन्तः ।

सङ्क्षेपेण,

12:38 पाठेऽस्मिन् वयम्:

कोर्स् इत्यस्य रचना अपि च कोर्सस् मध्ये edit, move सदृशाः क्रियाः कथं निर्वोढुं शक्नुमः इति ज्ञातवन्तः ।

12:50 अत्र भवद्भ्यः पाठनियोजनमस्ति :

Mathematics इत्यस्याधः, 2nd Year Maths इति सब्-केटगरि इत्यस्मै,

13:00 Multivariable calculus अपि च Advanced Algebra इति 2 कोर्सस् संयोजयन्तु ।
13:06 अधिकविवरणार्थं ट्युटोरियल् मध्ये Code files लिङ्क् पश्यन्तु ।
13:12 15th October 2017 तः प्रारम्भाय प्रणालीः एडिट् कुर्वन्तु ।
13:18 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
13:26 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
13:36 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
13:40 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
13:53 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat