C-and-Cpp/C3/String-Library-Functions/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:58, 25 April 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 “String library functions in C” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं स्ट्रिङ्ग् लैब्रेरि फ़ङ्क्षन्स् विषयान् ज्ञास्यामः ।
00:11 इदं वयं कैश्चन उदाहरणैः सह कुर्मः ।
00:15 पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Operating System इत्यस्य 11.10 तमा आवृत्तिः अपि च gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।
00:27 स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् इतीमानि पीठिकया सह प्रारभामहे ।
00:31 इदं, स्ट्रिङ्ग्स् इतीमान्युपयुज्य कार्यसाधनाय विद्यमानानां फ़ङ्क्षन्स् इत्येतेषां समूहः वर्तते ।
00:36 कानिचन सामन्यकार्याणि, नाम copying, concatenation, searching इत्यादीनि कर्तुं शक्नुमः ।
00:44 कानिचन स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् पश्याम ।
00:48 वयमत्र strncpy फ़ङ्क्षन् पश्याम ।
00:52 अस्य सिण्टेक्स् एवं वर्तते : strncpy char str1 char str2 अपि च int n
01:02 इदं str2 इत्यस्य पूर्वतन n अक्षराणि str1 इत्यस्मै कोपि करोति ।
01:09 तद्यथा, char strncpy char hello char world coma 2
01:16 अस्य औट्पुट् w o l l o वर्तते ।
01:21 अत्र, w o इतीदं string2 तः अपि च अन्यानि वर्णानि string1 तः वर्तते ।
01:29 वयमधुना, strncmp फ़ङ्क्षन् पश्याम । अस्य सिण्टेक्स् एवं वर्तते , strncmp, char str1, char str2 अपि च int n.
01:42 इदं, string2 इत्यस्य आदिमानि n केरेक्टर्स् इतीमानि string1 इत्यनेन सह तुलनां करोति ।
01:48 तद्यथा, int strncmp, char ice, char icecream अपि च 2
01:55 अस्य औट्पुट् 0 वर्तते ।
01:58 वयमधुना, इमानि लैब्ररि फ़ङ्क्षन्स् कथमुपयोक्तव्यानीति पश्याम ।
02:02 अहमधुना, कानिचन सामान्यानि स्ट्रिङ्ग् फ़ङ्क्षन्स् दर्शयिष्यामि ।
02:07 अहं प्रोग्राम् इतीदम् एडिटर् मध्ये टैप् कृतवानस्मि ।
02:10 तदुद्घाटयामि ।
02:12 अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यगणनाय फ़्ङ्क्षन् पश्याम ।
02:15 अस्माकं सञ्चिकायाः नाम strlen.c वर्तते इति स्मर्यताम् ।
02:20 अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यं वयं गणयाम ।
02:23 stdio.h अपि च string.h इमेऽस्माकं हेडर् फ़ैल्स् सन्ति ।
02:29 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
02:31 अत्र arr इत्येकं केरेक्टर् वेरियेबल् वर्तते ।
02:35 इदम् Ashwini इति मौल्यवदस्ति ।
02:38 len1 इत्येकं इण्टीजर् वेरियेबल् वर्तते ।
02:42 अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यं strlen इति फ़ङ्क्षन् तः प्राप्तुं शक्नुमः ।
02:48 अस्य फ़लितं len1 मध्ये वर्तते ।
02:52 पश्चाद्वयं स्ट्रिङ्ग् इतीदं तस्य दैर्घ्यञ्च प्रिण्ट् कुर्मः ।
02:56 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:59 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
03:01 भवतां कीबोर्ड् मध्ये, Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
03:09 कम्पैल् कर्तुं, gcc space strlen.c space hyphen o space str1 इति टङ्कयित्वा Enter नुदन्तु ।
03:19 ./str1 इति टङ्कयित्वा, Enter नुदन्तु ।
03:24 औट्पुट् एवं दृश्यते ।
03:26 string = Ashwini Length = 7
03:30 अत्र भवन्तः गणयितुं शक्नुवन्ति । एकं द्वे त्रीणि चत्वारि पञ्च षट् तथा सप्त च ।
03:37 अन्यदेकं स्ट्रिङ्ग् फ़ङ्क्षन् पश्याम ।
03:40 वयमत्र स्ट्रिङ्ग् इतीदं कोपि कर्तुं फ़ङ्क्षन् पश्याम ।
03:43 अस्माकं सञ्चिकानाम strcpy.c इति स्मर्यताम् ।
03:48 वयमत्र मूलं स्ट्रिङ्ग् इतीदं आवश्यकाय स्ट्रिङ्ग् इत्यस्मै कोपि कुर्मः ।
03:53 अत्र, सोर्स् स्ट्रिङ्ग् मध्ये ice इति वर्तते । इदं टोर्गेट् स्ट्रिङ्ग् इत्यस्मै कोपि जायते ।
03:59 इदमस्माकं strcpy फ़ङ्क्षन् वर्तते ।
04:02 वयमत्र सोर्स् स्ट्रिङ्ग् तथा टोर्गेट् स्ट्रिङ्ग् च प्रिण्ट् कुर्मः ।
04:07 इदम् एक्सिक्यूट् कुर्मः ।
04:09 टर्मिनल् प्रति गच्छन्तु ।
04:11 कम्पैल् कर्तुम्, gcc space strcpy.c space hyphen o space str2 इति टङ्कयित्वा, Enter नुदन्तु ।
04:20 ./str2 इति टङ्कयित्वा, Enter नुदन्तु ।
04:24 औट्पुट् एवं दृश्यते ।
04:26 source string = Ice
04:29 target string = Ice
04:32 अधुना पुनः स्ट्रिङ्ग् फ़ङ्क्षन् पश्याम ।
04:34 वयमधुना स्ट्रिङ्ग् इत्यस्मै समानं फ़ङ्क्षन् पश्याम ।
04:37 अस्माकं सञ्चिकानाम् strcmp.c इति स्मरन्तु ।
04:42 अत्र, वयं द्वे स्ट्रिङ्ग्स् तोलयामः ।
04:46 अत्र, str1 तथा str2 इति द्वे केरेक्टर् वेरियेबल्स् स्तः ।
04:52 str1 मध्ये ice इति मूल्यमस्ति । str2 मध्ये cream इत्यस्ति ।
04:58 अत्र, i तथा j इति इण्टीजर् वेरियेबल्स् स्तः ।
05:03 अत्र वयं, strcmp इति फ़ङ्क्षन् उपयुज्य, स्ट्रिङ्ग्स् तोलयामः ।
05:08 अत्र, str1 इतीदम् अर्थात् ice इतीदं cream इत्यनेन सह तोलयामः ।
05:14 अस्य फलितं i मध्ये स्थापयामः ।
05:16 अत्र, string2 अर्थात् cream इतीदं cream इत्यनेन सह तोलयामः ।
05:23 एतस्य फलितं j मध्ये स्थापयामः ।
05:25 पश्चाद्वयं द्वेऽपि फलिते प्रिण्ट् कुर्मः ।
05:28 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
05:31 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
05:33 अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
05:35 कम्पैल् कर्तुम्, gcc space strcmp.c space hyphen o space str3 इति टङ्कयन्तु ।
05:46 Enter नुदन्तु । ./ str3 इति टङ्कयन्तु ।
05:50 1,0 इति औट्पुट् दृश्यते ।
05:54 प्रोग्राम् प्रति आगच्छन्तु ।
05:56 अत्र 1 तथा 0 इति प्राप्नुमः ।
06:01 स्लैड् प्रति आगच्छामः ।
06:04 सारं पश्यामः ।
06:06 अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः एवं सन्ति : स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स्
06:09 strlen (एस् टि आर् एल् इ एन्)
06:11 strcpy (एस् टि आर् सि पि वै)
06:13 strcmp(एस् टि आर् सि एम् पि), strncpy (एस् टि आर् एन् सि पि वै)
06:16 अपि च strncmp (एस् टि आर् एन् सि एम् पि)
06:19 स्ट्रिङ्ग् best इतीदं स्ट्रिङ्ग् bus इत्यनेन सह संयोजितुं एकं C प्रोग्राम् असैन्मेण्ट् रूपेण लिखन्तु ।
06:25 सूचना: strcat char str1 char str2
06:32 अपि च स्ट्रिङ्ग् library इत्यस्य अन्यानि फङ्क्षन्स् उपयोक्तुं प्रयतताम् ।
06:36 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
06:39 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
06:42 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
06:46 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।


06:52 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
06:56 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:03 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:08 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
07:15 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
07:20 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
07:24 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14