C-and-Cpp/C4/Understanding-Pointers/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:13, 28 April 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 “Pointers in C and C++” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे अस्माभिः एताः विषयाः ज्ञाताः भवेयुः,
00:08 पोइण्टर्स्
00:10 पोइण्टर्स् रचना,
00:12 अपि च पोइण्टर्स् इत्येतेषां विनियोगाः ।
00:14 एकेनोदाहरणेन सह वयमिदं कुर्मः ।
00:18 पाठस्यास्य ध्वन्यङ्कनायाहम्, उबण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य 11.10 तमा आवृत्तिः तथा gcc अपि च g++ कम्पैलर् इत्यस्य 4.6.1 तमा अवृत्तिः आभ्यामुपयोगं करोमि ।
00:31 पोइण्टर्स् इतीदं पीठिकया सह प्रारभामहे ।
00:34 पोइण्टर्स् इतीमानि मेमोरि मध्यस्थानि स्थानानि सूचयन्ति ।
00.38 पोइण्टर्स् इतीमानि मेमोरि अड्रेस् युतानि भवेयुः ।
00:41 तस्मिन् अड्रेस् मध्ये विद्यमानं मौल्यमपि दद्मः ।
00:45 अधुना पोइण्टर्स् इत्येतेषाम् एकमुदाहरणं पश्यामः ।
00:48 अस्माकं फ़ैल् नेम् वर्तते pointers_demo.c इति ।
00:54 अधुना कोड् पश्यामः ।
00:56 इदमस्माकं हेडर् फ़ैल् stdio.h वर्तते ।
01:00 इदमस्माकं main फ़ङ्क्षन् वर्तते ।
01:03 अत्र विद्यमानं लोङ्ग् इण्टीजर् टैप् इत्यस्य वेरियेबल् इत्यस्मै 10 इति मौल्यं दत्तमस्ति ।
01:09 पश्चाद्वयं पोइण्टर् टैप् इत्यस्य ptr(पि टि आर्) इति वेरियेबल् डिक्लेर् कृतवन्तः ।
01:12 पोइण्टर् इतीदं डिक्लेर् कर्तुं नक्षत्रचिह्नम् उपयुज्यते ।
01:16 इदं पोइण्टर् लोङ् इण्ट् टैप् इत्यस्य मेमोरि सूचितुम् अर्हति ।
01:20 printf स्टेट्मेण्ट् मध्ये & (एम्पर्सेण्ड्) चिह्नं, मेमोरि अड्रेस् प्राप्तुम् उपयुज्यते ।
01:28 अतः &num इतीदं num इत्यस्य मेमोरि अड्रेस् यच्छति ।
01:33 इदं स्टेट्मेण्ट्, वेरियेबल् num इत्यस्य अड्रेस् इतीदं प्रिण्ट् करोति ।
01:37 अत्र, ptr इतीदं num इत्यस्य अड्रेस् प्राप्तवदस्ति ।
01:41 इदं स्टेट्मेण्ट्, ptr इत्यस्य अड्रेस्स् मुद्रापयति ।
01:45 Sizeof इति फ़ङ्क्षन्, ptr इत्यस्य परिमाणं यच्छति ।
01:49 इदं ptr इत्यस्य मौल्यं यच्छति ।
01:51 इदं num इत्यस्य मेमोरि अड्रेस् वर्तते ।
01:54 अपि चात्र विद्यमानं आस्टेरिस्क् चिह्नं अपि च ptr, अड्रेस् इत्यस्य मौल्यं यच्छति ।
01:59 अतः, आस्टेरिस्क् चिह्नस्योपयोगेन मेमोरी अड्रेस् न लभ्यते ।
02:03 तत्स्थाने, तस्य मौल्यं यच्छति ।
02:06 %ld इतीदं लोङ्ग् इण्ट् इत्यस्य फ़ोर्मेट् स्पेसिफ़ैयर् वर्तते ।
02:10 अधुना, प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:13 भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
02:21 कम्पैल् कर्तुं, gcc space pointers_demo.c space hyphen o space point इति टङ्कयित्वा Enter कीलकं नुदन्तु ।
02:34 ./point (डोट् स्लेश् पोइण्ट्) इति टङ्कयित्वा, Enter नुदन्तु ।
02:39 औट्पुट् एवं दृश्यते ।
02:42 num इत्यस्य अड्रेस् अपि च ptr इत्यस्य मूल्यम् एकमेवास्तीति वयं दृष्टुं शक्नुमः ।
02:48 परन्तु num तथा ptr इत्यनयोः मेमोरि अड्रेस्स् भिद्यते ।
02:53 पोइण्टर् इत्यस्य परिमाणम् अष्ट बैट्स् वर्तते तथा ptr इत्यनेन दश इति मूल्यं सूचितम् । अपि चेदम् num इत्यस्मै असैन् कृतमासीत् ।
03:03 अधुना इदमेव प्रोग्राम् इतीदं C++ मध्ये पश्याम ।
03:07 अस्माकं फ़ैल् नेम् pointer_demo.cpp वर्तते इति स्मरन्तु ।
03:13 अत्र कानिचन परिवर्तनानि आवश्यकानि । हेडर् फ़ैल् iostream भवितव्यम् ।
03:19 पश्चात्, std namespace इतीदम् उपयुञ्ज्महे ।
03:23 अपि च printf इतीदं cout फ़ङ्क्षन् इति परिवर्तितवन्तः ।
03:28 अन्यानि कोड्स् पूर्ववदेव सन्ति ।
03:30 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
03:34 कम्पैल् कर्तुम्, g++ space pointers_demo.cpp space hyphen o space point1 इति टङ्कयित्वा , Enter नुदन्तु ।
03:50 ./point1 (डोट् स्लेश् पोइण्ट् वन्) इति टङ्कयित्वा, Enter नुदन्तु ।
03:55 इदम् औट्पुट् अस्माकं C कोड् इत्यस्य औट्पुट्-वदेव अस्ति ।
04:00 अनेन वयं पाठस्यान्तमागतवन्तः ।
04:03 अधुनास्माकं स्लैड् प्रति आगच्छन्तु ।
04:05 अधुना सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये वयम्,
04:08 पोइण्टर्,
04:10 तस्य रचना,
04:12 तस्य विनियोगविषयान् ज्ञातवन्तः ।
04:14 असैन्मेण्ट् रूपेण – एकं वेरियेबल् तथा पोइण्टर् डिक्लेर् करणम् , वेरियेबल् इत्यस्य अड्रेस्स् इतीदं पोइण्टर् मध्ये स्थापनम्, अपि च पोइण्टर् मौल्यस्य प्रिण्ट् करणम्, एतानि कार्याणि कर्तुं C तथा C++ मध्ये एकं प्रोग्राम् लिखन्तु ।
04:27 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
04:30 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
04:33 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
04:37 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
04:43 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
04:47 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
04:53 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
04:58 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
05:06 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
05:10 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
05:14 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14