Java/C2/Array-Operations/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:26, 15 February 2015 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 जावामध्ये अर्रे-ओपरेशन् विषयस्य स्पोकन्-ट्युटोरियल् अर्थं स्वागतम् ।
00:07 अस्मिन् ट्युटोरियल् मध्ये वयम्,,
00:09 अर्रे अस्य क्लास् इदं कथं इम्पोर्ट् करणीयमिति,
00:12 तथा अर्रे अस्य क्रिया-विषयान् जानीयाम ।
00:15 वयमत्र
  • Ubuntu version 11.10 OS
  • Java Development kit 1.6
  • Eclipse 3.7.0 च

उपयुञ्ज्महे ।

00:25 पाठमिदमनुसर्तुं युष्माकम् अर्रे अस्य विषये ज्ञानमवश्यम् ।
00:30 न ज्ञातं चेत् अधोनिर्दिष्टं जालपुटं पश्यन्तु ।

(http://www.spoken-tutorial.org)

00:35 अर्रे-अस्य क्रियाणां मेथड्स्, Arrays इति नाम्नः क्लास्-मध्ये उपलभ्यन्ते ।
00:40 तानि उपयोक्तुं तत् क्लास् इम्पोर्ट् करणीयम् ।
00:43 तदर्थं import java.util.Arrays इति उक्तिः उपयोक्तव्या ।
00:50 मेथड् एकं तस्य क्लास् तः एक्सेस् कर्तुं शक्नुमः ।
00:52 डोट् अपि च मेथड् अनयोः नामनी सम्मेल्य मेथड्-एक्सेस् कर्तुं शक्नुमः ।
00:56 Arrays डोट् toString , इत्युक्तं चेत् Arrays क्लास् अस्य toString मेथड् इत्यर्थः ।
01:05 अधुना एक्लिप्स् प्रति गमिश्यामः ।
01:08 वयं पूर्वे एव ArraysDemo नाम्नः क्लास् रचितवन्तः ।
01:13 अधुना Arrays इति क्लास् इम्पोर्ट् कुर्मः ।
01:16 इम्पोर्ट्-स्टेट्-मेण्ट्-इतीदं क्लास् अस्य निरूपणात् पूर्वमेव लेखनीयम् ।
01:22 तदर्थं public class अस्मात् पूर्वम्,
01:26 import java.util.Arrays इति टङ्कयित्वा सेमिकोलन् नुदतु ।
01:46 उक्तिरियं “ जावा इतीदम् util इति पेकेझ्-युक्तं तथा Arrays इति क्लास्-युक्तं च. वयमधुना इदं इम्पोर्ट् करणीयम्” इति आज्ञापयति ।
01:59 अधुना अर्रे एकं योजयाम ।
02:01 मेन् मेथड् मध्ये,
02:03 int marks स्क्वेर्-ब्रेकेट् उद्घाट्य-पिधाय , समचिह्नं , ब्रेकेट् मध्ये 2, 7, 5, 4, 8 इति टङ्कयतु ।
02:20 वयमधुना 'Arrays' क्लास्-मध्ये विद्यमानं मेथड्-उपयुज्य अर्रे-इतीदं स्ट्रिङ्ग्-रूपे निरूप्य प्रिण्ट् कुर्मः ।
02:28 अतः String mStr समं Arrays डोट् toString इति टङ्कयित्वा ब्रेकेट् मध्ये , अर्रे-नेम् marks यदस्ति तट्टङ्कयाम ।
02:50 toString इति मेथड् अर्रे इतीदं स्ट्रिङ्ग्-रूपे निरूपयति ।
02:56 मार्क्स् इतीदं मुद्रापयामः ।
02:58 तदर्थं System डोट् out डोट् println ब्रेकेट्-मध्ये mStr इति टङ्कयतु ।
03:12 फलितम् दृष्टुं व्यवस्थां रक्षयित्वा रन् कुर्मः ।
03:18 फलिते पश्यामः यत् , toString मेथड् अर्रे-इतीदं स्ट्रिङ्ग् रूपे निरूपयति ।
03:26 अधुना अर्रे-एलिमेण्ट्स् इतीमानि वृद्धिक्रमे नियोजनं कथमिति पश्यामः ।
03:31 तदर्थं Arrays डोट् toString पङ्क्तेः पूर्वं Arrays डोट् sort इति टङ्कयतु ।ब्रेकेट् मध्ये अर्रे-नेम् अर्थात् marks इति टङ्कयतु ।
03:46 Arrays क्लास् अस्य sort मेथड् यदस्ति तत्, तस्मै प्रेशितं अर्रे इतीदं वृद्धिक्रमे योजयति ।
03:53 अर्थात् वयमधुना marks-अर्रे अस्य एलिमेण्ट्स् यानि सन्ति तानि वृद्धिक्रमे नियोज्य तस्य स्ट्रिङ्ग् रूपं प्रिण्ट् कुर्वन्तः स्मः ।
04:04 फलितं दृष्टुं रक्षित्वा रन् करोतु ।
04:11 फलिते दृष्टं यत्, sort मेथड् अनेन अर्रे इतीदं वृद्धिक्रमे योजितम् ।
04:19 sort मेथड् , अर्रे अस्य क्रमाङ्कं परिवर्तयत् ।
04:22 क्रममिदं इन्प्लेस्-सर्टिङ्ग् इति उच्यते ।
04:26 अर्थात् सोर्टिङ्ग्-अस्य परिणामेण अर्रे-एलिमेण्ट्स् एषां स्थानं परिवर्तितम् ।
04:33 वयमधुना fill मेथड् विषयं ज्ञास्यामः ।
04:38 fill मेथड् आर्ग्युमेण्ट् द्वयं गृह्णाति ।
04:43 सोर्टिङ्ग् मेथड् अस्य पङ्क्तिं निष्कासयतु ।
04:50 Arrays डोट् fill ब्रेकेट् मध्ये अर्रेनेम् अर्थात् marks इति टङ्कयतु ।
05:05 (इदमस्माभिः दत्तं प्रथमम् आर्ग्य्मेण्ट् वर्तते) अपि च अस्माभिर्दास्यमानं नूतनमूल्यं द्वितीयं आर्ग्युमेण्ट् भविष्यति ।अतः 6 इति टङ्कयित्वा ब्रेकेट् पिधाय सेमिकोलन् नुदतु, रक्षयित्वा रन् करोतु ।
05:24 नामानुसारं fill मेथड् अस्माभिः प्रेशितं आर्ग्युमेण्ट् “6” इतीदं अर्रे मध्ये योजयति ।
05:32 वयमधुना copyOf मेथड् विषयं ज्ञास्यामः ।
05:37 वयमधुना marks अर्रे-अस्य सर्वाणि एलिमेण्ट्स् इतीमानि marksCopy अर्रे अस्मै कोपि कुर्मः ।
05:44 arrays डोट् fill इदं निष्कासयतु ।
05:48 अपि च int marksCopy []; इति टङ्कयतु ।
05:59 अग्रिम पङ्क्तौ marksCopy = arrays. copyOf(marks, 5); इति टङ्कयतु ।
06:25 मेथड् इदं आर्ग्युमेण्ट्-द्वयं प्राप्नोति ।
06:29 यस्मात् अर्रे अस्मात् एलिमेण्ट्स् कोपि कुर्मः ,तस्य अर्रे अस्य नाम अर्थात् marks यदस्ति तदेव प्रथमम् आर्ग्युमेण्ट् अस्ति ।
06:39 कोपि क्रियमाणम् एलिमेण्ट्-सङ्ख्या अर्थात् 5 यदस्ति तद्द्वितीयम् ।
06:47 अग्रे arrays डोट् toString मध्ये marks इतीदं marksCopy इति परिवर्तयतु ।
06:55 व्यवस्थां रक्षयित्वा रन् करोतु ।
07:01 वयं marks अर्रे अस्य एलिमेण्ट्स् , marksCopy अर्रे अस्मै कोपि अभूदिति पश्यन्तः स्मः ।
07:10 अधुना एलिमेण्ट् अस्य सङ्ख्यां परिवर्तयन्ति चेत् किम्भवतीति पश्यामः ।
07:15 अतः 5 इदं 3 इति परिवर्तयतु ।
07:19 सञ्चिकां रक्षयित्वा रन् करोतु ।
07:24 अधुना वयं त्रीणि एलिमेण्ट्स् कोपि अभवदिति पश्यामः ।
07:31 अधुना कोपि क्रियमाणस्य एलिमेण्ट् अस्य सङ्ख्या मेन्-अर्रे-मध्ये वर्तमानस्य एलिमेण्ट् इत्येषां सङ्ख्यायाः अधिकं चेत् किम्भवतीति पश्यामः ।
07:39 3 इतीदं 8 इति परिवर्तयतु ।
07:44 व्यवस्थां रक्षित्वा रन् करोतु ।
07:48 अन्यानि एलिमेण्ट्स् डीफोल्ट् मूल्याय 0 अस्मै दत्तमिति पश्याम ।
07:54 अग्रे मूल्यानां व्याप्तिं कथं कोपी करणीयमिति पश्यामः ।
07:58 तदर्थं copyOf इतीदं copyOfRange इति अपि च 8 इदं 1, 4 इति परिवर्तयतु ।
08:15 मेथड् इदं अर्रे अस्य इण्डेक्स् 1 तः 3 पर्यन्तस्य सर्वाणि एलिमेण्ट्स् कोपी करोति ।
08:27 सेव् कृत्वा रन् करोतु ।
08:31 फलिते इण्डेक्स् 1तः 3 पर्यन्तानि सर्वाणि एलिमेण्ट्स् कोपी अभवन् इति पश्याम ।
08:39 1, 4 इतीदं आर्ग्यूमेण्ट् कृत्वा दत्तमिति पश्यन्तु ।
08:47 तथापि 4 पङ्क्तौ विद्यमानम् एलिमेण्ट् कोपी नाभूत् ।
08:50 केवलं इण्डेक्स् 3 पर्यन्तानि एलिमेण्ट्स् कोपी अभूत् ।दत्तायाः व्याप्त्याः पूर्वतन इण्डेक्स् म्ध्ये एव इयं प्रक्रिया रुध्यते ।
09:01 अतः गुणमिदं व्याप्त्याः नैरन्तर्यं नयतीति ज्ञायते ।
09:07 (0, 4) इतीदं 0 तः3 पर्यन्तानि एलिमेण्ट्स् द्योतयति ।
09:12 (4, 6) इतीदं 4 तः 5 पर्यन्तानि एलिमेण्ट्स् द्योतयति ।
09:17 अतः (0, 4) + (4, 6) = (0, 5) इति सम्भवति ।
09:26 वयं पाठस्यान्तं प्राप्तवन्तः ।
09:31 पाठेऽस्मिन् वयम्,,
09:33 Arrays इति क्लास् कथम् इम्पोर्ट्-करणीयमिति,
09:36 अपि च to strings, sort, copy, fill इत्यादीनां अर्रे इत्येतेषां क्रियाः ज्ञातवन्तः ।
09:44 स्वभ्यासार्थम्,
09:46 Arrays.equals मेथड् विषयं पठित्वा तस्य क्रियाः ज्ञास्यथ ।
09:53 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
09:55 कृपया अधो विद्यमानं विडीयो पश्यन्तु।
[1]  
10:02 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
10:05 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:09 spoken tutorial team
10:10 पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
10:16 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:22 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:31 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:39 ट्युटोरियल् इदं TalentSprint द्वारा प्रकाशितमस्ति ।
10:43 धन्यवादाः । अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal