LibreOffice-Suite-Writer/C2/Typing-text-and-basic-formatting/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:18, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

_TOC__ Resources for recording Typing text and Basic Formatting


Time NARRATION
00:01 LibreOffice Writer -अक्षरटङ्कनं मूलप्रारूपं च इत्यस्मिन् मौखिकपाठे स्वागतम् |
00:07 पाठे अस्मिन् अधस्तन-अंशान् पठेम -
00:10 writer मध्ये अक्षरसंरेखनम् |
00:12 चिह्नाङ्कनं क्रमाङ्कनं च|
00:14 writer मध्ये cut -Copy -paste -आदि पर्याया: |
00:18 Bold -Underline - Italics -पर्याया: |
00:21 writer मध्ये Font - नाम ,Font-आकार:, Font -वर्ण: च |
00:26 अनेन वैशिष्ट्यप्रदानेन सामान्य-अक्षराणाम् अपेक्षया कोपि प्रलेख: बह्वाकर्षक: पठनसुलभ: च भवति |
00:36 वयमत्र operating system - त्वेन Ubuntu Linux 10.04 ,LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:47 प्रथमं तावत् Writer मध्ये अक्षरसंरेखनविषये पठेम |
00:50 भवान् यदृच्छया नूतन-प्रलेखम् उद्घाटयितुं इमानि वैशिष्ट्यानि तत्र अन्वेतुं च शक्नोति |
00:57 गतपाठे “resume.odt” नाम्ना पूर्वमेव अस्माभि: सञ्चिका निर्मिता अस्ति,वयं ताम् उद्घाटयेम​ |
01:08 पूर्वम् अस्मत्सविधे “RESUME” इति टङ्कितशब्द​: पत्रस्य मध्यभागे संरेखित: आसीत् |
01:14 अथ तद्शब्दं चिनुम:, “Align Left” नुदाम: च |भवान् पश्यति यत् शब्द: वामङ्गत: नाम स: पत्रस्य वामभागे संरेखित: इति |
01:25 यदि वयं “Align Right ”नुदाम:,तर्हि भवान् द्रक्ष्यति यत् “RESUME” -शब्द: अधुना पत्रस्य दक्षिणभागे आगत: |
01:32 यदि वयं “Justify” नुदाम:, तर्हि भवान् द्रक्ष्यति यत् “RESUME” -शब्द: अधुना पत्रस्य वामदक्षिणभागाभ्यां समानरूपेण मध्ये आगत: |
01:44 यदा भवान् पङ्क्तिं परिच्छेदं वा करोति तदा अस्य वैशिष्ट्यस्य वारंवारता स्यात् |
01:51 इदम् अपाकुर्म:
01:54 यदा स्वतन्त्रबिन्दव: लेखनीया: भवन्ति तदा चिह्नाङ्कनं क्रमाङ्कनं च उपयुज्यते |
01:58 प्रत्येकं बिन्दु: चिह्नाङ्कनेन क्रमाङ्कनेन च आरभते |
02:02 अनेन मार्गेण लेखस्थ-विविधबिन्दुषु भेद: कर्तुं शक्य: |
02:07 मेनुबारमध्ये “Format” पर्यायं नुदित्वा तत: च “Bullets and Numbering” नुदित्वा इदं कर्तुं शक्यम् |
02:15 “Bullets and Numbering” पर्याये नुदित्वा भवान् यत् संवादपिटकं पश्यति तत् विविध -tabs मध्ये विविध-शैली: प्रददाति या: भवान् प्रलेखे अन्वेतुं शक्नोति |
02:26 numbering पर्यायं चित्वा क्रमाङ्कनं समानमार्गेण क्रियते,,प्रत्येकं पङ्क्ति: नूतनक्रमाङ्केण आरभते ​च |
02:34 अथ “Numbering type” शैल्यां second style नुदाम:|
02:40 अधुना “OK” पिञ्जं नुदतु |
02:42 अधुना भवान् स्वस्य प्रथमं विधानं कर्तुं सिद्ध: |
02:46 वयं “NAME: RAMESH” टङ्कयाम​: |
02:50 अधुना विधानं टङ्कयित्वा “Enter” key नुदतु ,भवान् द्रक्ष्यति यत् नूतनचिह्नाङ्कनं नूतनक्रमाङ्क: वा निर्मित: भवेत् |
03:05 तत्र चिह्नेषु चिह्नं क्रमाङ्केषु क्रमाङ्क: च भवितुम् अर्हति यत् भवत: प्रारूपप्रकारचयनम् अवलम्बते |
03:13 अथ वयं resume मध्ये द्वितीयविधानं “ FATHER’S NAME colon MAHESH” इति टङ्कयाम​:|


03:20 पुनश्च “Enter” key नुदतु , “MOTHER’S NAME colon SHWETA " च टङ्कयतु |
03:27 तथैव वयं “FATHERS OCCUPATION colon GOVERNMENT SERVANT” , “MOTHERS OCCUPATION colon HOUSEWIFE” चेति भिन्नबिन्दुद्वयं टङ्कयेम |
03:39 भवान् चिह्नानां कृते यथाक्रमं indent वर्धयितुं न्यूनीकर्तुं च Tab ,shift tab keys च उपयोक्तुं शक्नोति |
03:47 “Bullets and Numbering” पर्यायं पिधातुं ,प्रथमं HOUSEWIFE शब्दस्य निकटे सारकं स्थापयतु ,प्रथमं “Enter” key च नुदतु ततश्च “Bullets and Numbering” -संवादपिटके “ Numbering Off” नुदतु |
04:03 भवान् पश्यति यत् नूतन-टङ्कित​-अक्षरार्थं चिह्नाङ्कनशैली उपलभ्येत |
04:10 लक्षयतु यत् अस्मत्प्रलेखे अस्माभि: “NAME” - शब्द: द्विवारं टङ्कित: |
04:14 पुन: पुन: समानस्य अक्षरस्य टङ्कनस्य​ अपेक्षया, वयं “Copy” , “Paste” इति पर्यायौ उपयोक्तुं शक्नुम:|


04:21 अथ पठेम, इदं कथं कार्यमिति |
04:24 अधुना वयं “MOTHER’S NAME”- अक्षरेभ्य: “NAME” - शब्दं delete कुर्म:, copy , paste च पर्यायौ प्रयुज्य NAME - शब्दं पुनर्लिखेम |
04:33 “FATHER’S NAME” - अक्षरेषु "NAME” - शब्देन सह सारकं कर्षित्वा “NAME” - शब्दं प्रथमं चिनोतु |
04:40 अधुना मूषकस्य दक्षिणं नुदित्वा “Copy” पर्यायं नुदतु |


04:45 “MOTHER’S” शब्दात् सारकं स्थापयतु |
04:48 पुन: मूषकस्य दक्षिणं नुदतु “Paste” पर्यायं नुदतु च |
04:54 वयं पश्याम: यत् “NAME” - शब्द: स्वत: लिप्त: |


04:57 copy निमित्तं CTRL+C , paste निमित्तं CTRL+V च पर्यायौ उपयुज्य इदं संक्षेपत: कर्तुं शक्यम् |
05:08 बृहदाकारकं समानम् प्रलेखं निर्मातुं विकल्प: असौ बहु उपयुक्त:, येन पुनरेकवारं संपूर्णलेखनस्य आवश्यकता नास्ति |
05:19 लेख्यम् एकस्मात् स्थानात् अन्यत्र नेतुं “Cut”, “paste” चेति विकल्पौ अपि भवान् उपयोक्तुं शक्नोति |
05:26 अधुना पठेम ,तत् कथं कार्यमिति |
05:29 प्रथमं “MOTHER’S” शब्दात् अनन्तरं “NAME” - शब्दं delete कुर्म: |
05:34 एनं शब्दं कर्तयितुं लेप्तुं च ,प्रथमं “FATHERS NAME”-विधानस्थम् “NAME” - शब्दं चिनोतु |
05:40 मूषकस्य दक्षिणं नुदित्वा “Cut” पर्यायं नुदतु | लक्षयतु यत् “NAME” - शब्द: “FATHER'S”- शब्दस्य निकटे नैव दृश्यते , य: कर्तित: अथ वा उच्छिन्न: |
05:54 अधुना “MOTHER’S ” - शब्दात् अनन्तरं बाणं स्थापयतु मूषकस्य दक्षिणं नुदतु च |
05:59 “Paste” पर्यायं नुदतु |
06:02 भवान् पश्यति यत् शब्द: अधुना “MOTHER'S”- शब्दस्य पार्श्वे लिप्त: |
06:07 कर्तयितुं CTRL+X इति shortcut कील​: अस्ति |
06:11 अत: copying , cutting मध्ये च भेद: नाम “Copy” पर्याय: मूल-शब्दं तस्य स्थाने तथैव स्थापयति यत: स अनुकृत:, अपि च “Cut” पर्याय: तं मूलस्थानात् पूर्णत: निष्कासयति |
06:27 Father’s इत्यस्मात् “name” - शब्दं लिम्पाम: ततश्च अनुकुर्म:|
06:31 “EDUCATION DETAILS” इति नूतनं शीर्षकं टङ्कयाम​:|
06:35 Writer मध्ये “Bullets " "Numbering” च पठनात् अनन्तरं , वयं कस्यापि लेखस्य “Font name” ,“Font size” च कथं परिवर्तनीयं अन्वेतव्यं वा इति पठिष्याम: |
06:45 अधुना अस्मत्सविधे उपरितन - format tool bar मध्ये “Font Name” नाम्न: क्षेत्रमस्ति |


06:52 सामान्यत: font name , “Liberation Serif” इति उत्सर्गेण न्यस्तं भवति |


06:57 लेख्ये यदृच्छया font - प्रकारं चेतुं परिवर्तयितुं च Font Name उपयुज्यते |


07:04 यथा , वयं “Education Details” इति शीर्षकस्य भिन्न - font style ,भिन्न-font size च कुर्म: |
07:11 अथ प्रथमं “Education details” - अक्षराणि चिनोतु तत: “Font Name” क्षेत्रे अधस्तनबाणं नुदतु |
07:19 भवान् drop down menu मध्ये font name पर्यायस्य विस्तृतविविधतां पश्यति |
07:25 “Liberation Sans” शोधयतु , तत्र केवलं नुदतु च |
07:29 भवान् पश्यति , चितस्य अक्षरस्य font परिवर्तते इति |
07:34 “Font Name” - क्षेत्रस्य पार्श्वे अस्मत्सविधे “Font Size” क्षेत्रमस्ति |
07:38 यथा नाम सूचयति , चितस्य लेख्यस्य आकारं वर्धयितुं न्यूनीकर्तुं वा “Font Size” उपयुज्यते अथवा तत् , भवान् यत् टङ्कयितुम् इच्छति, तस्य आकारं विन्यासयति|
07:52 अत: प्रथमं वयं “EDUCATION DETAILS” इति चिनुम: |
07:55 साम्प्रतं Font Size १२ इति दृश्यते |
07:58 अधुना “Font Size” - क्षेत्रे अधस्तनबाणं नुदत ततश्च ११ इत्यत्र नुदतु |
08:05 भवान् पश्यति यत् अक्षरस्य आकार: न्यूनीभवति |
08:09 समानरीत्या Font -आकार: वर्धयितुं शक्येत |
08:13 font size -विषयकं पठित्वा वयं Writer - मध्ये font color कथं परिवर्तनीयमिति पठेम |
08:21 यस्मिन् प्रलेख: अथवा कतिचन पङ्क्तय: लिखिता: तस्य लेख्यस्य वर्णं चेतुं “Font Color” उपयुज्यते |
08:27 यथा ,वयं “EDUCATION DETAILS” इति शीर्षकं वर्णयाम:|
08:32 अत: पुन: “EDUCATION DETAILS” चिनोतु |
08:36 अधुना toolbar - मध्ये “Font Color” पर्याये अधस्तनबाणं नुदतु ततश्च अक्षरं “Light green” वर्णस्य कर्तुं light green box नुदतु |
08:48 अत: भवान् पश्यति यत् शीर्षकम् अधुना हरितवर्णीयम् |
08:52 font size -पर्यायस्य पार्श्वे भवान् “Bold”, “Italic” ,“Underline” इति पर्यायत्रयं द्रक्ष्यति |
09:00 यथा नाम सूचयति . इमानि त्वदीयलेख्यं bold , italic अथवा underlined करिष्यन्ति |
09:07 अत: प्रथमं “EDUCATION DETAILS” - शीर्षकं चिनोतु |


09:11 अधुना अक्षरं स्थूलं कर्तुं 'Bold' चित्रकं नुदतु |


09:15 भवान् पश्यति यत् चितमक्षरं स्थूलं भवति |
09:19 तथैव भवान् “Italic” icon नुदति चेत् तत् italic मध्ये परिवर्तयति |
09:25 “Underline” इत्यत्र नुदतु |
09:26 'Underline' इत्यत्र नोदनेन अक्षरम् अधोरेखितं भवेत् |
09:31 भवान् पश्यति यत् चितमक्षरम् अधुना अधोरेखितम् |
09:35 शीर्षकं स्थूलं (“bold”) तथा च अधोरेखितं (“underlined”) स्थापयितुं ,पुन: तमेव “italic” पर्यायं नुदित्वा तम् अपनयतु , अन्यपर्यायद्वयं चितं भवतु च |
09:45 अत: शीर्षकम् अधुना स्थूलम् अधोरेखितं चापि अस्ति |
09:50 अत्र LibreOffice Writer - विषयकं spoken tutorial समाप्यते |
09:55 अस्माभि: पठितं संक्षेपत: -
09:57 Writer - मध्ये अक्षरसंरेखनम् |


10:00 चिह्नाङ्कनं क्रमाङ्कनं च|
10:02 writer मध्ये cut -Copy -paste -आदि पर्याया: |


10:05 Bold -Underline - Italics -पर्याया: |
10:09 writer मध्ये Font - नाम ,Font-आकार:, Font -वर्ण: च |
10:13 व्यापकपरीक्षा
10:16 चिह्नाङ्कनं क्रमाङ्कनं च करोतु |
10:18 style चिनुत , कतिचनबिन्दून् च लिखतु |
10:22 किञ्चन अक्षरं चिनोतु , तस्य font - नाम “Free Sans” इति, font -आकारं “16” चेति परिवर्तयतु |
10:29 अक्षरं “Italics” करोतु |
10:32 font रक्तवर्णीयं करोतु |
10:35 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
10:38 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
10:41 यदि भव​त्सविधे उत्तमं bandwidth नास्ति तर्हि भवान् अवारोप्य तद् द्रष्टुं शक्नोति |


10:46 वयं spoken tutorials उपयुज्य कार्यशाला: आयोजयाम: |
10:49 online - वयं परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि दद्म: |
10:55 कृपया अधिकज्ञानार्थं contact@spoken-tutorial.org सम्पर्कं करोतु |
11:02 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
11:06 य: National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
11:09 spoken-tutorial.org/NMEICT-Intro इत्यनेन असौ प्रकल्प: समन्वित:
11:14 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
11:18 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
11:25 एतद्पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |


11:30 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha