Introduction-to-Computers/C2/Compose-Options-for-Email/Sanskrit

From Script | Spoken-Tutorial
Revision as of 21:55, 28 October 2017 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Compose Options for Emails इति पाठार्थं भवद्भ्यः स्वागतम् ।
00:07 पाठेऽस्मिन् वयम् -
00:10 * येभ्यः सन्देशं प्रेषयामः अर्थात्, - 'To, Cc, Bcc' एतेषां विषयम्,
00:16 * सन्देशलेखस्य आरचना,
00:19 * सन्देशाय सञ्चिकायाः संयोजनम्,
00:22 * 'Google Drive' द्वारा सञ्चिकायाः वितरणम् (share)
00:25 * सन्देशे चित्रस्य शृङ्खलायाः (links) वा योजनम् अपि च
00:29 * 'Compose' इत्यस्य विकल्पानां विषयं च ज्ञास्यामः।
00:33 पाठेऽस्मिन् भागं गृहीतुम् अन्तर्जालसम्पर्कः अपि च
00:38 जालान्वेषकस्य (web browser) अपेक्षा अस्ति।
00:40 अहमत्र ‘Firefox’ इति जालान्वेषकस्य उपयोगं करोमि ।
00:45 अधुना वयम् आरभामहे।
00:46 भवतां जालान्वेषकम् उद्घाट्य तत्र एवं टङ्कयन्तु - 'http://gmail.com'
00:55 एतेन 'Login' पृष्टम् उद्घट्यते।
00:58 उपयोक्तृनाम कूटशब्दं च तत्तत्स्थाने टङ्कयन्तु।
01:04 यदि प्रवेशपृष्टम् (login page) उपयोक्तृनाम्ना सह उद्घट्यते तर्हि भवन्तः एतावता एव यन्त्रेऽस्मिन् अकौंट् उद्घाटितवन्तः इत्यर्थः।
01:12 कूटशब्दं टङ्कयन्तु।
01:15 तथा च 'Sign in' इति पिञ्जं नुदन्तु।
01:18 वयम् अस्माकं Gmail पृष्टे स्मः
01:21 अधुना, सन्देशलेखनाय विद्यमानान् विकल्पान् पश्यामः।
01:26 प्रथमतया, वयं 'Compose' पिञ्जस्योपरि नुदामः।
01:31 'Compose' इति गवाक्षः उद्घट्यते।
01:34 'To' इत्यत्र, वयं प्राप्तारम् (recipients) उल्लिखामः।
01:38 अत्र ‘To, Cc’ अपि च ‘Bcc’ इति विकल्पत्रयं वर्तते।
01:44 'Cc', 'Carbon Copy' इतीदं द्योतयति अपि च 'Bcc', 'Blind Carbon Copy' इतीदं सूचयति।
01:51 यस्मै वयं सन्देशं प्रेषयामः तस्य एमैल-सङ्केतं 'To' इत्यत्र योजनीयम्।
01:58 अत्र किञ्चन स्क्रीन-शाट् अस्ति।
02:01 यदि अनेकेभ्यः सन्देशः प्रेषणीयः तर्हि 'To' इत्यत्र सर्वेषां ईमैल सङ्केतं योजयन्तु।
02:09 अत्र किञ्चन स्क्रीन-शाट अस्ति।
02:12 सन्देशस्य प्रतिम् अन्येभ्यः ज्ञापयितुं 'Cc' इति विकल्पं चिन्वन्तु।
02:18 'To' अपि च 'Cc' स्थाने उल्लिखिताः सन्देशप्राप्तारः, इतरान् अपि सन्देशप्राप्तॄन् दृष्टुं शक्नुवन्ति।
02:25 अत्र किञ्चन स्क्रीन शाट अस्ति।
02:28 सन्देशस्य गुप्तप्रतिं (Blind carbon copy) अन्येभ्यः प्रेषयितुं वयं 'Bcc' इति विकल्पं चिनुमः।
02:34 अस्मिन् विकल्पे, 'To' अपि च 'Cc' मध्ये विद्यमानाः सन्देशप्राप्ताराः 'Bcc' मध्ये विद्यमानान् सन्देशप्राप्तॄन् दृष्टुं न शक्नुवन्ति।
02:42 'Bcc' मध्ये विद्यमानाः प्राप्तारः 'To' अपि च 'Cc' मध्ये विद्यमानान् प्राप्तॄन् दृष्टुं शक्नुवन्ति।
02:47 परम् अन्यान् गुप्तप्रतिप्राप्तॄन् न।
02:51 सन्देशं ये प्रेषयन्ति ते प्राप्तॄणां सम्पूर्णसूचीं दृष्टुं शक्नुवन्ति।
02:55 अत्र किञ्चन स्क्रीन शाट अस्ति।
02:58 प्रमुखसूचना -
03:00 'To, Cc' अपि च 'Bcc' इत्येतेषु स्थानेषु वयं कियन्तः अपि ईमैलसङ्केतान् योजयितुं शक्नुमः।
03:08 परम् अत्यधिकं नाम प्रतिदिनं ५०० जनेभ्यः प्रेषयितुं शक्नुमः।
03:13 प्रत्येकमपि ईमैल सङ्केतम् अल्पविरामेन कोलन द्वारा वा विभाजनीयम्।
03:20 अधुना वयं ‘Gmail Compose’ इति गवाक्षं गच्छामः।
03:25 उत्सर्गतया कर्सर, 'To' इति स्थाने अस्ति।
03:29 सन्देशाप्राप्तॄणां सङ्केतान् वयम् एवम् उल्लिखामः -
03:33 'To' इत्यत्र, ईमैलसङ्केतं ray.becky.0808@gmail.com इति,
03:46 'Cc' इत्यत्र, 0808iambecky@gmail.com इति अपि च
03:55 'Bcc' इत्यत्र, stlibreoffice@gmail.com अपि च info@spoken-tutorial.org इति उल्लिखामः।
04:10 'Subject' इत्यत्र नुत्त्वा भवतां सन्देशस्य लघुविवरणं लिखन्तु।
04:15 अहम् एवं टङ्कयामि - “Partner with us”.
04:19 विषयप्रदेशे वयं सन्देशं टङ्कयामः -
04:24 “Spoken Tutorial Project is helping to bridge the digital divide”.
04:29 जीमैल, अस्माकं, सन्देशे लेखाय मूलभूतशैलीम् आरचयितुम् अनुमतिं ददाति।
04:35 उत्सर्गतया ते विकल्पाः 'Compose' गवाक्षस्य अधः दर्शिताः सन्ति।
04:41 नो चेत्, शैलीविकल्पान् उपयोक्तुं 'Formatting options' इति पिञ्जं नुदन्तु।
04:47 अत्र अस्माभिः, 'Font, Size, Bold, Italic, Underline, Text color, Align, Numbered' and 'Bulleted lists' अपि च 'Indentation' इत्येतादृशाः विकल्पाः प्राप्यन्ते ।
05:03 एते विकल्पाः, यथा अन्येषु वर्ड प्रोसेसर अप्प्लिकेशन इत्येतेषु सन्ति, तद्वदेव सन्ति।
05:08 भवन्तः भवदिच्छानुसारम् एतान् विकल्पान् अभ्यसन्तु।
05:12 अहं मम लेखम् एवं संरचितवानस्मि।
05:16 फार्मेटिंग टूल बार इतीदं गोपयितुं 'Formatting options' पिञ्जस्योपरि नुदन्तु।
05:22 'Compose' इति गवाक्षे, सञ्चिकाः, चित्राणि, शृङ्खलाः अपि च इमोटिकान् इतीमानि योजयितुं विकल्पाः सन्ति।
05:32 सञ्चिकाः अथवा सन्धारिकाः अन्यैः सह संविभक्तुं (share),
05:35 'Attach files' अथवा ‘Insert files using Drive’ एतीमौ विकल्पौ वयम् उपयोक्तुं शक्नुमः।
05:41 सर्वेऽपि सन्देशप्रेषयितारः संलग्नविधया (attachment) सञ्चिकाः प्रेषयितुम् अनुमताः सन्ति।
05:46 वयं 25 मेगाबैट परिमितायाः सञ्चिकाः एकवारं योजयितुं शक्नुमः।
05:51 अधिकाकारिकां सञ्चिकां प्रेषयितुं 'Insert files using Drive' इति विकल्पम् उपयोक्तुं शक्नुवन्ति।
05:59 प्रथमतः, वयं 1MB इत्यस्मात् अपि न्यूनपरिमितां किञ्चन 'pdf' सञ्चिकां संयोजयामः ।
06:04 पेपर क्लिप इव दृश्यमानं 'Attach file' इति चित्रकं नुदन्तु।
06:09 इदं File Browser इति गवाक्षम् उद्घाटयति।
06:12 भवन्तः मैल द्वारा प्रेषयितुम् इष्यमाणां सञ्चिकाम् अन्विष्य चिन्वन्तु।
06:16 डेस्क्टाप-तः अहं "myscript.pdf" इति चित्वा 'Open' इत्यस्योपरि नुदामि।
06:23 अस्माकं सञ्चिका मैल मध्ये संलग्ना अस्ति इति पश्यन्तु।
06:27 अस्मिन् एव मैल मध्ये, 'Attach files' इति विकल्पमुपयुज्य अनेकाः सञ्चिकाः योजयितुं शक्याः।
06:34 मैल मध्ये योजितां कांश्चित् सञ्चिकां निष्कासयितुं सञ्चिकायाः दक्षिणकोणे विद्यमानं 'x' इति चिह्नं नुदन्तु।
06:41 अधुना 30Mb परिमितायाः सञ्चिकां योजयामः।
06:46 मयि डेस्क्टाप् मध्ये किञ्चन जिप्-सञ्चिका अस्ति, यस्याः च परिमितिः प्रायः 30Mb अस्ति।
06:52 'Attach files' इति चित्रकं पुनः नुदन्तु।
06:56 30Mb परिमितां जिप्-सञ्चिकां अन्विष्य चित्वा 'Open' इत्यत्र नुदन्तु।
07:02 तदा वयं किञ्चन पाप-अप सन्देशं प्राप्नुमः -
07:04 “The file you are trying to send exceeds the 25mb attachment limit”
07:09 अपि च इदं ‘Send using Google drive’ इति विकल्पम् अपि अस्मभ्यं ददाति।
07:14 'Send using google drive' इति पिञ्जं नुदन्तु।
07:18 अहम् अधुना एतत् पिदधामि।
07:21 'Insert files using Drive' इति विकल्पः अपि अस्मान् पूर्ववत् तं गवाक्षं नयति।
07:28 अत्र वयं,
07:31 ‘My Drive, Shared with me’ अपि च ‘Upload’ इति त्रीणि ट्याब्स पश्यामः।
07:36 उत्सर्गतया, एतावता एव आरोपिताः (Upload) सञ्चिकाः 'My Drive' इत्यस्याधः लभ्यन्ते।
07:43 अत्र भवन्तः सञ्चिकाम् अपि दृष्टुं शक्नुवन्ति।
07:46 अकौंट् संरचनाकाले Google Team (गूगल टीम) द्वारा संविभक्तं (share) वर्तते।
07:51 वयं ‘Shared with me’' इति ट्याब उपरि नुदाम ।
07:55 अत्र वयं, "No one's shared any files with you yet!" इति सन्देशं पश्यामः।
08:00 भवद्भिः सह यदि कश्चन सञ्चिका संविभक्ता अस्ति तर्हि (share) सा ‘Shared with Me’ इति ट्याब इत्यस्याधः उपलभ्यते।
08:06 अधुना काचित् नूतनां सञ्चिकाम् आरोपयितुं ‘Upload’ इति ट्याब उपरि नुदन्तु।
08:12 ‘Select files from your computer’ इति पिञ्चस्योपरि नुदन्तु।
08:16 भवतां यन्त्रद्वारा आरोपयितुम् इष्टां सञ्चिकाम् अन्विष्य चित्वा च ‘Open’ इति नुदन्तु।
08:23 यदि भवन्तः इतोऽप्यधिकां सञ्चिकां योजयितुमिच्छन्ति तर्हि ‘Add more files’ इति पिञ्जं नुदन्तु।
08:27 अहम् अधुना एतत् विहाय एकामेव सञ्चिकाम् आरोप्य अग्रे सरामि।
08:33 सञ्चिकायोजनानन्तरम्, अस्माकं मैल मध्ये तस्य उद्घाटनं कथम् इति ज्ञास्यामः।
08:40 अधः दक्षिणकोणे,
08:44 'Insert as Drive link' अपि च
08:46 'Attachment' इति पिञ्जद्वयं वर्तते।
08:48 उत्सर्गतया, ‘Insert as Drive link’ इति चितं वर्तते.
08:52 वयं ‘Attachment’ इतीदं यदि चिनुमः तर्हि सञ्चिकां काँश्चन संलग्निकाम् (attachment) इव योजयितुं शक्नुमः।
08:57 तत् तथैव स्थापयामः ।
09:00 पटलस्य अधः वामभागस्थं ‘Upload’ इति पिञ्जं नुदन्तु।
09:05 तदा सञ्चिका आरोपयितुम् आरभ्यते। परम् इदं भवताम् अन्तर्जालसम्पर्कस्य वेगानुसारं किञ्चित् समयं स्वीकरोति ।
09:11 एकवारं यदा पूर्णं जायते तदा, अस्माभिः आरोपितसञ्चिका लिंक इव परिवर्तितमिति वयं दृष्टुं शक्नुमः।
09:17 अधुना वयं ई-मैल मध्ये चित्राणि योजयितुं ‘Insert Photo’ इति विकल्पस्योपरि नुदामः।
09:24 'Upload Photos' इति पेटिका उद्घटते।
09:27 वयम् अस्माकं सङ्गणकयन्त्रतः अथवा चित्रस्य जालसङ्केतात् (web address) वा चित्राणि आरोपयितुं शक्नुमः।
09:34 सद्यः अहं न किमपि चित्रं आरोपयामि।
09:38 अतः अहं 'Cancel' पिञ्जं नुदामि।
09:41 इमं विकल्पं भवन्तः भवदिच्छानुसारम् अभ्यस्तुं शक्नुवन्ति।
09:44 अग्रिमविकल्पः, 'Insert Link' इति अस्ति। तस्योपरि वयं नुदामः।
09:49 'Edit Link' इति संवादपेटिका उद्घटते।
09:53 'Text to display' इति स्थाने लिंककर्तुम् आवश्यकं लेखम् उल्लिखन्तु।
09:58 अहं 'Spoken Tutorial' इति टङ्कयामि।
10:02 'Link to' इत्यत्र, उत्सर्गतया, 'Web address' इति चितं वर्तते।
10:08 लेखस्थाने (Text Field) url इतीदं 'http://spoken-tutorial.org' इति टङ्कयित्वा
10:20 'OK' पिञ्जस्योपरि नुदन्तु।
10:23 अधुना, कंटेंट स्थानके भवन्तः 'Spoken Tutorial' इति लेखं दृष्टुं शक्नुवन्ति यश्च हैपरलिंक जातम् अस्ति।
10:29 अहं हैपरलिंक-कृतस्य लेखस्य उपरि नुदामि।
10:32 लेखस्याधः किञ्चन लघु पाप-अप-गवाक्षः उद्घटते।
10:35 अयं 'Go to link:' इति वदति।
10:38 अत्र दर्शितस्य URL इत्यस्य उपरि यदि नुदन्ति तर्हि भवन्तः Spoken Tutorial इत्यस्य जालपुटस्य 'Homepage' पश्यन्ति।
10:45 URL इत्यस्य परिवर्तनार्थं अथवा निष्कासनार्थं वयं क्रमशः 'Change' अथवा 'Remove' विकल्पानामुपरि नुदामः।
10:53 एतेषां इमोटिकान इत्येतेषां साहाय्येन वयं विविधानि चित्रसहितानि निरूपणानि योजयितुं शक्नुमः।
10:59 वैशिष्ट्यस्यास्य उपयोगःयदा ईमैल् सम्पर्के अस्ति तदा उपयुज्यताम्।
11:04 'Trash' चित्रकस्य पूर्वं विद्यमानं “Saved” इति लेखं पश्यन्तु।
11:08 वयं यदा विषयान् योजयामः अथवा निष्कासयामः तदा अस्माकम् ईमैल उत्सर्गतया 'Drafts' सन्धारिकायां रक्षितं भवति।
11:16 विद्युतः अन्तर्जालसम्पर्कस्य वा निष्क्रमणे सति कालान्तरे टङ्कितं सन्देशं पुनः प्राप्तुं एतत् साहाय्यकं भवति।
11:24 यदि वयं सन्देशमिमं त्यक्तुमिच्छामः तर्हि 'Trash' चित्रकस्योपरि नुदन्तु।
11:28 इयं क्रिया सन्देशं 'Drafts' सन्धारिकायाः अपि निष्कासयति।
11:34 'Trash' चित्रकस्य पार्श्वे विद्यमानं 'More options' इति पिञ्जं नुदन्तु।
11:39 'Default to full-screen' इति विकल्पः 'Compose' पेटिकां बृहत्करोति।
11:44 'Label' – वैशिष्ट्यस्य विषये अग्रिमेषु पाठेषु ज्ञास्यामः।
11:49 'Plain text mode' विकल्पः, लेखाय अस्माभिः दत्ताः सर्वाः अपि शैल्यः परिमार्ज्य सरलां शैलीं ददाति।
11:57 'Print' विकल्पः, आरचितसन्देशम् उत्सर्गतया व्यवस्थापितस्य मुद्रकस्य कृते प्रेषयति।
12:03 'Check Spelling', टङ्कितस्य लेखस्य अक्षरदोषान् परिशीलयति।
12:07 अस्माकं सन्देशं प्रेषयितुं सिद्धाः स्मः।
12:09 'Send' पिञ्जं नुदन्तु।
12:12 वयं पटले अधः दर्शितं सब्देशं पश्यामः -
12:15 “This Drive file isn't shared with all recipients”.
12:19 यतो हि, ईमैल मध्ये उल्लिखितैः जनैः सह वयं सञ्चिकासंविभागं न कृतवन्तः।
12:25 'Share & Send' पिञ्जं नुदन्तु।
12:29 पटले अनयोः अन्यतरं सन्देशं भवन्तः पश्यन्ति -
12:32 "sending"
12:34 अथवा "Your message has been sent".
12:38 प्रेषितं सन्देशं दृष्टुं, 'View Message' इत्यत्र नुदन्तु।
12:43 वयम् अत्र प्रेषितस्य ईमैल इत्यस्य विषयं दृष्टु शक्नुमः।
12:47 वयं एकैकशः परिशीलयामः।
12:50 अत्र संलग्नाः (attachments) सन्ति, अपि च
12:52 अत्र 'URL link' अस्ति।
12:55 मैल सङ्केतस्य अधः, अत्र शीर्षकस्य विवरणं दर्शयत् किञ्चन त्रिकोनं वर्तते।
13:00 अहं तस्योपरि नुदामि
13:03 सर्वेषां सन्देशप्राप्तॄणां ईमैलसङ्केताः, 'To, Cc' अपि च 'Bcc' स्थानेषु दृश्यन्ते।
13:11 सन्देशप्राप्तृभ्यः एतत् कथं दृश्यते इति पश्यामः।
13:16 एषः 'Cc' मध्ये उल्लिखितस्य सेन्देशप्राप्तुः ईमैलसङ्केतः अस्ति।
13:21 अधुना प्रेषितं सन्देशं भवन्तः दृष्टुं शक्नुवन्ति। पठितुम् अहम् उद्घाटयामि।
13:27 'Show Details' इत्यस्योपरि नुदन्तु।
13:29 तत् 'To' अपि च 'Cc' मध्यस्थान् प्राप्तॄन् दर्शयति, परं 'Bcc' मध्यस्थान् नैव।
13:35 अयं, 'Bcc' मध्ये उल्लिखितेषु प्राप्तृषु अन्यतमस्य ईमैलसङ्केतः अस्ति।
13:41 भवन्तः अधुना प्रेषितं सन्देशं दृष्टुं शक्नुवन्ति।
13:43 पठितुम् अहम् उद्घाटयामि।
13:46 'Show Details' इत्यस्योपरि नुदन्तु।
13:49 'To, Cc' अपि च 'Bcc' प्राप्तॄणां विवरणानि भवन्तः दॄष्टुं शक्नुवन्ति।
13:55 अहं प्रेषयितुः (sender) जीमैल अकौंट प्रति गच्छामि।
13:59 अत्र पश्यन्तु, 'Bcc' मध्ये वयं द्वौ प्राप्तारौ उल्लिखितवन्तः स्मः।
14:04 परम् अत्र वयम् एकमेव दृष्टुं शक्नुमः, अन्यत् न दृष्यते।
14:10 'Bcc' इति वैशिष्ट्यम् एवं कार्य करोति।
14:13 व्यत्यासाः ज्ञायमानाः सन्ति इति अहं भावयामि।
14:17 एतेन वयम् अस्य पाठस्यान्तम् आगतवन्तः स्मः।
14:20 सङ्क्षेपेण,
14:22 पाठेऽस्मिन् वयं -
14:25 * येभ्यः सन्देशं प्रेषयामः अर्थात्, - 'To, Cc, Bcc' एतेषां विषयं,
14:30 * सन्देशलेखस्य आरचना,
14:33 * सन्देशाय सञ्चिकायाः संयोजनम्,
14:36 * 'Google Drive' द्वारा सञ्चिकायाः वितरणम् (share)
14:39 * सन्देशे चित्रस्य शृङ्खलायाः (links) वा योजनम् अपि च
14:43 * 'Compose' इत्यस्य विकल्पानां विषयं च ज्ञातवन्तः।
14:47 अधो निर्दिष्टे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल प्रकल्पस्य सारांशं वदति।
14:52 एतत् अवचित्य पश्यतु।
14:55 स्पोकन्-ट्युटोरियल् पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति।
15:01 अधिकविवरणार्थम् अस्मान् सम्पृच्यताम्।
15:04 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।

इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।

15:11 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु -

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

15:16 लेखोऽयं Spoken Tutorial Team, IIT Bombay इत्येतेषां अनुदानम् अस्ति।
15:21 पाठस्यास्य अनुवादकः प्रवाचकश्च नवीनभट्टः उप्पिनपत्तनम् । धन्यवादः।

Contributors and Content Editors

NaveenBhat