Difference between revisions of "GIMP/C2/Selecting-Sections-Part-1/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:23 | '''Meet the GIMP''' इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम...")
 
 
Line 165: Line 165:
 
|-
 
|-
 
| 06:29
 
| 06:29
| यदा अहं '''shift''' इति कीलकम् अपि च मूषककीलकं नुदामि तदा धनात्मकचिह्नं (+) दृश्यते ।  
+
| यदा अहं '''shift''' इति कीलकम् अपि च मौस्-की नुदामि तदा धनात्मकचिह्नं (+) दृश्यते ।  
  
 
|-
 
|-
 
| 06:39
 
| 06:39
| इदानीम्, अहं यदि चयनस्य वियोगं कर्तुम् इच्छामि, तर्हि '''Ctrl''' इति कीलकं मूषककीलकं च नुत्वा सारयितुम् आरभे  । भवान् एकम् ऋणचिह्नं (-) द्रष्टुं शक्नोति ।  
+
| इदानीम्, अहं यदि चयनस्य वियोगं कर्तुम् इच्छामि, तर्हि '''Ctrl''' इति कीलकं मौस्-की च नुत्वा सारयितुम् आरभे  । भवान् एकम् ऋणचिह्नं (-) द्रष्टुं शक्नोति ।  
  
 
|-
 
|-
Line 329: Line 329:
 
|-
 
|-
 
| 14:16
 
| 14:16
| मूषकस्य नोदनात् प्राक् यदि '''Ctrl''' इतीदं कीलकम् नुदामि, तर्हि अहं चयनस्य वियोगं कर्तुं शक्नोमि । किन्तु, यदा प्रथमं मूषकं नुत्वा अनन्तरं '''Ctrl''' इतीदं कीलकं नुदामि तदा अहं केन्द्रात् चयनं प्राप्नोमि ।  
+
| मौस् नोदनात् प्राक् यदि '''Ctrl''' इतीदं कीलकम् नुदामि, तर्हि अहं चयनस्य वियोगं कर्तुं शक्नोमि । किन्तु, यदा प्रथमं मौस् नुत्वा अनन्तरं '''Ctrl''' इतीदं कीलकं नुदामि तदा अहं केन्द्रात् चयनं प्राप्नोमि ।  
  
 
|-
 
|-
Line 437: Line 437:
 
|-
 
|-
 
| 19:54
 
| 19:54
| मूषककीलकस्य नोदनानन्तरं '''Ctrl''' इति कीलकेन '''Expand from center''' इतीदम् अपि तथैव कार्यं करोति ।  
+
| मौस्-की इत्यस्य नोदनानन्तरं '''Ctrl''' इति कीलकेन '''Expand from center''' इतीदम् अपि तथैव कार्यं करोति ।  
  
 
|-
 
|-
 
| 20:05
 
| 20:05
| '''Fixed aspect ratio''' इतीदम् अपि तथैव अस्ति । मूषककीलकस्य नोदनानन्तरं भवान् aspect ratio `1 by 1’ (1:1) इत्येतेन युक्तं परिपूर्णवर्तुलं प्राप्नोति ।  
+
| '''Fixed aspect ratio''' इतीदम् अपि तथैव अस्ति । मौस्-की इत्यस्य नोदनानन्तरं भवान् aspect ratio `1 by 1’ (1:1) इत्येतेन युक्तं परिपूर्णवर्तुलं प्राप्नोति ।  
  
 
|-
 
|-

Latest revision as of 20:21, 25 September 2019

Time Narration
00:23 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् ।
00:25 Rolf steinort महाभागः इदं Bremen इति Northern Germany देशे ध्वन्यङ्कनं कृतवानस्ति ।
00:31 अनेन चित्रेण वयम् अद्यतन पाठस्य आरम्भं कुर्मः ।
00:34 अद्य, केवलम् उदाहरणत्वेन उपयोक्तुम् अनेन चित्रेण सह कार्यं करोमि ।
00:44 selection इत्यनेन सह कार्यारम्भात् प्राक्, selection इतीदं यथार्थतया किम् इति भवान् किञ्चित् जानीयात् इति अहं चिन्तयामि ।
00:57 इदं चतुष्कोणं selection इति कथ्यते । अपि च अयं भागः चयनात् बहिः अस्ति ।
01:06 एताः चलने विद्यमानरेखाः अत्र selection इत्यस्य सीमाः भवन्ति ।
01:15 GIMP इत्यस्य जनाः selection इतीदं channel इति नाम्ना कथयन्ति ।
01:19 रक्तः, हरितः अथवा नीलः अथवा पारदर्शकतायाः नियन्त्रयित्री आद्यवाहिनी (Alpha channel) वत् वाहिनी अस्ति ।
01:28 चयनात् बहिः, अस्य channel इत्यस्य मूल्यं शून्यं भवति ।
01:33 अस्य अन्तः 255 अस्ति । अपि च एतेषां मध्ये सीमा भवति । 255 इत्यपेक्षया न्यूनं, शून्यापेक्षया अधिकं मूल्यानि एतयोः मध्ये भवितुम् अर्हति ।
01:48 अतः, 'changing a selection' अथवा 'making a selection' इतीदं नाम कांश्चन सङ्ख्यानां परिवर्तनम् इति ।
01:55 अपि च इदानीं, selection इतीदं कथं करणीयम् इति वयं पश्यामः ।
02:01 चयनस्य अपचयनं कर्तुं, 2 मार्गौ स्तः ।
02:05 प्रथममार्गः, Select इत्यत्र गत्वा None इत्यत्र गमनम् ।
02:11 भवान् Shift + Ctrl+ A इति कीलकानि एकधा एव उपयुज्य चयनं निवारयितुं शक्नोति ।
02:22 इदानीं, Rectangle Select इतीदं साधनं चित्वा विकल्पसंवादपेटिकायां पश्यतु ।
02:33 उपरि, चत्वारः पर्यायाः सन्ति ।
02:36 Replace the current selection इत्ययं प्रथमः अस्ति ।
02:40 अतः, अहम् अत्र विभिन्नप्रदेशान् चिनोमि । अपि च यदा अहं नूतनप्रदेशं चिनोमि तदा पुरातनं selection इतीदं निष्कासितं भवति इति भवान् द्रष्टुं शक्नोति ।
02:52 Add to the current selection इत्ययं द्वितीयविकल्पः अस्ति ।
02:58 तस्य विकल्पस्य चयनेन, चित्रे अहं विभिन्नप्रदेशान् चेतुं शक्नोमि । अपि च अतीव जटिलचयनं प्राप्नोमि ।
03:17 अपि च अहं वर्णप्लवनं (colour tab) प्रति गत्वा selection इत्यत्र यदि वर्णं कर्षयामि तर्हि सर्वे अपि चितप्रदेशाः तेन वर्णेन पूरिताः भवन्ति अपि च चितप्रदेशः किन्तु, सः न संयुक्तः चेदपि पूरितः अस्ति इति भवान् द्रष्टुं शक्नोति ।
03:44 अतः, चयनं प्रति किमपि युज्यते चेत्, तत्रत्य चितप्रदेशानां मध्ये सम्पर्कराहित्ये अपि सर्वं चयनम् एकम् एव इति निगृह्णाति ।
03:57 इदं किञ्चित् जटिलम् अस्ति ।
03:59 पूरितस्य undo इति कर्तुं Ctrl + Z इतीदं नुत्वा सर्वम् अपचिनोतुं shift + Ctrl + A इतीदं नुदतु । अपि च मम विकल्पसंवादपेटिकां प्रति आगच्छामः ।
04:11 इदानीम्, अत्र चतुष्कोणं चित्वा Subtract from the current Selection इतीदं चिनोतु ।
04:21 अहम् इदं प्रदेशं चिनोमि किन्तु, किमपि न भवति ।
04:27 किन्तु, यदा अहम् इमान् प्रदेशान् चिनोमि, तदा प्रान्तः कर्तितः इति भवान् द्रष्टुं शक्नोति ।
04:36 चयनस्य खण्डः (frame) तत्रैव अवशिष्यते अपि च यदा अहं तत् सारयामि तदा परिवर्तनानि कर्तुं शक्यन्ते इति भवान् द्रष्टुं शक्नोति ।
04:47 अतः, नूतनचयनं प्राप्तुम्, अन्यत्र स्थाने नोदनपर्यन्तं, भवता कृतम् अन्तिमं चयनम् अपि परिवर्तयितुं शक्यते । भवान् भवतः कार्यं सर्वदा अपि परिवर्तयितुं शक्नोति ।
05:07 इदानीम् Intersect with the current selection इत्ययम् अन्तिमविकल्पः अस्ति ।
05:14 वयं तत् प्रयतामहे ।
05:17 अहम् अत्र आयतं चिनोमि । अस्मात् बहिः विद्यमानप्रदेशः न चितः अस्ति अपि च पूर्वं यत् चितम् आसीत् तत् निष्कासितम् अस्ति ।
05:32 अपि च आयते केवलं selection इतीदं स्थापितम् अस्ति ।
05:38 मह्यम् अपेक्षितप्रदेशस्य चयनं पर्यन्तम् अहम् इमम् आयतम् अपि अभिसंनमनं (modify) कर्तुं शक्नोमि ।
05:49 अतः इदानीं, Replace, Add, Subtract अपि च Intersect इति चतस्रः दशाः वयं समापितवन्तः ।
06:06 भवान् केवलं नोदनेन चयनं पुनर्निवेशं (replace) कर्तुं शक्नोति ।
06:11 Click अपि च Shift इत्येताभ्यां योजनं कर्तुं शक्यते ।
06:17 अतः, तत् वयं प्रयतामहे । अहं shift इति कीलकं नुदामि । अपि च नोदनेन नूतनं selections इतीदं योजयितुम् आरभे ।
06:29 यदा अहं shift इति कीलकम् अपि च मौस्-की नुदामि तदा धनात्मकचिह्नं (+) दृश्यते ।
06:39 इदानीम्, अहं यदि चयनस्य वियोगं कर्तुम् इच्छामि, तर्हि Ctrl इति कीलकं मौस्-की च नुत्वा सारयितुम् आरभे । भवान् एकम् ऋणचिह्नं (-) द्रष्टुं शक्नोति ।
06:57 अतः, इदानीम् अहं चयनस्य वियोगं कर्तुं शक्नोमि ।
07:02 संसर्गार्थं (intersection), Shift, Ctrl इतीदम् उभयम् एकधा एव नुत्वा अनन्तरं संसर्गं कर्तुं प्रदेशं चिनोतु ।
07:26 यदि भवान् एतत्कीलकसमवायं मनसि धरति तर्हि प्रदेशं शीघ्रं चेतुं शक्नोति ।
07:33 अपि च इमानि कीलकानि अन्यचयनसाधनेन उपयुज्यन्ते ।
07:38 अतः, भवता केवलम् एकधा तानि नूनम् अध्येतव्यानि ।
07:44 Shift, Ctrl, A, इतीदम् अन्यचयनानि निष्क्रियं करोति । अपि च मम सामान्यदशां प्रति आनयति । इदानीं वयम् अत्रत्यान् अन्यविषयान् आरभामहे ।
07:56 Feather edges इति अग्रिमविकल्पः अस्ति । यदा अहम् इदं चिनोमि तदा अत्र Radius Count इति अन्यविकल्पं भवान् प्राप्नोति ।
08:09 अतः, अहम् इदं किञ्चित् वर्धयित्वा एकं प्रदेशं चिनोमि ।
08:15 इदानीं भवान् अत्र मण्डलीकृतं (rounded) कोणं द्रष्टुं शक्नोति ।
08:21 अत्र अहं मण्डलीकृतकोणं न अपेक्ष्ये ।
08:25 नूनं किम् अभवत् इति भवते दर्शयितुम्, अहं कृष्णेन इदं पूरयित्वा चित्रे सर्पणं करोमि ।
08:37 अत्र मध्ये कृष्णः अस्ति, अपि च सीमायाः समीपे शीर्णः (fades) अस्ति, एतत्प्रान्तस्य अन्त्यभागाः नैजकृष्णः अपि च मूलचित्रम् इति उभयोः मध्ये चलन्तः सन्ति । तथैव चयनस्य मूल्यं 128 इत्यस्ति इति भवान् द्रष्टुं शक्नोति ।
09:09 अतः, अर्धकृष्णवर्णः selection इत्यस्य अन्तः अपि च अपर-अर्धः बहिः शीर्णः अस्ति ।
09:19 यदा भवतः सविधे कठोरचयनम् अस्ति तदा केवलं प्रान्तस्य अन्त्यभागः भवतः चयनस्य यथार्थसीमा भवति ।
09:29 Feather edges इतीदं मृदुचयनानि प्राप्तुम् उत्तमविकल्पः अस्ति ।
09:35 Feather selection इत्यनेन, भवान् न्यूनाग्र्ययुक्तं दृश्यं प्राप्नोति, तथा इदं सुलभमार्गः अस्ति ।
09:45 तान्त्रिकमनोभावस्य जनाः Feather selection इतीदं Gaussian Blur इति कथयन्ति । अपि च अत्र मया या त्रिज्या (radius) चिता अस्ति सा Gaussian Blur इत्यस्य अस्ति ।
10:04 Rounded corners इति अग्रिमविकल्पः अस्ति ।
10:09 इदं मण्डलीकृतम् आयुतम् अस्ति । अपि च मण्डलीकृतकोणानां भवान् त्रिज्यां व्यवस्थापयितुं शक्नोति ।
10:20 अत्र मण्डलीकृतभागः अस्ति अपि च एते प्रान्ताः ऋजुभागाः सन्ति ।
10:28 अत्र, Antialiasing इति अग्रिमविकल्पः अस्ति ।
10:34 अयं विकल्पः सीमायाः रङ्गसेचनं व्यवस्थापयति ।
10:40 नूनम् अहम् selection इतीदं कृष्णेन पूरयामि । अपि च इदानीं मम चयनसाधनं प्रति गत्वा Antialiasing इतीदम् अपचिनोमि । अन्यत् चयनं कृत्वा इदम् अपि कृष्णेन पूरयामि ।
11:09 अतः, zoom इतीदं साधनं चित्वा Shift + Ctrl + A इत्यस्य नोदनेन सर्वचयनानि अपचिनोतु । अपि च अस्मिन् प्रदेशे सर्पणं करोतु ।
11:24 अपि च अत्र, प्रान्तः antialiasing इत्यनेन रहितः अस्ति । इदं कृष्णेन पूरितः अथवा पूरितः नास्ति ।
11:37 अपि च अत्र, भवान् धूसरवर्णस्य सोपानानि द्रष्टुं शक्नोति ।
11:42 अत्र भवान् jaggies रहितमृदुसीमाः द्रष्टुं शक्नोति । इदम् एव antialiasing इति कथ्यते ।
11:53 इदं चयनं मण्डलीकृतसीमया युक्तं नास्ति । किन्तु, सोपानानां श्रेणिः एव अस्ति ।
12:04 अपि च, यदा अहं 100% सर्पणं प्रति गच्छामि, तदा अहम् अत्र jaggies इतीदं द्रष्टुं शक्नोमि । इदं मृदु नास्ति, अत्र मृदुसीमाः अपि च स्वयं भवान् एव सुलभेन प्रयत्नं कर्तुं शक्नोति ।
12:32 अतः, यदि मृदुसीमाः प्राप्तुं इच्छति तर्हि Antialiasing इतीदं चिनोतु ।
12:42 अपि च यदि अत्र इमाः धूसरछायाः प्राप्तुम् इच्छति तर्हि तं विकल्पम् अपचिनोतु ।
12:55 अतः, अहं तं विकल्पं चिनोमि । अपि च अत्र Expand from centre इति उपविकल्पः अस्ति ।
13:04 अहम् इदं चित्वा तेन कार्यम् आरभे ।
13:13 अतः, अहम् अत्र बिन्दुं संस्थाप्य इतः मम चयनं कर्षयितुम् आरभे ।
13:21 इदं तस्मात् बिन्दोः वर्धमानम् अस्ति इति भवान् द्रष्टुं शक्नोति । अपि च अयं बिन्दुः सर्वदा चयनस्य मध्ये भवति ।
13:31 यदा अहं तं विकल्पम् अपचिनोमि, अत्र selection इतीदं कर्षयितुं शक्नोमि । अपि च कोणस्य स्थितिः अपि मम चयनस्य अनुसारं परिवर्तते ।
13:46 एतदर्थम् अत्र कीलकविध्यादेशः (keycode) अस्ति ।
13:51 यदा अहम् इदं बिन्दुं नुत्वा Ctrl इतीदं नुदामि तदा केन्द्रात् selection इतीदं प्राप्नोमि अपि च तत् चयनं केन्द्रात् विस्तृतं भवति ।
14:06 अपि च यदा अहं Ctrl इतीदं कीलकं त्यजामि तदा चयनं नष्टं भवति ।
14:16 मौस् नोदनात् प्राक् यदि Ctrl इतीदं कीलकम् नुदामि, तर्हि अहं चयनस्य वियोगं कर्तुं शक्नोमि । किन्तु, यदा प्रथमं मौस् नुत्वा अनन्तरं Ctrl इतीदं कीलकं नुदामि तदा अहं केन्द्रात् चयनं प्राप्नोमि ।
14:42 Fixed aspect ratio इति अग्रिमविकल्पः अस्ति । अपि च अत्र अहं पूर्वनियोजित-आलोक-अनुपातरूपेण (aspect ratio) ‘1 by 1’ इति प्राप्तुं शक्नोमि । यदा अहं चित्रयामि तदा इदं सर्वदा चतुष्कोणे एव भवति ।
15:08 अत्र अहं ‘2 by 3’ (2:3) इतीदं चेतुं शक्नोमि । अपि च अहं सर्वदा ‘2 by 3’ इति अनुपाते एव चयनं प्राप्नोमि । ‘3 by 2’ (3:2) इति परिवर्तने कृते इदं मह्यं भूप्रदेशदशायां (landscape mode) चयनं ददाति ।
15:31 परिपूर्णचतुष्कोणं रचयितुम् अन्यमार्गः अस्ति ।
15:36 अहम् अस्मिन् बिन्दौ चयनम् आरभ्य, कर्षयामि च अनन्तरं shift इतीदं नुदामि ।
15:46 इदानीं पूर्वनियोजितमूल्येन (preselected value) अत्र Fixed aspect ratio इतीदं चितम् अस्ति ।
15:54 अपि च अयं वेगतरमार्गः, अतः मह्यम् अपेक्षितान् आलोक-अनुपातयुक्तप्रदेशान् केवलं shift इत्यस्य नोदनेन चेतुं शक्नोमि ।
16:08 Highlight इति अग्रिमविकल्पः अस्ति । यदा अहं तत् उपयुञ्जे तदा अपचितप्रदेशः धूसरे अपि च चितप्रदेशाः सर्वे श्वेते भवन्ति ।
16:24 अपि च इदं केवलं प्रकृतचयनेन सह सम्बद्धम् अस्ति । अतः इदम् अपचयनं कृत्वा अन्यविकल्पान् पश्यामः ।
16:35 अत्र इमानि मूल्यानि भवान् हस्तेन व्यवस्थापयितुं शक्नोति । यदि अत्र Fix इतीदं नुदति तर्हि चयनस्य आकारं परिवर्तयितुं न शक्नोमि ।
16:47 किन्तु, विस्तारं (Width) यदि चित्रकणद्वयं न्यूनम् अपि च एकचित्रकणाधिकम् उन्नतं (Height) व्यवस्थापयितुम् इच्छामि तर्हि तत् चयनं सुतानं (fine tune) करोति ।
16:59 मूलस्य बिन्दुः X इत्यस्य मूल्यस्य वर्धनेन अहं चयनं दक्षिणं प्रति किञ्चित् सारयितुं शक्नोमि ।
17:10 अपि च यदा Fix इतीदं चिनोमि तदा अहं समग्रचयनस्य चलनं कर्तुं शक्नोमि ।
17:17 अतः, ‘X’ अपि च ‘Y’ इत्यनयोः मूल्यानि वामतः उपरि विद्यमानबिन्दोः मूलबिन्दुः अस्ति । अपि च Fix इति कीलकेन चलनम् अवरोद्धुं शक्नोमि ।
17:30 Guides इति अग्रिमविकल्पः अस्ति ।
17:34 चयनस्य मध्यबिन्दुः कुत्र अस्ति इति दर्शयन्तीं Centre line इतीमाम् अहं चेतुं शक्नोमि ।
17:44 चित्रणकार्यार्थम् (graphics) उपयुज्यमानं Rule of thirds इतीदम् अथवा एतत्सदृशं Golden sections इतीदं प्राप्तुं शक्नोमि ।
18:00 अधः Auto Shrink Selection अपि च Shrink merged इतीदम् अस्ति ।
18:08 Auto Shrink Selection इतीदं न तावत् उपयोगकरम् अस्ति ।
18:14 किन्तु Shrink merged इति विकल्पस्य चयने विधिकल्पाः (algorithm) layers इत्यत्र पश्यति । अपि च यदि अपचयनं क्रियते तर्हि layer इत्यत्र यत् भवतः कार्यं प्रचलति केवलं तत् परिगण्यते ।
18:34 एतेषां विकल्पानां पुनरावलोकनात् प्राक् वयं Ellipse इति चयनस्य विषये चर्चयामः ।
18:42 अतः, Shift + ctrl + A इतीदं नुत्वा सर्वचयनानि अपचिनोतु ।
18:49 उपरि, भवते Replace current selection, Add to the selection with Shift key before clicking अपि च Subtract with Ctrl key before clicking अपि च Intersect with Shift and Ctrl key before clicking इति समानविकल्पाः प्राप्यन्ते ।
19:12 पुनः Antialiasing इतीदं मृदुप्रान्तेभ्यः अस्ति ।
19:17 आयताकारस्य अपेक्षया विषमचक्रवालेन (ellipse) सह इदं मुख्यम् अस्ति यतोहि विषमचक्रवालानि सर्वदा वर्तुलाकारे भवन्ति ।
19:26 Feather edges इतीदम् आयतस्थविकल्पान् एव प्राप्नोति ।
19:32 इदं यदा अहं कृष्णेन पूरयामि, तदा कृष्ण-श्वेतयोः मृदु gradient इतीदं भवान् द्रष्टुं शक्नोति । अपि च एतत् पालिकायाः (margin) अन्त्यभागाः कृष्ण-श्वेतयोः मध्ये भवन्ति ।
19:54 मौस्-की इत्यस्य नोदनानन्तरं Ctrl इति कीलकेन Expand from center इतीदम् अपि तथैव कार्यं करोति ।
20:05 Fixed aspect ratio इतीदम् अपि तथैव अस्ति । मौस्-की इत्यस्य नोदनानन्तरं भवान् aspect ratio `1 by 1’ (1:1) इत्येतेन युक्तं परिपूर्णवर्तुलं प्राप्नोति ।
20:19 इदानीम्, अद्य प्रदर्शनीयम् अन्तिमं साधनं प्रति वयम् आगच्छामः । अपि च तत् Free Select इति साधनम् अस्ति ।
20:29 यदा अहं तत् साधनं चिनोमि, तदा अहं समानविकल्पान् एव अत्र पश्यामि । Add, Replace, Subtract अपि च Intersect कर्तुं कीलकानि अपि तथैव कार्यं कुर्वन्ति ।
20:44 समानकार्येभ्यः Antialiasing अपि च Feather edges इति केवलेन अग्रिमविकल्पद्वयेन इदं युक्तम् अस्ति ।
20:54 अत्र, वृत्तस्य Radius इतीदं प्राप्नोमि । अपि च तत् अहम् अपचिनोमि ।
21:00 उदाहरणरूपेण भवते दर्शयितुम् अहं पर्णस्य इमम् अधोभागं चिनोमि ।
21:08 अपि च चित्रे selection इतीदं यत्र आरम्भणीयम् अस्ति तत्र अहं नुदामि । रेखाम् एकां रचयित्वा पर्णस्य सीमाम् अनुसरामि ।
21:33 अतः, इदानीम् अहम् इमं प्रदेशं चितवान् अस्मि ।
21:38 समीकर्तुम् अहं चित्रे उपसर्णं करोमि ।
21:43 अपि च मम चयनसंवादपेटिकायाम्, अहं Add to the current selection इतीदं चिनोमि । अपि च चितं व्यवस्थापयितुम् आरभे ।
22:10 विधिकल्पः, चयनं यतः आरब्धम् अस्ति तद्बिन्दुं प्रति बहु समीपतरमार्गम् अन्विषति ।
22:19 चयनं सुलभं कर्तुम् अहं Quick Mask इतीदम् उपयुञ्जे ।
22:26 अधः वामकोणे Toggle Quick Mask इति विकल्पः अस्ति । अहं तत् विभाषकं (toggle) करोमि अपि च इदानीं मम समग्रचित्रं रक्तमयम् इति भवान् द्रष्टुं शक्नोति ।
22:38 अयं किञ्चित् व्याकुलजनकः विकल्पः अस्ति । यतोहि यः प्रदेशः चितः अपि च यश्च न चितः अस्ति उभयम् अपि रक्तवर्णे दृश्यते ।
22:51 अतः, अहं विभाषकं प्रति गत्वा तस्य उपरि दक्षिणनोदनं करोमि । तच्च मह्यं Configure Colour and Opacity इतीदं ददाति । अत्र अहं वर्णं व्यवस्थापयितुं शक्नोमि । अतः, नीलं प्रति व्यवस्थापयामि ।
23:07 इदानीं चितप्रदेशः रक्ते अपि च अवशिष्टप्रदेशः नीले अस्ति ।
23:19 अपि च इदानीम्, अहं pen इतीदं चित्वा चितप्रदेशस्य रङ्गसेचनं कर्तुम् आरभे । ततः प्राक् foreground अपि च background इत्यनयोः वर्णं ’X’ इति कीलकेन परिवर्तयामि ।
23:38 अपि च इदानीम् अहं रङ्गसेचनम् आरभे ।
23:48 अपि च यदा सीमायाः उपरि रङ्गसेचनं करोमि, तदा अहं background colour इत्यनेन रङ्गसेचनं कर्तुं शक्नोमि ।
24:00 रङ्गसेचनं कर्तुं, मया उत्तमाकारयुक्तः कूर्चः चेतव्यः ।
24:23 अपि च यदा अहं वर्णिकाम् अविभाषकं (untoggle) करोमि तदा selection इत्यत्र दोषः, अत्र अपि च दोषः अस्ति इति भवान् द्रष्टुं शक्नोति ।
24:35 अतः, अहं विभाषकं चित्वा दोषान् समीकरोमि ।
24:44 समीकृताः ।
24:50 अतः, जटिलचयनं समीकर्तुं Quick Mask इत्ययं सुलभतरमार्गः अस्ति ।
24:59 Quick Mask selection इतीदं भवान् साधनत्वेन उपयोक्तुं शक्नोति ।
25:05 भवान् वर्णिकायाः opacity इतीदं परिवर्तयितुं शक्नोति । अपि च अचितप्रदेशाः भवते इदानीं न दृश्यन्ते ।
25:19 बहुषु सन्दर्भेषु 50% opacity इतीदम् उत्तमं प्रमाणं भवति ।
25:28 अचितप्रदेशेभ्यः भवदिच्छानुसारं वर्णं चेतुं शक्नोति ।
25:36 अत्र Mask Selected Areas इति अन्यविकल्पः अपि अस्ति ।
25:43 इदं Quick Mask इत्यस्य विरुद्धपरिणामयुक्तम् अस्ति ।
25:48 अतः इदानीम्, चितप्रदेशः नीलेन रङ्गसिक्तः अस्ति । अपि च अत्र सन्दर्भे अस्मिन् इदं सम्यक् दृश्यते ।
25:59 अपि च यदा Quick Mask इतीदम् अपचिनोति तदा भवतः चयनं भवान् द्रष्टुं शक्नोति ।
26:08 अतः इदानीम्, अत्र परिपूर्णचयनं कृतवान् अपि च अग्रे कार्यं कर्तुं तत् रक्षणीयम् अस्ति । तत् नाशयितुं न इच्छामि इति वयं व्यपदिशामः (pretend) ।
26:29 क्रमशः Select अपि च Save to Channel इत्यत्र गच्छतु । यतोहि चयनानि मूलतः वाहिन्यः सन्ति ।
26:45 इदम् अहं Mask1 इतिरूपेण रक्षामि अपि च इदं ’XCF’ इति सञ्चिकया संगृहीतं भवति ।
26:55 अतः इदानीम्, Shift + Ctrl + A इतीदं नुत्वा सर्वम् अहम् अपचयनं कर्तुं शक्नोमि ।
27:02 अन्यत् भागं चित्वा मम चयनं प्रति यदा गच्छामि, तदा अहं चयनं प्रति योजयितुम् अथवा चयनात् निष्कासयितुम् अथवा चयनं छेदितुम् अपि शक्नोमि । अत्र मम चयनं पुनः आगतम् अस्ति ।
27:23 अतः, तत् रक्षितुं नूनं Select अपि च Save to Channel इत्यत्र गच्छतु । पुनर्मिलामः ।
27:34 Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat