Difference between revisions of "Java/C2/For-Loop/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 20: Line 20:
 
|  00:32
 
|  00:32
 
| न चेत् तदर्थमस्माकं जालपुटं पश्यन्तु ।
 
| न चेत् तदर्थमस्माकं जालपुटं पश्यन्तु ।
[spoken-tuitorial.org]  
+
[spoken-tuitorial.org]  
 
|-
 
|-
 
| 00:40
 
| 00:40

Latest revision as of 15:52, 3 July 2018

Time Narration
00:02 जावा मध्ये for loop विषयस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयं जावा मध्ये for loop इतीदं कथमुपयोक्तव्यमिति ज्ञास्यामः ।
00:12 पाठार्थमहम्,

Ubuntu 11.10 JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुनज्मि ।

00:24 पाठमिदमनुसर्तुं भवन्तः जावा-मध्ये relational operators तथा च if statement इत्यनयोः विषयं जानीयुः ।
00:32 न चेत् तदर्थमस्माकं जालपुटं पश्यन्तु ।

[spoken-tuitorial.org]

00:40 अत्र for loop इत्यस्य सिण्टेक्स् वर्तते ।
00:44 इदं initialization, loop condition अपि च increment इत्येतान् प्राप्तवदस्ति ।
00:51 पश्चादिदं for block इतीदं प्राप्तवदस्ति । यावत् लूप् कण्डिशन् सम्यग्वर्तते तावदिदं एक्सिक्यूट् जायते ।
01:00 अधुना Eclipse मध्ये एकमुदाहरणं पश्याम ।
01:04 अधुना eclipse प्रति गच्छाम ।
01:07 अस्माभिः सह ForLoopDemo इति क्लास् वर्तते ।
01:12 अधुना main method मध्ये for loop योजयाम ।
01:17 अतः main method मध्ये int i इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
01:24 पश्चात् for इति टङ्कयित्वा ब्रेकेट् मध्ये i equal to 0 semi colon i lesser than 10 semi colon i equal to i plus 1 इति टङ्कयन्तु ।
01:45 इदं स्टेट्मेण्ट् , लूप् कथं विकासं प्राप्नोतीति निश्चिनोति ।
01:53 i =0 इतीदं लूप् इत्यस्य आरम्भकं कण्डीशन् वर्तते ।
01:58 इदं स्टेट्मेण्ट् , वेरियेबल् इतीदं इनिशियलैज़् कर्तुं अनुमन्यते ।
02:05 i<10 इतीदं loop running condition वर्तते ।
02:09 कण्डीशन् सत्यम्स्ति चेत् for block एक्सिक्यूट् जायते ।
02:14 न चेत् तत् अलक्ष्यते ।
02:17 अर्थात्, 'i' इत्यस्य मूल्यं 10 इत्यस्मात् अधिकं समं वा जायते चेत् ब्लोक् एक्सिक्यूट् न भवति ।
02:25 पश्चात्, i= i+1 इतीदं, लूप् वेरियेबल् कथं परिवर्त्यते इति वदति ।
02:32 अत्र 'i' इत्यस्य मूल्यं शून्यादारभ्य प्रारभते ।
02:35 इदं लूप् इत्यस्य प्रत्येकाय आवर्तनाय, 10 पर्यन्तं एकैकशः अधिकं भवति ।
02:42 अधुना 'i' इत्यनेन सह किमपि कुर्मः ।
02:46 कर्लि ब्रेकेट् उद्घाट्य पिधानं कुर्वन्तु ।
02:49 कर्लि ब्रेकेट् मध्ये System Dot out Dot println इति टङ्कयित्वा , i into i इति टङ्कयन्तु ।
03:06 इदं 0 इत्यस्मात् आरभ्य 9 पर्यन्तानां सर्वासां सङ्ख्यानां वर्गान् मुद्रयति ।
03:11 अधुना फलितं पश्याम ।
03:13 अतः संविधिं save कृत्वा run कुर्वन्तु ।
03:17 लूप् इतीदं 0 इत्यस्मात् आरभ्य 9 पर्यन्तं रन् जायते ।
03:23 प्रत्येके पुनरावर्ते सङ्ख्यायाः वर्गः मुद्र्यते ।
03:28 अधुना वयं 3 इत्यस्य, 5 इत्यस्य वा सर्वान् अपवर्तनान् मुद्रयाम ।
03:37 अर्थात् i इत्यस्य मूल्यं 10 इत्यारभ्य 99 पर्यन्तं भवेत् ।
03:42 अतः, i equal to 0 इतीदं i equal to 10 इति परिवर्तताम् ।
03:48 अपि च i lesser than 10 इतीदं i lesser than 100 इति परिवर्तताम् ।
03:54 पश्चात् कर्लि ब्रेकेट् इत्यस्यान्तः, वयं यदि सङ्ख्या 3 अथवा 5 इत्यस्य अपवर्तनं वर्तते तर्हि मुद्रणं कुर्मः ।
04:03 अतः if inside bracket i mod 3 equal to equal to 0 OR inside bracket i mod 5 equal to equal to 0 इति टङ्कयन्तु ।
04:32 इदं स्टेट्मेण्ट् 'i' इतीदं '3' अथवा '5' इत्यनेन भाजितं भवति वा इति परीक्षते ।
04:38 पश्चात् कर्लि ब्रेकेट्-मध्ये 'i' इत्यस्य मूल्यं मुद्रयति ।
04:50 अधुना फलितं पश्याम ।
04:52 अतः इमं संविधिं save कृत्वा run कुर्वन्तु ।
04:56 वयमधुना ताः सङ्ख्याः 3 अथवा 5 इत्यस्य अपवर्तनानि सन्तीति जानीमः । एवं जावा मध्ये for loop इतीदं उपयोक्तुं शक्नुमः ।
05:11 वयं पाठस्यान्तमागतवन्तः ।
05:14 पाठेऽस्मिन् वयं जावामध्ये for loop इतीदं उपयोक्तुं ज्ञातवन्तः ।
05:20 पाठनियोजनार्थम् – तिस्रः सङ्ख्याः परिगृह्णन्तु । तस्याः प्रत्येकस्य अङ्कस्य घनस्य सम्पर्कस्य(sum) मूल्यं सा एव सङ्ख्या भवति चेत्, सा सङ्ख्या अर्म्-स्ट्रोङ्ग्-नम्बर् इति कथ्यते ।
05:29 उदाहरणार्थम् - 153 । एषा '1 इत्यस्य घनस्य' , '5 इत्यस्य घनस्य' , '3 इत्यस्य घनस्य ' सम्पर्काय समा अस्ति ।
05:36 एतादृशाः सर्वाः 3भिः अङ्कैः युताः सङ्ख्याः अन्विषन्तु ।
05:40 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्,
05:42 लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु - spoken-tuitorial.org/What_is_a_Spoken-Tuitorial?
05:49 इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
05:56 स्पोकन् ट्युटोरियल् टीम् स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति ।
06:01 जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
06:04 अधिकविवरणार्थम् - contact at spoken hyphen tutorial dot org. इत्यस्मै लिखन्तु ।
06:10 स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते । अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते ।
06:20 अधिकविवरणं spoken hyphan tutorial dot org slash NMEICT hyphan Intro इत्यत्रोपलभ्यते ।
06:28 इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14