Java/C2/Hello-World-Program-in-Eclipse/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:39, 23 September 2014 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 HelloWorld in Java on Eclipse इत्याख्ये अस्मिन् पाठे भवतां स्वागतम्।
00:06 पाठेऽस्मिन् वयम् एक्लिप्स् इत्यस्य उपयोगेन जावा मध्ये Hello World इति प्रोग्राम् कथं लेखनीयमिति ज्ञास्यामः।
00:13 अस्मिन् पाठे वयं Eclipse 3.7.0 अपि च Ubuntu 11.10 इत्यस्य उपयोगं कुर्मः।
00:20 पाठमिमम् अनुसर्तुं भवतां यन्त्रे एक्लिप्स् संस्थापितं भवेत्।
00:25 अपि च, भवन्तः एक्लिप्स् मध्ये सञ्चिकारचाना कथं, तस्यां रक्षणं कथं चालनं च कथमिति जानीयुः।
00:30 यदि नास्ति, तर्हि एतत्सम्बद्धपाठाय अत्र दर्शितं जालपुटं पश्यन्तु।
00:36 अत्र या जावा कोड् इत्यस्य पङ्क्तिः दृश्यते सा Hello World इति सन्देशं प्रिंट् करोति।
00:44 अधुना एक्लिप्स् मध्ये इदं प्रयतामहे।
00: 46 Alt, F2 नुदन्तु अपि च दृश्यमानसंवादपेटिकायां eclipse इति टङ्कयित्वा Enter नुदन्तु।
00:56 Workspace Launcher इति संवादपेटिकायां Ok नुदन्तु, अधुना अस्मत्सविधे Eclipse IDE अस्ति।
01:09 अधुना वयं नवं प्रोजेक्ट् योजयामः।
01:12 File इत्यत्र नुत्त्वा तत्र New इत्यत्र Project इति चिन्वन्तु।
01:19 प्रोजेक्ट्-सूच्यां Java Project इति चित्वा Next इत्यत्र नुदन्तु।
01:26 Project name इत्यत्र, DemoProject इति टङ्कयन्तु। (अत्रावधीयताम्, Demo अपि च Project अनयोर्मध्ये अवकाशः नास्ति अपि च D P इत्येते बृहदक्षरेण स्तः।
01:40 पेटिकायाः अधः दक्षिणकोणे स्थितं Finish इति पिञ्जं नुदन्तु।
01:46 DemoProject इति अधुना आरचितमभवत्।
01:49 अधुना प्रोजेक्ट् कृते नवं क्लास् योजयामः।
01:52 प्रोजेक्ट् इत्यस्य उपरि रैट् क्लिक् कृत्वा तत्र New इत्यत्र Class इति चिन्वन्तु।
01:59 अत्र Name इत्यत्र DemoProgram इति टङ्कयित्वा मेथेड् स्टब्स् इत्यत्र Public Static Void main इति चिन्वन्तु।
02.13 पेटिकायाः अधः दक्षिणकोणे स्थितं Finish पिञ्जं नुदन्तु।
02.20 वयमत्र दृष्टुं शक्नुमः यत्, DemoProject इत्यत्र सोर्स् सन्धारिका अस्ति अपि च Demo program.Java इति नाम्ना काचित् सञ्चिका अपि अस्ति इति।
02:27 यतोहि, जावा मध्ये प्रत्येकमपि क्लास् तस्यां सञ्चिकायामेव भवति, एवमेव, Demo Program इति क्लास् अपि Demo program. Java इत्यस्यां सञ्चिकायामेव वर्तते।
02:40 अत्र एडिटर् इत्यस्य कृते बहु लघुस्थानं वर्तते, अतः अन्यानि पोर्ट्लेट् इत्येतानि लघु कृत्वा इदं बृहत्कुर्मः।
02:55 अत्र पश्यन्तु, एषा पङ्क्तिः द्वाभ्यां स्लाश् इत्याभ्यां आरभ्यते, अर्थात् एषा पङ्क्तिः केवलं कमेंट् अस्ति अपि च कोड् इत्यनेन समं सम्बद्धा नास्ति।
03:05 वयं पङ्क्तिमिमां निष्कासयामः। एवमेव, स्लाश् आस्ट्रिक्स् अपि च आस्ट्रिक्स् स्लाश् इत्यनयोर्मध्यस्थं सर्वं कमेंट् एव अस्ति,
03:17 अतः एतमपि निष्कासयामः।
03:22 अधुना अत्र कोड् इत्यस्य प्रमुखाः भागाः सन्ति।
03:27 अधुना वयं प्रिंट् स्टेट्मेंट् योजयामः। System.
03:35 अत्र पश्यन्तु, वयं यदा टङ्कयामः कुर्मः तदा एक्लिप्स् तस्य सर्वाः सम्भावनाः सूचयति।
03:38 अधुना वयं स्वयं आदेशं टङ्कयामः।
03:43 out.println अपि च भक्किकायां कोट् इत्यनयोर्मध्ये HelloWorld इति टङ्कयन्तु।
03:56 जावा मध्ये प्रत्येकमपि स्टेट्मेंट् सेमिकोलन् इत्यनेन समाप्यते।
03:59 अतः सेमिकोलोन् योजयामः।
04:03 अधुना इदं जावा मध्ये किञ्चन सम्पूर्णं HelloWorld प्रोग्राम् अस्ति।
04:06 रक्षितुं Ctrl + S नुदन्तु।
04:11 रैट् क्लिक् कृत्वा तत्र Run as अपि च java application इति नुत्त्वा कोड् इतीदं चालयन्तु।
04:19 पश्यन्तु, औट्पुट् कन्सोल् मध्ये HelloWorld इति सन्देशः प्रिंट् अभवत्।
04:24 अधुना वयं World इतीदं Java इति परिवर्तयामः।
04:30 Ctrl + S नुत्त्वा सेव् कृत्वा Run कुर्वन्तु।
04:41 वयमधुना Hello Java इति प्रिंट् जातमिति पश्यामः।
04:45 वयमधुना कोड् इत्यस्य प्रत्येकमपि भागः किं करोति इति ज्ञास्यामः।
04:48 प्रथमा पङ्क्तिः क्लास् इत्यस्य नाम DemoProgram इति अपि च एतत् Public class इति ज्ञापयति।
04:55 द्वितीया पङ्क्तिः एतत् main method अस्ति इति ज्ञापयति, अर्थात्, एतस्मात् जावा मध्ये निर्वहणमारभ्यते।
05:04 वयं जानीमः यत् एतत् प्रिंट् स्टेट्मेंट् अस्ति इति।
05:07 एवं वयं जावा मध्ये HelloWorld प्रोग्राम् लिखामः।
05:14 अधुना वयं अस्य पाठस्यान्तं प्राप्तवन्तः।
05:17 अस्मिन् पाठे वयं HelloWorld इति प्रोग्राम् कथं लेखनीयं अपि च कोड् इत्यस्य प्रत्येकमपि भागः किं द्योतयति इति ज्ञातवन्तः।
05:27 पाठस्यास्य अभ्यासाय,
05:29 भवन्तः Greet नाम्ना जावा क्लास् रचयन्तु तत्र औट्पुट् मध्ये Program Successful इति यथा दृशेत तथा प्रोग्राम् लिखन्तु।
05:37 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यत्र उपलभ्यमानं विडीयो पश्यन्तु।
05:42 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
05:45 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
05:51 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
05:55 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
05:59 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
06:05 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
06:09 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
06:14 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
06:19 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal