Java/C2/do-while/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 जावा मध्ये do-while Loop विषयस्य पाठार्थम् स्वागतम्।
00:06 अस्मिन् पाठे वयम्,
  • do-while loop ' विषयम्,
  • तथा अस्योपयोगञ्च

ज्ञास्यामः ।

00:12 वयमत्र,

Ubuntu 11.10, JDK 1.6 अपि च Eclipse 3.7 इतीमानि उपयुञ्ज्महे ।

00:20 पाठमिममनुसर्तुं भवन्तः, जावामध्ये while loop इत्यस्य विषये जानीयुः ।
00:25 न चेत् तत्सम्बद्धपाठार्थम् अधोनिर्दिष्ट-जालपुटं पश्यन्तु ।
00:32 अत्र do-while loop इत्यस्य स्वरूपं दत्तमस्ति ।
00:37 इदं while loop इवास्तीति ज्ञायते ।
00:40 अस्य विभागद्वयमस्ति ।
00:42 प्रथमं लूप् अस्य “running condition” अस्ति , तथा द्वितीयं लूप् अस्य “variable” अस्ति ।
00:51 व्यत्यासमेवमस्ति यत् condition इदम् do ब्लोक् अस्यानन्तरं लिखितमस्ति ।
00:58 अतः कण्डीशन् इदं do block इत्यस्मिन् वर्तमानस्य स्टॆट्-मेण्ट् अस्य एक्सिक्यूट्-सम्भवादनन्तरं परीक्ष्यते ।
01:05 किञ्चन उदाहरणं पश्यामः ।
01:07 तदर्थम् एक्लिप्स् प्रत्यागच्छतु ।
01:11 वयमत्र Eclipse IDE इतीदं तथा कॊड्स् अर्थं स्थूलरचनां लिखितवन्तः ।
01:17 वयं DoWhileDemo इत्येकं क्लास् रचितवन्तः । main method इत्यस्मै योजितवन्तः च।
01:22 वयम् do-while loop इतीदमुपयुज्य 1 तः आरभ्य 10 पर्यन्ताः सङ्ख्याः मुद्रापयामः ।
01:27 एवं टङ्कयतु,,
01:29 int n समम् 1
01:32 n इतीदं लूप् अस्य variable भविष्यति ।
01:36 तदनन्तरं do इति टङ्कयतु ।
01:40 braces उद्घाट्य पिदधातु ।
01:44 braces मध्ये System.out.println(n); इति टङ्कयतु ।
01:55 वयं n अस्य मूल्यं मुद्रापयामः, वर्धयामः च। अतः n समम् n प्लस् 1;
02:05 वयमिदम्,,
02:08 n न्यूनं समं वा 10 पर्यन्तं कुर्मः ।
02:10 braces इत्यस्य बहिः, किन्तु पेरन्थिसिस् इत्यस्यान्तः n न्यूनं समं वा 10 इति टङ्कयतु ।
02:20 do-while इतीदं सेमिकोलन् उपयुज्य पिदधातु ।
02:25 code इत्यस्य कार्यं पश्यामः ।
02:28 Save कृत्वा Run करोतु ।
02:37 1 तः 10 पर्यन्ताः सङ्ख्याः वयं पश्यन्तः स्मः ।
02:42 code कथं कार्यं करोतीति पश्यामः ।
02:47 आदौ, n अस्य मूल्यं 1 इति वर्तते, तदनन्तरं 2 भविष्यति ।
02:52 अग्रे कण्डीशन् परीक्ष्यते ।
02:55 तत् सम्यगस्तीत्यतः , पुनः 2 इति मुद्राप्य, अग्रे n इत्यस्य मूल्यं 3 भविष्यति ।
03:00 एषा क्रिया 10 पर्यन्तानां सङ्ख्यानां मुद्रणपर्यन्तं पुनरावृत्य n अस्य मूल्यं 11 सम्भवति ।
03:06 यदा n = 11 इति सम्भवति तदा कण्डीशन् मिथ्या भूत्वा लूप् क्रिया रुध्यते ।
03:11 वयमधुना 50 तः 40 पर्यन्तानां सङ्ख्यानां अवरोहण-क्रमं लिखामः ।
03:17 50 तः प्रारम्भं कुर्मः ।
03:19 n = 1 इदं n = 50 इति परिवर्तयतु ।
03:23 वयमधिकतः न्यूनपर्यन्तं लूप् कुर्वन्तः स्मः इत्यतः ,
03:29 n = n + 1 इदं n = n - 1 इति परिवर्तयतु ।
03:34 वयं n अधिकं समं वा 40 पर्यन्तं लूप् कुर्मः ।
03:40 तदर्थं नियममिमं n >= 40 इति परिवर्तयतु ।
03:48 परिणामं पश्यामः ।
03:50 Save कृत्वा रन् करोतु ।
03:57 वयं 50 तः 40 पर्यन्ताः सङ्ख्याः पश्यामः ।
04:02 वयमधुना do-while loop उपयुज्य अन्यदेकं लोजिक् यतामहै ।
04:10 एका सङ्ख्या दत्ता, इयं पूर्णवर्गसङ्ख्या वा ,नवेति परीक्षणीयम्।
04:15 आदौ मेन् मेथड् निष्कासयामः ।
04:19 तदनन्तरं int n = 25; इति टङ्कयतु ।
04:25 वयम् n इत्यस्मिन् वर्तमाना सङ्ख्या पूर्णवर्गो वा नवेति पश्यामः ।
04:32 अग्रे int x = 0; इति टङ्कयतु ।
04:37 यदि दत्ता सङ्ख्या पूर्णवर्गसङ्ख्या तर्हि तस्याः वर्गमूलं सङ्ग्रहीतुं x इदम् उपयुञ्ज्महे ।
04:44 do इति टङ्कयतु ।
04:46 ब्रेसेस् उद्घाट्य पिदधातु ।
04:49 ब्रेसेस् अन्तः x समंx धनचिह्नं 1 इति टङ्कयतु ।
04:55 अपि च ब्रेसेस् इत्यस्य बहिः,,
04:58 अर्थात् पेरन्थिसिस् अस्यान्तः (x into x < n) टङ्कयित्वा
05:06 सेमिकोलन् इत्यनेन do-while अस्यान्तं करोतु ।
05:10 यावत् x into x न्यूनं n तः इदं सत्यं भवति, तावत् वयं x अस्य मूल्यं वर्धयन्तः भवामः ।
05:16 यदा लूप् रुद्ध्यते तदा तद्विलोमस्थितिः सत्यं भवति ।
05:22 अर्थात् x into x समं n भवितव्यम्, अथवा,
05:26 तत् n अस्मात् अधिकतरः भवेत् ।
05:28 यदि x into x समम् n इति भवेत् तर्हि दत्ता सङ्ख्या पूर्णवर्गस्ङ्ख्या ।
05:32 न चेत् पूर्णवर्गसङ्ख्या नेत्यर्थः ।
05:37 तदर्थं कण्डीशन् लिखामः ।
05:47 System.out.println(x * x == n);
05:55 कोड् इत्यस्य क्रियां पश्यामः ।
05:59 Save अपि च Run करोतु । फलिते वयं true इति प्राप्तवन्तः ।
06:07 अन्यदेकं पूर्णवर्गं पश्यामः ।
06:10 n = 25 इतीदं n = 49 इति परिवर्तयतु ।
06:15 Save कृत्वा Run करोतु ।
06:20 पुनर्वयं true इत्येव फलितं प्राप्नुमः ।
06:23 अधुना अपूर्णवर्गसङ्ख्यामेकां परीक्षामहे ।
06:26 49 इतीदं 23 इति परिवर्तयतु, Save कृत्वा रन् करोतु ।
06:34 अस्माकम् अपेक्षानुसारं false इत्येव फलितं प्राप्तवन्तः ।
06:37 n अस्य मूल्यं 0 वर्तते चेत् किं भवतीति पश्यामः ।
06:42 n = 23 इतीदं n = 0 इति परिवर्तयतु । 0 इतीदं सहजसङ्ख्या नेत्यतः , false इत्येवोत्तरं अपेक्षितम् ।
06:52 रन् कुर्मः ।
06:54 Save कृत्वा रन् करोतु ।
07:00 अस्माकम् अपेक्षानुसारं false इत्युत्तरमेव प्राप्तवन्तः ।
07:05 कण्डीशन् अस्य परीक्षायाः पूर्वमेव इदमेवं सम्भवति ।
07:08 x into x न्यूनम्n तः । x अस्य मूल्यं वर्धयति । अतः1 इति सम्भवति ।
07:16 लूप्-कण्डीशन् समीचीनं नास्तीत्यतः लूप् रन् न सम्भवति ।
07:20 एवम्, do-while loop उपयुज्य 0 पूर्णवर्गसङ्ख्या नेति अन्विष्टवन्तः ।
07:26 एवम्, do-while loop इतीदं समस्यापरिहारार्थम् उपयुञ्ज्महे ।
07:31 विशेषतः, अन्यूनम् एकवारम् उपयोक्तव्यम् ।
07:37 वयं पाठस्यान्तं प्राप्तवन्तः ।
07:40 पाठेऽस्मिन् वयम्,,
07:42 do-while loop इत्यस्य विषयम् अपि च अस्योपयोगञ्च ज्ञातवन्तः ।
07:46 स्वाभ्यासार्थम् अधोनिर्दिष्टां समस्यां परिहरन्तु ।
07:50 एका बैनरि सङ्ख्या दत्ता, तस्याः दशमानस्य समानसङ्ख्याम् अन्विशतु । उदाहरणार्थम् 11010 => 26
07:56 Spoken Tutorial विषये इतोऽप्यधिकं ज्ञातुं जालपुटेऽस्मिन् दत्तं चलच्चित्रं पश्यन्तु ।
08:01 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
08:06 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
08:16 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
08:22 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।

इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।

08:32 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:36 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal