Inkscape/C3/Create-patterns-in-Inkscape/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:08, 26 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Inkscape मध्ये Create patterns विषयस्य पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयम्,

Cloning Pattern along path Spray tool तथा Path effect editor इमान्युपयुज्य नाना पेटर्न्स् रचयितुं ज्ञास्यामः ।

00:17 पाठार्थमहम्

Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्, Inkscape वर्शन् 0.48.4 च उपयुनज्मि ।

00:27 Inkscape उद्घटन्ताम् ।
00:29 Star उपरि नुत्वा canvasउपरि नक्षत्रमेकं रचयन्तु ।
00:33 Selector tool उपरि नुदन्तु ।
00:36 Tool controls bar मध्ये Width तथा Height इतीमे 40 कुर्वन्तु ।
00:42 ज़ूम् कृत्वा नक्षत्रम् एकवारं नुदन्तु ।
00:46 pivot point दृश्यते । इदं नक्षत्रस्य केन्द्रे विद्यमानं plus चिह्नमस्ति ।
00:53 यथात्र दर्शितं तथा pivot point नुत्वा , तत् नक्षत्रात् दूरं नयन्तु ।
00:59 अधुना Edit मेन्यु गत्वा Clone उपरि नुत्वा पश्चात् Create Tiled clones उपरि नुदन्तु ।
01:06 एकं डैलाग् बोक्स् उद्घट्यन्ते । अन्त्र भवन्तः बहूनि टेब्स् तथा टेब्स् मध्ये बहून् विकल्पान् च पश्यन्ति ।
01:15 Symmetry टेब् मध्ये नाना मेथड्स्-युतानि ड्रोप्-डौन् मेन्युस् सन्ति । अस्मिन् 'demo' मध्ये simple translation विकल्पं चिनवाम।
01:25 रो तथा कोलम्स् पेरामीटर्स् यथाक्रमं 1 तथा 40 कुर्वन्तु ।.
01:32 पश्चात् Shift टेब् गत्वा , Shift X इत्यस्य Per column इत्यस्याधः मूल्यं -100 कुर्वन्तु ।
01:41 पश्चात् Rotation टेब् गत्वा , Per column इत्यस्याधः Angle इतीदं 10 कुर्वन्तु ।
01:48 अधुना Create गण्डं नुत्वा , नक्षत्रे वृत्तस्य विन्यासमवलोकताम् ।
01:55 एवमेव , Create Tiled clones विकल्पं मनोहरविन्यासार्थं उपयोक्तुं शक्नुमः ।
02:01 इदं नक्षत्रस्य वृत्तं पार्श्वं कर्षन्तु ।
02:04 अधुना अनुपथं विन्यासस्य रचनां जानाम ।
02:09 Rectangle टूल् उपयुज्य rounded rectangle चित्रयित्वा ,हरिद्वर्णं पूरयित्वा Selector tool चिन्वन्तु ।
02:20 Tool controls bar मध्ये Width इतीदं 540 इति तथा Height इतीदं 250 इति च परिवर्तताम् ।
02:28 पश्चात् Star tool चित्वा नक्षत्रं चित्रयन्तु ।
02:32 Selector tool उपरि नुत्वा, Tool controls bar मध्ये Width तथा Height इतीमे 50 कुर्वन्तु ।
02:40 इदं आयतस्योपरि वामाश्रौ स्थापयन्तु ।
02:45 द्वेऽपि आकृती चित्वा , Extensions मेन्यु गच्छन्तु ।
02:48 Generate from path उपरि नुत्वा Pattern along Path उपरि नुदन्तु ।
02:55 Copies of the patterns विकल्पं Repeated इत्यस्मै परिवर्त्य Deformation type विकल्पं Ribbon इति परिवर्तताम् ।
03:03 Apply गण्डस्योपरि नुत्वा Close गण्डं नुदन्तु ।आयतस्य परितः मनोहरविन्यासं अवलोकताम् ।
03:11 वयमधुना Path effects विकल्पमुपयुज्य अन्यद्विन्यासं रचयाम ।
03:16 Bezier tool उपयुज्य वीचिसदृशपथं चित्रयन्तु ।
03:20 Path मेन्यु गत्वा Path Effects Editor उपरि नुदन्तु । एकं डैलाग्-बोक्स् उद्घट्यते ।
03:27 Apply new effect ड्रोप्-डौन्-मेन्यु इतीदं नुदन्तु । अत्र नाना एफ़ेक्ट्स् दृश्यन्ते ।
03:33 Gears उपरि नुत्वा पश्चात् Add उपति नुदन्तु । आकृतौ परिवर्तनानि पश्यन्तु ।
03:41 पश्चात् Sketch इतीदं चित्वा Add गण्डं नुदन्तु । परिणामं पश्यन्तु ।
03:48 अत्र Path Effect Editor मध्ये, अस्य सम्बद्धानि नाना पेरामीटर्स् सन्ति ।
03:54 तत्र एकं परिवर्तताम् । उदाहरणार्थं Strokes इतीदं 10 इति परिवर्त्य Enter नुदन्तु । ओब्जेक्ट्-मध्ये परिवर्तनानि अवलोकताम् ।
04:03 अधुना Path Effect Editor डैलाग् बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
04:08 सर्वाः आकृतीः चित्वा एकत्र कुर्वन्तु ।
04:12 पश्चात् Spray tool उपयुज्य एकं वृक्षविन्यासं रचयाम ।
04:18 Bezier tool इतीदमुपयुज्य अत्र यथा दर्शितं तथा वृक्षं चित्रयित्वा पिङ्गलवर्णं ददातु । पर्णमेकं रचयित्वा तस्मै हरिद्वर्णं च ददातु ।
04:38 Spray tool उपयुज्य पर्णस्योपरि नुदन्तु ।
04:43 अधुना mouse नुत्वैव , परितः कर्षित्वा वृक्षं चित्रयन्तु ।
04:51 वृक्षस्य चित्रणं सिद्धमस्ति ।
04:55 ट्युटोरियल् अत्र समाप्यते । सारं पश्याम ।
04:58 पाठेऽस्मिन् वयम्,

Cloning Pattern along path Spray tool तथा Path effect editor इतीमानि उपयुज्य नाना पेटर्न्स् रचयितुं ज्ञातवन्तः ।

05:08 स्वाभ्यासार्थं वृत्ताकारस्य वर्णमयविन्यासं रचयन्तु ।
05:12 समाप्त्यनन्तरं पाठनियोजनम् एवं दृश्यताम् ।
05:16 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
05:23 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
05:32 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते । अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
05:41 वयं पाठस्यान्तमागतवन्तः । अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat