C-and-Cpp/C4/Function-Call/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:09, 28 April 2020 by Sandhya.np14 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 “function call in C and C++” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं नाना प्रकारकाणा फ़ङ्क्षन् काल् विषयान् ज्ञास्यामः । तानि –
00:13 call by value तथा call by reference.
00:16 इतीमे सोदाहरणं कुर्मः ।
00:19 अस्य ट्युटोरियल् इत्यस्य रेकोर्ड् करणकाले, अहम् उबण्टु ओपरेटिङ्ग् सिस्टम् 11.10 तमा आवृत्तिः अपि च gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः अनयोरुपयोगं करोमि ।
00:31 फ़ङ्क्षन् काल् बै वेल्यू इतीदं पीठिकया सह प्रारभामहे ।
00:35 इदं फ़ङ्क्षन्स् इत्येतेभ्यः मौल्यप्रेषणाय एकं विधानमस्ति ।
00:40 वयमेकं वेरियेबल् इत्यस्य मूल्यं यदा प्रेषयामः तदा, इदं प्रेषणात् प्राक्, वेरियेबल् इत्यस्य प्रतिकृतिं करोति ।
00:48 फ़ङ्क्षन् इत्यस्यान्तः मौल्यस्य परिवर्तनानि फ़ङ्क्षन् मध्ये एव वर्तन्ते ।
00:54 इदं फ़ङ्क्षन् इत्यस्य बहिः परिणामं न करोति ।
00:58 अधुना call by value फ़ङ्क्षन् इत्यस्मै एकं प्रोग्राम् पश्याम ।
01:02 अहं पूर्वमेव प्रोग्राम् इतीदं एडिटर् मध्ये टैप् कृतवान् अस्मि । तदुद्घाटयामि ।
01:08 अस्माकं सञ्चिकानाम callbyval.c इति स्मर्यताम् ।
01:13 अस्मिन् प्रोग्राम् मध्ये एकस्याः सङ्ख्यायाः घनमूल्यं अन्विषामः । अधुना कोड् विवृणोमि ।
01:19 इदमस्माकं हेडर् फ़ैल् वर्तते ।
01:21 अत्र cube इति फ़ङ्क्षन् वर्तते अपि च तस्मै int x इति ओर्ग्यूमेण्ट् वर्तते ।
01:27 अस्मिन् फ़ङ्क्षन् मध्ये वयं x इत्यस्य घनमूल्यं गणयामः अपि च x इत्यस्य मूल्यं पुनः प्रेषयामः ।
01:33 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
01:36 वयमत्र n इत्यस्मै अष्ट-मौल्यानि दध्मः । n इतीदमेकम् इण्टीजर् वेरियेबल् वर्तते ।
01:43 पश्चाद्वयं cube फ़ङ्क्षन् इतीदं कोल् कुर्मः ।
01:45 अपि च n इत्यस्य मूल्यं तथा n इत्यस्य घनं च मुद्रापयामः ।
01:49 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
01:52 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
01:54 कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा, टर्मिनल् विण्डो उद्घाटयन्तु ।
02:02 कोड् कम्पैल् कर्तुं , gcc space callbyval dot c (callbyval.c) space hyphen o space val इति टङ्कयित्वा, Enter नुदन्तु ।
02:12 dot slash val इति टङ्कयित्वा Enter नुदन्तु ।
02:16 Cube of 8 is 512 इति औट्पुट् दृश्यते ।
02:23 वयमदुना, call by reference फ़ङ्क्षन् जानाम ।
02:26 अधुनास्माकं स्लैड् प्रति आगच्छन्तु ।
02:29 इदं, आर्ग्युमेण्ट् इतीदं फ़ङ्क्षन् इत्यस्मै प्रेषणाय अन्यं विधानमस्ति ।
02:33 अस्मिन् प्रकारे, आर्ग्युमेण्ट् इत्यस्य मोल्यस्य स्थाने एड्रेस् कोपि क्रियते ।
02:39 फ़ङ्क्षन् इत्यस्यान्तः आर्ग्युमेण्ट् इत्यस्मै जायमानपरिवर्तनानि बहिरपि परिणामं कुर्वन्ति ।
02:45 अस्माभिरत्र ओर्ग्यूमेण्ट्स् इतीमानि पोइण्टर् रूपेण डिक्लेर् कर्तव्यं भविष्यति ।
02:50 call by reference फ़ङ्क्षन् इत्यस्योदाहरणं पश्याम ।
02:54 अस्माकं सञ्चिकानाम callbyref.c इति स्मरन्तु ।
02:59 इदमस्माकं हेडर् फ़ैल् – stdio.h
03:03 पश्चात् swap (स्वेप्) फ़ङ्क्षन् वर्तते ।
03:06 इदं फ़ङ्क्षन्, वेरियेबल् इत्यस्य मूल्यस्य व्यतिकरं करोति ।
03:10 a इत्यस्य मूल्यं b मध्ये अपि च b इत्यस्य मूल्यं a मध्ये स्थाप्यते ।
03:15 अस्मिन् फ़ङ्क्षन् मध्ये, प्रेष्यमाणानि ओर्ग्युमेण्ट्स् पोइण्टर् टैप् वर्तते इति भवन्तः दृष्टुं शक्नुमः ।
03:21 वयमत्र इण्टीजर् वेरियेबल् t इतीदं डिक्लेर् कृतवन्तः ।
03:25 आदौ a इत्यस्य मूल्यं t मध्ये स्थाप्यते ।
03:28 पश्चात् b इत्यस्य मूल्यं a मध्ये स्थापयामः ।
03:32 अपि च, t इत्यस्य मूल्यं b मध्ये स्थापयामः ।
03:37 एवं, मूल्यम् व्यतिक्रियते ।
03:40 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
03:42 अत्र द्वे इण्टीजर् वेरियेबल्स् i तथा j डिक्लेर् कृतवन्तः ।
03:49 पश्चात् i तथा j अनयोः मौल्यं यूसर् तः प्राप्नुमः ।
03:53 एम्पर्सेण्ड् i एम्पर्सेण्ड् j इतीमे, i तथा j अनयोः मेमोरि अड्रेस्स् यच्छतः ।
03:59 व्यतिकरणात् प्राक् मूल्यं मुद्रापयामः ।
04:04 पश्चाद्वयं swap फ़ङ्क्षन् कोल् कुर्मः ।
04:06 अपि च व्यतिकरणादनन्तरं मूल्यं मुद्रापयामः ।
04:10 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
04:13 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
04:16 टर्मिनल् प्रति आगच्छन्तु ।
04:19 कम्पैल् कर्तुं, gcc space callbyref.c space hyphen o space ref इति टङ्कयित्वा Enter नुदामः ।
04:29 अधुना, ./ref ( डोट् स्लेश् रेफ़्) इति टङ्कयित्वा, Enter नुदामः ।
04:33 वयमधुना, Enter the values इति पश्यामः । अहम् 6 तथ 4 इति ददामि ।
04:40 औट्पुट् एवं दृश्यते । Before swapping 6 and 4.
04:44 After swapping 4 and 6
04:48 अधुना इदमेव प्रोग्राम् C++ मध्ये कथम् एक्सिक्यूट् कर्तुमर्हति इति जानाम ।
04:53 अहं कोड् प्राप्तवानस्मि । तत् पश्यामः ।
04:57 इदमस्माकं द्वितीयप्रोग्राम् इत्यस्य function call by reference.
05:01 स्मर्यतां यत्, अस्माकं सञ्चिकायाः नाम callbyref.cpp इति वर्तते ।
05:06 कोड् पश्याम ।
05:08 इदमस्माकं हेडर् फ़ैल् iostream वर्तते ।
05:12 वयमत्र std namespace उपयुञ्ज्महे ।
05:16 C++ मध्ये फ़ङ्क्षन् डिक्लरेशन् C वदेव वर्तते ।
05:19 अस्यार्थं वयं &x(एम्पर्सेण्ड् x) तथा &y(एमपर्सेण्ड् y) इति ओर्ग्युमेण्ट् प्रेषयन्तः स्मः ।
05:25 इदं x तथा y अनयोः मेमोरि अड्रेस् यच्छति ।
05:29 पश्चाद्वयं मौल्यानां व्यतिकरणं कुर्मः ।
05:32 शेषाणि कोड्स् C वदेव वर्तन्ते ।
05:36 printf स्टेट्मेण्ट् इतीदं cout इति अपि च scanf स्टेट्मेण्ट् cin इति च परिवर्तितम् ।
05:44 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
05:48 कम्पैल् कर्तुम्, g++ space callbyref.c space hyphen o space ref1 इति टङ्कयित्वा, Enter नुदन्तु ।
06:00 अधुना dot slash ref1 इति टङ्कयित्वा, Enter की नुदन्तु ।
06:05 अत्र एवं दृश्यते ।
06:07 Enter values of a and b
06:10 अहं 4 अपि च 3 इति ददामि ।
06:13 एवं औट्पुट् दृश्यते ।
06:15 Before swapping a and b: 4 and 3.
06:19 After swapping a and b: 3 and 4.
06:23 अत्र अस्माकं ट्युटोरियल् समाप्यते ।
06:26 अधुना अस्माकं स्लैड् प्रति गमिष्यामः ।
06:30 अधुना सारं पश्याम । अस्मिन् ट्युटोरियल् मध्ये वयमेतान् ज्ञातवन्तः  :
06:32 Function call by value ,
06:34 अपि च Function call by reference ।
06:37 कोल् बै वेल्यू उपयुज्य, सङ्ख्यायाः घनमूल्यम् अन्वेष्टुं एकं प्रोग्राम्, असैन्मेण्ट् रूपेण लिखन्तु ।
06:46 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
06:49 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
06:52 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
06:56 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
07:01 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
07:05 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:11 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:15 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
07:23 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
07:27 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
07:31 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14