Java/C2/Hello-World-Program-in-Eclipse/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Eclipse मध्ये HelloWorld in Java इत्याख्ये अस्मिन् पाठे भवते स्वागतम्।
00:06 पाठेऽस्मिन् वयम् एक्लिप्स् इत्यस्य उपयोगेन जावा मध्ये Hello World इति प्रोग्रां कथं लेखनीयमिति ज्ञास्यामः।
00:13 अस्मिन् पाठे वयं Eclipse 3.7.0 अपि च Ubuntu 11.10 इत्यस्य उपयोगं कुर्मः।
00:20 पाठमिमम् अनुसर्तुं भवतां यन्त्रे एक्लिप्स् संस्थापितं भवेत्।
00:25 अपि च, भवन्तः एक्लिप्स् मध्ये सञ्चिकारचाना कथं, तस्यां रक्षणं कथं चालनं च कथमिति जानीयुः।
00:30 यदि नास्ति, तर्हि एतत्सम्बद्धपाठाय अत्र दर्शितं जालपुटं पश्यन्तु।
00:36 अत्र या जावा कोड् इत्यस्य पङ्क्तिः दृश्यते सा Hello World इति सन्देशं प्रिंट् करोति।
00:44 अधुना एक्लिप्स् मध्ये इदं प्रयतामहे।
00:46 Alt, F2 नुदन्तु अपि च दृश्यमानसंवादपेटिकायां eclipse इति टङ्कयित्वा Enter नुदन्तु।
00:56 Workspace Launcher इति संवादपेटिकायां Ok नुदन्तु, अधुना अस्मत्सविधे Eclipse IDE अस्ति।
01:09 अधुना वयं नवं प्रोजेक्ट् योजयामः।
01:12 File इत्यत्र नुत्त्वा तत्र New इत्यत्र Project इति चिन्वन्तु।
01:19 प्रोजेक्ट्-सूच्यां Java Project इति चित्वा Next इत्यत्र नुदन्तु।
01:26 Project name इत्यत्र, DemoProject इति टङ्कयन्तु। अत्रावधीयताम्, Demo अपि च Project अनयोर्मध्ये अवकाशः नास्ति अपि च D P इत्येते बृहदक्षरेण स्तः।
01:40 पेटिकायाः अधः दक्षिणकोणे स्थितं Finish इति पिञ्जं नुदन्तु।
01:46 DemoProject इति अधुना आरचितमभवत्।
01:49 अधुना प्रोजेक्ट् कृते नवं क्लास् योजयामः।
01:52 प्रोजेक्ट् इत्यस्य उपरि रैट् क्लिक् कृत्वा तत्र New इत्यत्र Class इति चिन्वन्तु।
01:59 अत्र Name इत्यत्र DemoProgram इति टङ्कयित्वा मेथेड् स्टब्स् इत्यत्र Public Static Void main इति चिन्वन्तु।
02:13 पेटिकायाः अधः दक्षिणकोणे स्थितं Finish पिञ्जं नुदन्तु।
02:20 वयमत्र दृष्टुं शक्नुमः यत्, DemoProject इत्यत्र सोर्स् सन्धारिका अस्ति अपि च Demo program.Java इति नाम्ना काचित् सञ्चिका अपि अस्ति इति।
02:27 यतोहि, जावा मध्ये प्रत्येकमपि क्लास् तस्यां सञ्चिकायामेव भवति, एवमेव, Demo Program इति क्लास् अपि Demo program. Java इत्यस्यां सञ्चिकायामेव वर्तते।
02:40 अत्र एडिटर् इत्यस्य कृते बहु लघुस्थानं वर्तते, अतः अन्यानि पोर्ट्लेट् इत्येतानि लघु कृत्वा इदं बृहत्कुर्मः।
02:55 अत्र पश्यन्तु, एषा पङ्क्तिः द्वाभ्यां स्लाश् इत्याभ्याम् आरभ्यते, अर्थात् एषा पङ्क्तिः केवलं कमेंट् अस्ति अपि च कोड् इत्यनेन समं सम्बद्धा नास्ति।
03:05 वयं पङ्क्तिमिमां निष्कासयामः। एवमेव, स्लाश् आस्ट्रिक्स् अपि च आस्ट्रिक्स् स्लाश् इत्यनयोर्मध्यस्थं सर्वं कमेंट् एव अस्ति,
03:17 अतः एतमपि निष्कासयामः।
03:22 अधुना अत्र कोड् इत्यस्य प्रमुखाः भागाः सन्ति।
03:27 अधुना वयं प्रिंट् स्टेट्मेंट् योजयामः। System.
03:35 अत्र पश्यन्तु, वयं यदा टङ्कयामः तदा एक्लिप्स् तस्य सर्वाः सम्भावनाः सूचयति।
03:38 अधुना वयं स्वयम् आदेशं टङ्कयामः।
03:43 out.println अपि च भक्किकायां कोट् इत्यनयोर्मध्ये HelloWorld इति टङ्कयन्तु।
03:56 जावा मध्ये प्रत्येकमपि स्टेट्मेंट् सेमिकोलन् इत्यनेन समाप्यते।
03:59 अतः सेमिकोलोन् योजयामः।
04:03 अधुना इदं जावा मध्ये किञ्चन सम्पूर्णं HelloWorld प्रोग्राम् अस्ति।
04:06 रक्षितुं Ctrl + S नुदन्तु।
04:11 रैट् क्लिक् कृत्वा तत्र Run as अपि च java application इति नुत्त्वा कोड् इतीदं चालयन्तु।
04:19 पश्यन्तु, औट्पुट् कन्सोल् मध्ये HelloWorld इति सन्देशः प्रिंट् अभवत्।
04:24 अधुना वयं World इतीदं Java इति परिवर्तयामः।
04:30 Ctrl + S नुत्त्वा सेव् कृत्वा Run कुर्मः।
04:41 वयमधुना Hello Java इति प्रिंट् जातमिति पश्यामः।
04:45 वयमधुना कोड् इत्यस्य प्रत्येकमपि भागः किं करोति इति ज्ञास्यामः।
04:48 प्रथमा पङ्क्तिः क्लास् इत्यस्य नाम DemoProgram इति अपि च एतत् Public class इति ज्ञापयति।
04:55 द्वितीया पङ्क्तिः एतत् main method अस्ति इति ज्ञापयति, अर्थात्, एतस्मात् जावा मध्ये निर्वहणमारभ्यते।
05:04 वयं जानीमः यत् एतत् प्रिंट् स्टेट्मेंट् अस्ति इति।
05:07 एवं वयं जावा मध्ये HelloWorld प्रोग्राम् लिखामः।
05:14 अधुना वयं अस्य पाठस्यान्तं प्राप्तवन्तः।
05:17 अस्मिन् पाठे वयं HelloWorld इति प्रोग्रां कथं लेखनीयं अपि च कोड् इत्यस्य प्रत्येकमपि भागः किं द्योतयति इति ज्ञातवन्तः।
05:27 पाठस्यास्य अभ्यासाय,
05:29 भवन्तः Greet नाम्ना जावा क्लास् रचयन्तु तत्र औट्पुट् मध्ये Program Successful इति यथा दृशेत तथा प्रोग्राम् लिखन्तु।
05:37 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु
05:42 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
05:45 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
05:51 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
05:55 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
05:59 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
06:05 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
06:09 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
06:14 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
06:19 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal