Inkscape/C3/Create-a-3-fold-brochure/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:41, 21 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Inkscape मध्ये “Create a 3-fold brochure” इति विषयस्य पाठार्थं स्वागतम् ।
00:05 अस्मिन् पाठे वयम्,
00.08 guidelines इत्यस्योपयोगः तथा तेषां सेट्टिङ्ग्स्,
00:10 3-fold brochure इत्यस्य सेट्टिङ्ग्स्,
00:12 3-fold brochure इत्यस्य विन्यासञ्च ज्ञास्यामः ।
00:15 layer इत्येतेषाम् उपयुक्तताः च ज्ञास्यामः ।
00:18 पाठार्थमहम् ,
00:21 Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्,
00:24 Inkscape वर्शन् 0.48.4इतीमे उपयुनज्मि ।
00:28 इदमेकप्रकारकस्य 3 fold brochureवर्तते । उद्घाटनादनन्तरं त्रीन् सम्पुटान् पश्यामः ।
00:34 आहत्य षट् विभागाः सन्ति ।
00:37 1, 5 तथा 6 इमे बहिर्विभागाः ।
00:42 ब्रौशर् इत्यस्य अन्तर्विभागास्तु 2, 3 तथा 4 च सन्ति ।
00:46 एतादृशं brochure कथं रचनीयमिति जानाम ।
00:51 Inkscape इतीदमुद्घटामहै ।
00:53 File उपरि नुत्वा Document Properties प्रति गच्छन्तु ।
00:56 आदौ कानिचन सेट्टिङ्ग्स् कुर्मः ।
00:59 अर्थात्, Default units इतीदं mm इत्यस्मै,
01.03 Page Size इतीदं A4 इत्यस्मै ,
01.05 Orientation इतीदं Landscape इत्यस्मै,
01.07 Custom Size Units इतीदं mmइत्यस्मै च परिवर्तताम् ।
01.11 अस्माभिः केन्वास् त्रिषु सम्पुटेषु विभाजनीयम् ।
01.14 केन्वास् इत्यस्य विस्तारः 297 वर्तते ।
01.18 वयमतः 297 इतीदं त्रिषु विभागेषु, अर्थात् प्रत्येकं 99 मूल्याय सेट् कुर्मः ।
01.27 अधुना Document Properties डैलाग् बोक्स् इत्यस्य पिधानं करोतु ।
01.30 केन्वास् उपरि guideline नुत्वा वामतः कर्षन्तु ।
01.35 अस्मिन् guideline उपरि द्विवारं नुदन्तु ।
01.37 एकं डैलाग् बोक्स् उद्घट्यते ।.
01.41 'X' इत्यस्य मूल्यं 99 इत्यस्मै परिवर्त्य OK उपरि नुदन्तु ।
01.45 केन्वास् उपरि अन्यद् गैड्-लैन् नुत्वा वामतः कर्षन्तु ।
01.50 डैलाग् बोक्स् उद्घाटितुं तदुपरि द्विवारं नुदन्तु।
01.53 अत्र 'X' इत्यस्य मूल्यं 198 इत्यस्मै परिवर्तताम् ।
01.56 अधुनास्माकं केन्वास् त्रिधा विभक्तम् ।
02.01 इमानि गैड्-लैन्स् सम्पुटस्य अदिम् अन्त्यञ्च दर्शयति ।
02.06 इमां सञ्चिकां द्विवारं रक्षाम ।
02.08 एकं ब्रौशर् इत्यस्य अन्तर्विभागः,
02.11 अन्यत्तु बहिर्विभागः ।
02.13 File गत्वा Save as नुदन्तु ।
02.16 अहं सञ्चिकां Desktop मध्ये Brochure-OUT.svg नाम्ना रक्षामि ।
02.22 पुनः File गत्वा Save as नुदन्तु ।
02.26 अधुना Brochure-IN.svg इति नाम दत्वा Save नुदन्तु ।
02.33 अतः एव वयं ब्रौशर् इत्यस्य अन्तर्भागार्थमेकां बहिर्भागर्थमेकां सञ्चिकां प्राप्तवन्तः स्मः ।
02.39 Brochure-IN.svg इत्यस्मात् प्रारभामहै ।
02.43 ब्रौसर्-विन्यासाय अन्यदन्यद् elements इत्येतेभ्यः अन्यदन्यदेव layer आवश्यकं भवति ।
02.50 अस्योपयोगम् अन्ते ज्ञास्यामः ।
02.54 अधुना ब्रौशर् इत्यस्य आभ्यन्तरं रचयाम । अर्थात् 2, 3 तथा 4 ।
03.00 Bezier tool उपयुज्य केन्वास् मध्ये एकं चित्रं रचयन्तु । तस्मै नीलवर्णं ददातु ।
03.09 strokeइतीदं निष्कासयन्तु ।
03.14 नूतनं layer रचयित्वा यथेषटं नाम ददातु ।
03.19 150X150 pixels युतमेकं वृत्तं रचयन्तु ।
03.26 अस्मै हरिद्वर्णं ददातु ।
03.28 तद्वृत्तं कोपि कृत्वा अन्यदन्यद् परिमाणयुतानि पञ्च वृत्तानि रचयन्तु ।
03.36 अत्र यथा दर्शितं तथा चित्रणस्य परितः स्थापयन्तु ।
03.40 वृत्तस्यास्य अन्तः वयं कानिचन image स्थापयामः ।
03.44 अहन्तु चित्राणि वृत्ताकारे एडिट् कृत्वा, Documents सञ्चये रक्षितवानस्मि ।
03.50 युष्माकम् आनुकूल्यार्थं इमेजस् इतीमानि Code files लिङ्क् मध्ये दत्तवानस्मि ।
03.56 पाठाय विरामं दत्वा लिङ्क् नुत्वा यत्रापेक्षितं तत्र इमेजस् रक्षन्तु ।
04.02 पश्चात् पाठं पुनारभताम् ।
04.04 File गत्वा Import उपरि नुत्वा Image1 उपरि नुदन्तु ।
04.09 इदं प्रथमवृत्तस्य उपरि स्थापयन्तु ।
04.12 एवमेव शेषेभ्यः पञ्चभ्यः इमेजस् इत्येतेभ्यः पुनरावर्तताम् ।
04.17 Align and Distribute विकल्पमुपयुज्य तानि अलैन् कुर्वन्तु ।
04.20 अधुना युष्माकं केन्वास् एवं दृश्येत् ।
04.25 पश्चात् अन्यत् layer रचयन्तु ।
04.28 Bezier tool उपयुज्य एकं बाणं चित्रयन्तु ।
04.34 तस्मै धूम्रवर्णं ददातु ।
04.38 stroke इतीदं निष्कासयन्तु ।
04.41 Filters मेन्यु गत्वा Shadows and Glows चित्वा Drop Shadow उपरि नुदन्तु ।
04.47 Preview बोक्स् उपरि चेक् कृत्वा परिणामान् पश्यन्तु ।
04.50 Apply नुत्वा डैलाग् बोक्स् इतीदं पिधानं करोतु ।
04.55 इदमत्र यथा दर्शितं तथा पूर्वतन वृत्तस्योपरि स्थापयन्तु ।
05.01 इमं बाणं कोपि कृत्वा अन्यौ द्वौ बाणौ चित्रयन्तु ।
05.05 तौ द्वितीयस्य तृतीयस्य च वृत्तस्योपरि स्थापयन्तु ।
05.10 इमानि चित्राणि सम्पूर्णानि ।
05.13 अस्माभिरधुना पाठ्यः योजनीयः ।
05.15 नूतन-लेयर्-मध्ये प्रथमबाणस्योपरि “Introduction” इति टङ्कयन्तु ।
05.20 द्वितीयस्योपरि “Features” इति अपि च ,
05.24 तृतीयस्योपरि “Usage” इति टङ्कयन्तु ।
05.28 अधुना प्रत्येकेषु विभागेषु पाठ्यं योजनीयम् ।
05.33 अहन्तु LibreOffice Writer मध्ये पूर्वरक्षितं पाठ्यं copy कृत्वात्र paste करोमि ।
05.40 भवता रक्षिते सञ्चये इयं सञ्चिका अस्ति ।
05.43 कृपया तस्मात् पाठ्यं कोपि कुर्वन्तु ।
05.47 पश्चात् नूतन लेयर् मध्ये paste कुर्वन्तु ।
05.50 फोण्ट् सैज़् 15 कृत्वा Text and Font विकल्पमुपयुज्य अलैन् कुर्वन्तु ।
05.55 ellipse टूल् उपयुज्य हरिद्वर्णस्य bullet रचयन्तु ।
05.59 तत् प्रथमवाक्यस्य दक्षिणपार्श्वे स्थापयन्तु ।
06.02 सर्वेभ्यः वाक्येभ्यः पुनरावर्तताम् ।
06.05 अधुना brochure इत्यस्य अन्तर्विभागः सिद्धः अस्ति ।
06.08 SVG सञ्चिकां रक्षितुं CTRL S नुदन्तु ।
06.12 अधुना ब्रौशर् मध्ये आवश्यकं लेयर् दृश्यमदृश्यञ्च कर्तुमर्हति ।
06.18 अधुना इमामेव सञ्चिकां PDF मध्ये सेव् कुर्मः ।
06.21 File गत्वा Save As उपरि नुदन्तु ।
06.24 फैल्-एक्स्टेन्शन् PDF कुर्वन्तु ।
06.29 Save उपरि नुदन्तु ।
06.31 नूतनं dialog box दृश्यते ।
06.34 मुद्रापयितुं रेसोल्युशन् 300 स्यात् ।
06.37 अन्तर्जालार्थं 72 अलम् ।
06.40 अहमिदं 300 एव स्थापयामि ।
06.42 अधुना OK नुदन्तु ।
06.44 अधुना बाणानाम् opacity परिवर्तामहै ।
06.47 Arrow लेयर् गत्वा , लेयर् इत्यस्य ओपेसिटि 70 कुर्वन्तु ।
06.52 अहं ink-blot इत्येतेभिः सह नूतनं layer संयोजयामि ।
06.58 सञ्चिकां SVG तथा PDF फोर्मेट् मध्ये च रक्षन्तु ।
07.04 भेदान् ज्ञातुं द्वयोः 'pdf' सञ्चिकयोः तुलनां कुर्वन्तु ।
07.08 अधुना ब्रौशर् इत्यस्य बहिर्विभागं रचयाम ।
07.12 File गत्वा Open नुदन्तु ।
07.14 Brochure-OUT.svg. इतीदं चिन्वन्तु ।
07.18 वयमधुना 1, 4 तथा 5 विभागं रचयाम ।
07.22 स्मर्यतां यत्, अन्यदन्यद् element प्रति layer रचनां कुर्वन्तः स्मः ।
07.28 Bezier tool उपयुज्य , उपर्ति वामभागे एकं चित्रं रचयन्तु ।
07.33 नीलवर्णं ददातु । stroke निष्कासयन्तु ।
07.36 युष्माकं सञ्चये वर्तमानं Spoken Tutorial लोगो इतीदं इम्पोर्ट् कुर्वन्तु ।
07.40 परिमाणं न्यूनं कृत्वा प्रथमविभागस्य उपरि वामकोणे स्थापयन्तु ।
07.46 “Spoken Tutorial” इति टङ्कयित्वा लोगो इत्यस्य दक्षिणभागे अलैन् कुर्वन्तु ।
07.51 फोण्ट् सैज़् 25 कुर्वन्तु ।
07.54 अस्याधः एकं वृत्तं रचयित्वा पीतवर्णं पूरयन्तु ।
07.58 'Inkscape' लोगो इतीदं Import कुर्वन्तु ।
08.00 इदं पीतवृत्तस्योपरि स्थापयन्तु ।
08.03 लोगो इत्यस्याधः “Inkscape” इति टङ्कयित्वा फोण्ट्-सैज़् 45 कुर्वन्तु ।
08.09 अहं Spoken Tutorial इत्यस्य विवरणानि योजितवानस्मि अपि च लोगोस् च योजितवानस्मि ।
08.15 भवन्तः अपि एवमेव कुर्वन्तु ।
08.17 अहं सर्वाणि एलिमेण्ट्स् इतीमानि,
08.19 Text and font
08.21 अपि च Align and Distribute विकल्पौ उपयुज्य अलैन् कृतवानस्मि ।
08.24 अधुना ब्रौशर् इत्यस्य बहिर्विभागः सिद्धः अस्ति ।
08.28 File गत्वा Save As नुदन्तु ।
08.31 फोर्मेट् इतीदं SVG इत्यस्मै परिवर्त्य Save उपरि नुदन्तु ।
08.37 इमां क्रियां पुनरावर्तताम् ।
08.39 एक्स्टेन्शन् इतीदं PDF इत्यस्मै परिवर्तताम् ।
08.41 Save नुदन्तु ।
08.43 इदमस्माभिः निर्मितं ब्रौशर् ।
08.46 भवन्तः नाना एलिमेण्ट् प्रति नाना लेयर्स् उपयुज्य, तस्य वर्णं तथा opacity च आवश्यकतानुसारेण परिवर्तितुमर्हन्ति ।
08.54 इमौ द्वौ ब्रौशर् इत्यस्मै कृतौ वर्णविन्यासौ ।
09.00 पाठसारं पश्याम ।
09.02 अस्मिन् पाठे वयम्,
09.04 guidelines इत्येतेषाम् उपयोगः तथा तेषां सेट् करणम् ,
09.07 3-fold brochure इत्यस्य सेट्टिङ्ग्स्,
09.09 3-fold brochure इत्यस्य विन्यसस्य विषयान् ज्ञातवन्तः ।
09.11 वयं, layer इत्येतेषां उपयुक्तताञ्च ज्ञातवन्तः ।
09.14 अपि च ब्रौशर् इतीदं नाना वर्णेषु रचयितुञ्च ज्ञातवन्तः ।
09.18 युष्माकं पाठनियोजनम् -
09.20 Spoken Tutorial प्रकल्पाय एकं 3-fold brochure रचयन्तु ।
09.24 समाप्त्यनन्तरं तदेवं दृश्यताम् ।
09.29 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति ।
09.35 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
09.42 अधिकविवरणार्थम् अस्मै लिखन्तु ।
09.45 स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति , नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
09.50 अधिकविवरणम् अत्र लभ्यते ।
09.54 वयं पाठस्यान्तमागतवन्तः ।
09.57 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat