Inkscape/C2/Layers-and-Boolean-operations/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:31, 8 December 2017 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 नमस्कारः, इङ्क्-स्केप्-मध्ये layers and bullion operation इति पाठार्थं भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् पाठे वयम् – लेयर्स्,
00:11 फिल्टर्स् बूलियन्-ओपरेशन्स् विषयान् ज्ञास्यामः ।
00:15 पाठमिदं रेकोर्ड्-कर्तुमहं – उबण्टु लिनक्स् वर्शन् 12.04अपि च इङ्क्-स्केप् वर्शन् 0.48.4 च उपयुञ्जे ।
00:25 इङ्क्-स्केप्-इतीदम् उद्घाटयाम । डेश्-होम्-गत्वा इङ्क्-स्केप् इति टङ्कयन्तु ।
00:30 लोगो इतीदं द्विवारं नुत्वापि इङ्क्-स्केप्-उद्घाटनं साध्यम् ।
00:32 पूर्वरचितं assighnment_2.svg इति सञ्चिकाम् उद्घाटयाम ।
00:38 इमां वयं my documents इति सञ्चये रक्षितवन्तः ।
00:41 आदौ इङ्क्-स्केप्-मध्ये लेयर्स् विषयं जानाम ।
00:45 layersमेन्यु मध्ये layers चिनोतु ।
00:50 अधुना इण्टर्फेस् इत्यस्य दक्षिणभागे लेयर्स्-पेलेट् उद्घाटितं भवति ।
00:55 आदावेव एकं लेयर् वर्तते । layer1 इत्येकं लेयर् पश्याम ।
01:01 अन्यमेकं लेयर् योजयितुं अथवा रचयितुं , लेयर्-पेलेट्-इत्यस्य ऊर्ध्वभागस्थं प्लस्-ऐकान् इतीदं नुदतु ।
01:07 addlayer इति डैलाग्-बोक्स् उद्घटते ।
01:10 layer name इति टेक्स्ट्-बोक्स्-मध्ये लेयर् इत्यस्मै नाम दातुं शक्नुमः ।
01:15 अहं लेयर्-इत्यस्मै eyeइति नाम ददामि ।
01:18 लेयर्-इत्यस्य स्थाननिर्णयं कर्तुं शक्नुमः । तदर्थं position इति ड्रोप्-डौन्-लिस्ट् इतीदं नुदतु ।
01:25 अत्र त्रयः विकल्पाः सन्ति ।
01:27 above current इति विकल्पः, लेयर्-इतीदं पूर्वतन लेयर् इत्यस्योपरि स्थापयति ।
01:32 bellow current इति विकल्पस्तु पूर्वतन लेयर् इत्यस्याधः स्थापयति ।
01:36 as sub layer of current इति विकल्पः , लेयर् इतीदं पूर्वतन लेयर् इत्यस्य अङ्गीभूतमिति सूचयति ।
01:41 अधुनाहं, above current इतीमं चित्वा add गण्डं नुदामि ।
01:47 अधुना लेयर्-पेलेट्-मध्ये eye नाम्नः नूतनं लेयर् वर्तते ।
01:52 एवमेव बो इत्येकम् अन्यं लेयर् रचयतु ।
02:00 अधुना लेयर्-पेलेट्-मध्ये त्रीणि लेयर्स् सन्ति ।
02:04 अधुना लेयर् इत्यस्य नामपरिवर्तनं कथमिति जानाम ।
02:08 अधुना ,layer1 इत्यस्योपरिद्विवारं नुत्वा circle इति नाम दत्वा enter नुदन्तु ।
02:16 अस्माकं केन्वास् प्रति आगच्छन्तु । अधुना द्वे अक्षिणी अपि च एकं बो वर्तन्ते ।
02:20 अधुना, द्वेऽपि आकृती अस्माभिः रचितेभ्यः द्विविधेभ्यः लेयर्स् इत्येतेभ्यः योजयाम ।
02:25 मूषकं कर्षयित्वा द्वेऽपि अक्षिणी चिनोतु ।
02:28 अधुना कीलफलके Ctrlअपि च X नुदन्तु । अक्षिणी न दृश्येते ।
02:34 लेयर्-पेलेट्-मध्ये स्थितं eye इति लेयर् नुदन्तु ।.
02:38 केन्वास्-प्रति आगत्य , Ctrl, Alt अपि च V कीलकानि नुदन्तु ।
02:44 एवमेव बो इत्यस्मै अपि करोतु ।
02:52 सर्वेषां ओब्जेक्ट्स्-इत्येतेषां चयनं निष्कासितुं , केन्वास् मध्ये रिक्तस्थाने नुदतु ।
03:00 eye अपि च lock इकान्स् , लेयर् इतीमानि अदृश्यानि कर्तुं अपि च लोक् कर्तुं साहाय्यमाचरन्ति ।
03:04 भवन्तः यदा लेयर्स्-इतीमानि अदृश्यानि कुर्वन्ति तदा, अधस्ताद्विद्यमानानि लेयर्स्-ओब्जेक्ट्स्-इतीमानि स्पष्टतया दृष्टुं शक्नुवन्ति ।
03:11 लेयर्स् लोक्-करणेन तत्र आकस्मिकानि परिवर्तानानि न भवन्ति ।
03:18 बृहत् अपि च क्लिष्टानि ग्राफिकल् असैन्मेण्ट्स् कर्तुं , इमानि वैशिष्ट्यानि सहायकानि भवन्ति ।
03:25 सर्वेषां लेयर्स् इत्येतेषां वामभागे भवन्तः द्वे ऐकान्स् दृष्टुं शक्नुवन्ति । eye अपि च lock ।
03:32 अधुना वयं अस्योपयोगान् ज्ञास्यामः ।
03:35 लेयर्स् इतीमानि लोक् अथवा अन्लोक् कर्तुं , लोक् ऐकान् इतीदं नुदतु । अधुनाहं बो लेयर् इतीदं लोक् कृतवानस्मि ।
03:42 यद् लेयर् लोक् अभवत् तद् लेयर्-मध्ये वयं यत्किमपि परिवर्तनं कर्तुं न शक्नुमः ।
03:47 अधुना ,केन्वास् इत्यस्योपरि बो इतीदं चेतुं प्रयत्नं कुर्मः । चयनं कर्तुमसाध्यमिति ज्ञायते ।
03:58 अधुना ,बो-लेयर् इतीदं अन्लोक् करोमि ।
04:01 अधुना ,बो-ओब्जेक्ट् इतीदं चेतुं शक्नुमः अपि च तेषां गुणपरिवर्तनं कर्तुं शक्नुमः ।
04:07 केन्वास् इत्यस्योपरि , लेयर्-इतीदम् अगोचरं गोचरं वा कर्तुं लेयर् इत्यस्य वामपार्श्वस्थं eye ऐकान् इतीदं नुदन्तु ।
04:15 बो लेयर्-इत्यस्य eye ऐकान् इतीदं नुदन्तु ।
04:18 केन्वास् मध्ये किं भविष्यतीति ज्ञास्यन्तु ।
04:23 अधुना , बो लेयर् इतीदं कोपि कुर्वन्तु ।
04:26 लेयर्-मेन्यू-मध्ये , डुप्लिकेट् करेण्ट्-लेयर् इति विकल्पं चिनोतु ।
04:32 लेयर्-पेलेट्-विण्डो मध्ये ,बो-कोपि इति नूतनं लेयर् वर्तते इति ज्ञास्यन्तु ।
04:41 परन्तु, अस्माकं केन्वास्-इत्यस्योपरि अन्यदेकं बो न दृश्यते । यतो हि , बो ओब्जेक्ट् , अधस्तात् लेयर्-इत्यस्योपरि अस्ति ।
04:50 उपरितन लेयर् इत्यस्य बो इतीदं चित्वा इदं कर्षयतु , द्वेऽपि बो दृश्येते ।
04:56 सर्कल् लेयर् इतीदं चिनोतु ।
04:58 केन्वास् इत्यस्योपरि eyes अपि च bowsच परितः परिभ्रामयन्, एकं वृत्तं रचयित्वा तस्मै केसरवर्णं पूरयतु।
05:05 दीर्घवृत्तं अन्येषाम् ओब्जेक्ट्स् इत्येतेषां अन्तराले दृश्यते ।
05:10 लेयर्-पेलेट्-मध्ये , प्लस् ऐकान् इत्यस्य पुरस्तात् विद्यमानानि चत्वारि ऐकान्स् , चेतस्य लेयर् इत्यस्य स्थाने स्थापयितुं साहाय्यमाचरन्ति ।
05:17 प्रथमं ऐकान्, लेयर् इतीदं अन्येषां लेयर् इत्येतेषामुपरि स्थापयति ।
05:23 अधुना सर्कल्-लेयर् चितं वर्तते ।
05:25 ऐकान् एतस्य नोदनेन , सर्कल्-लेयर् ऊर्ध्वे स्थाप्यते ।
05:33 चितं लेयर् इतीदं , अन्तिमम् ऐकान् , अधस्तात् स्थाप्यते ।
05:38 ऐकान् इत्यस्योपरि नुदन्तु ।अधुना सर्कल् लेयर् सर्वस्मात् अधः विद्यते इति ज्ञास्यन्तु ।
05:44 द्वितीयम् ऐकान् , चितं लेयर् इतीदं एकस्य लेयर्-इत्यस्य उपरि स्थाप्यते ।
05:48 ऐकान् इत्यस्योपरि नुदन्तु । अधुना सर्कल्-लेयर् ऐ-लेयर् इत्यस्योपरि आगच्छति । अतः अक्षिणी न दृश्येते ।
05:57 तृतीयं ऐकान्, चितं लेयर् इतीदम्, एकस्य लेयर्-इत्यस्य अधः स्थाप्यते ।
06:01 ऐकान् इत्यस्य उपरि नुदन्तु । अधुना सर्कल्-लेयर् , ऐ-लेयर्-इत्यस्य अधः आगच्छति ।.
06:07 एवं चत्वारि ऐकान्स् अपि उपयोक्तुं शक्नुमः ।
06:13 अन्ते विद्यमानं मैनस्-ऐकान् , चितं लेयर् इतीदं निष्कासयति । बो कोपि इति लेयर् चित्वा , इदं नुदन्तु ।
06:21 बो कोपि इति लेयर् अधुना न दृश्यते ।
06:27 ब्लेण्ड्-मोड् इतीदं, लेयर्-इत्यस्मै ब्लेण्ड्-फिल्टर् दातुम् एकं शोर्ट्-कट् वर्तते ।
06:31 चिते लेयर्-मध्ये , ओब्जेक्ट्स् इतीमानि एकस्योपरि अन्यत् वर्तन्ते चेत्, इङ्क्स्केप् इतीदं द्वयोः ओब्जेक्ट्स्-इत्येतयोः प्रत्येकं पिक्सेल् च ब्लेण्ड् करोति ।
06:41 अतः, सर्कल्-लेयर् इतीदं उपरि कर्षयित्वा , फिल्टर्स् इतीमानि दृश्यानि कुर्वन्तु ।
06:46 ब्लेण्ड्-मोड् इत्यस्य ड्रोप्-डौन्-लिस्ट् इत्यस्योपरि नुदन्तु । अत्र पञ्च विकल्पाः सन्ति ।
06:52 प्रथमः विकल्पः normal इतीदं , लेयर् इत्यस्मै यत्किमपि फिल्टर् न योजयति ।
06:57 अस्योपरि नुदाम । पश्यतां यत् – किमपि फिल्टर् न योजितम् ।
07:03 पश्चात् ,multiply इत्यस्योपरि नुदन्तु ।
07:06 उपरिस्थितानि लेयर्स्, अधोविद्यमानानि लेयर्स् प्रति, तत्र विद्यमानानि ओब्जेक्ट्स् दृष्टुं , प्रकाशं ददति ।
07:14 अनेन सह, एकस्योपरि अन्यत् वर्तमानेषु स्थानेषु वर्णानि तीव्राणि करोति ।
07:21 अग्रिमः विकल्पः screen इति ।
07:25 उपरिस्थितानि ओब्जेक्ट्स् पश्यन्तु । तानि अधस्थितानि ओब्जेक्ट्स् इतीमानि लघुवर्णयुतानि कुर्वन्ति ।
07:30 अतः यत्र एकस्योपरि अन्यत् ओब्जेक्ट् वर्तते तत्र वर्णमिश्रणं कृत्वा लघु कुर्वन्ति ।
07:36 darken इतीदं चिनोतु । अप्पर्-लेयर्-मध्ये स्थितानि ओब्जेक्ट्स् , लोवर्-लेयर्-मध्ये स्थितानि ओब्जेक्ट्स् इतीमानि तीक्ष्णानि कुर्वन्ति ।
07:44 अधुना lighten इतीदं चिनोतु । अत्र उपरिस्थितानि ओब्जेक्ट्स् , अधस्थितानि ओब्जेक्ट्स् इतीमानि लघुवर्णायुतानि कुर्वन्ति ।
07:53 blend mode इतीदं पुनः normal mode कुर्मः चेत्, ब्लेण्ड् फिल्टर् अदृश्यं भवति ।
08:00 एवम् , अन्यानि फिल्टर्स् अपि फिल्टर्-मेन्यु मध्ये दृष्टुं शक्नुमः ।
08:04 यत्किमपि फिल्टर् योजयितुं पूर्वे , ओब्जेक्ट् इतीदं चिनोतु पश्चात् फिल्टर् इतीदं नुदन्तु ।
08:12 सर्कल् लेयर् इतीदं पुनः अधः चालयतु ।.
08:16 अधुना eye इतीदं चिनोमि अपि च filters मेन्यु मध्ये blur अपि च fancy blur इतीमे नुदतु ।
08:26 eyeमध्ये परिवर्तनानि पश्यन्तु ।
08:29 अन्यं eye चिनोमि । filters मेन्यु मध्ये bevel अपि च smart jelly इतीमे चिन्वन्तु ।
08:39 पुनः, eye मध्ये परिवर्तनानि पश्यन्तु ।
08:44 अधुना , बो इतीदं चिनोतु । अपि च filters मेन्यु मध्ये scatter अपि च air spray विकल्पौ चिनोतु ।
08:51 बो इतीदं वर्णपूरितमिव दृश्यते ।
08:55 blend मोड् मध्ये स्थितं opacity विकल्पः , चितस्य लेयर् इत्यस्य अपारदर्शकतां न्यूनं करोति ।
09:01 सर्कल् लेयर् इतीदं चिनोतु ।
09:03 ओपेसिटी इतीदं सम्यक् कृत्वा दीर्घवृत्ते परिवर्तनानि पश्यन्तु ।
09:10 अग्रे वयं बूलियन् ओपरेशन् इतीदं ज्ञास्यामः ।
09:13 path मेन्यू मध्ये , सर्वाणि बूलियन् ओपरेशन्स् सन्ति ।
09:21 केन्वास् इत्यस्य पार्श्वे स्थिताः सर्वाः आकृतीः पार्श्वे स्थापयन्तु ।.
09:26 एकं हरिद्वर्णस्य चतुरश्रम् अपि च रक्तवर्णस्य वृत्तञ्च रचयित्वा, वृत्तं चतुरश्रस्य पार्श्वे स्थापयतु ।
09:36 द्वेऽपि चित्वा pathमेन्यु मध्ये union इतीदं नुदन्तु । अधुना द्वेऽपि आकृती संयुक्ते अभवताम् ।
09:46 अधुना इमां क्रियां अपाकर्तुं Ctrl अपि च Z कीलके नुदन्तु ।.
09:51 पुनः द्वेऽपि चित्वा path मेन्यु मध्ये difference इतीदं नुत्वा किं भविष्यतीति ज्ञास्यन्तु ।
09:59 पुनः इमां क्रियाम् अपाकर्तुं Ctrl अपि च Z कीलके नुदन्तु ।
10:03 पुनः द्वेऽपि चित्वा path मेन्यु मध्ये intersection इतीदं नुत्वा परिवर्तनानि पश्यन्तु ।
10:11 इमां क्रियाम् अपाकर्तुं Ctrl अपि च Z कीलके नुदन्तु ।
10:16 पुनः pathमेन्यु मध्ये द्वेऽपि चित्वा Exclusion इतीदं नुत्वा परिवर्तनानि अवलोकयन्तु ।
10:24 पुनः Ctrl अपि च Z कीलके नुदन्तु ।.
10:27 पुनः द्वेऽपि चित्वा path मेन्यु मध्ये division इतीदं नुदन्तु ।
10:34 विभक्तस्य वृत्तस्योपरि नुत्वा , तं पार्श्वे स्थापयित्वा फलितं पश्यन्तु ।
10:39 अधुना ctrl अपि च z कीलके द्विवारं नुत्वा इमे कार्ये अपाकरोतु ।
10:44 द्वेऽपि ओब्जेक्ट् चित्वा path मेन्यु मध्ये cut path इतीदं नुदन्तु ।
10:50 आकृतौ परिवर्तनानि पश्यन्तु ।
10:53 cut path इति विकल्पः , ओब्जेक्ट्-स्ट्रोक्-युतः चेदेव कार्यं करोति । आकृतीनां चयनम् अपाकरोतु ।
10:59 अधुना यत्किमपै स्ट्रोक् चित्वा , cut path इतीदं दृष्टुं तत् पार्श्वे स्थापयन्तु ।
11:05 अस्मिन् पाठे वयम्, :
11:09 *लेयर्स्, फिल्टर्स् अपि च बूलियन् ओपरेटर्स् इत्येतेषां ज्ञानं प्राप्तवन्तः ।
11:14 युष्माकमत्र पाठाभ्यासः वर्तते -.
11:16 पाटलवर्णस्य आयतम् अपि च हरिद्वर्णस्य त्रिकोणं च रचयतु ।.
11:21 त्रिकोणम् आयतस्योपरि स्थापयन्तु ।.
11:24 द्वेऽपि चित्वा युनियन् इतीदम् उपयोजयतु । तत् होम्-ऐकान् –वत् दृश्येत् ।
11:30 लेयर् इत्यस्मै home इति नाम ददातु ।
11:32 द्वे वृत्ते रचयतु ।
11:34 एकस्योपरि अन्यं स्थापयतु ।.
11:36 द्वेऽपि चित्वा difference इत्यस्योपयोगं करोतु ।
11:39 एतत् अर्धचन्द्रवत् दृश्येत् ।
11:42 एकं दीर्घवृत्तं रचयतु ।
11:44 दशाश्रियुतं नक्षत्रमेकं रचयतु ।
11:46 तत् दीर्घवृत्तस्योपरि स्थापयन्तु ।.
11:49 द्वेऽपि चित्वा exclusion नुदतु ।.
11:52 crescent अपि च star इति द्वे लेयर् रचयतु ।
11:57 अर्धवृत्तं कर्तयित्वा crescent लेयर् इत्यस्योपरि पेस्ट्-करोतु ।
12:00 एवमेव नक्षत्रमपि करोतु ।
12:03 भवतां पाठाभ्यासः एवं दृश्येत् ।
12:07 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
12:16 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
12:23 विवरणार्थंcontact @ spoken-tutorial.org. इत्यस्मै लिखन्तु ।
12:27 स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति । अयं प्रकल्पः नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
12:34 अधिकविवरनम् - spoken-tutorial.org/NMEICT-intro इत्यत्रोपलभ्यते ।
12:39 वयं पाठस्यान्तमागतवन्तः ।
12:42 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

.

Contributors and Content Editors

NaveenBhat, PoojaMoolya