Moodle-Learning-Management-System/C2/Plugins-in-Moodle/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Installing plugins in Moodle इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:07 | अस्मिन् ट्युटोरियल् मध्ये वयं प्लग्-इन्स् नाम किमिति अपि च मूडल् मध्ये प्लग्-इन् इन्स्टाल् करणञ्च ज्ञास्यामः । |
00:15 | पाठस्यास्य ध्वन्यङ्कनायाहम् :
Ubuntu Linux OS 16.04, |
00:23 | XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP, |
00:31 | Moodle 3.3 , |
00:33 | Firefox वेब् ब्रौसर् अपि च सक्रियान्तर्जालसम्पर्कम् उपयुक्तवानस्मि । |
00:40 | भवदभीष्टं वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः । |
00:44 | तथापि, Internet Explorer इत्यस्य विनियोगः मास्तु । तत् सम्यग् डिस्प्ले न करोति । |
00:52 | पाठस्यास्य अध्येतारः स्वेषां Moodle जालपुटे कानिचन कोर्सस् तथा यूसर्स् रचयेयुः । |
00:59 | न चेत्, अस्मिन् जालपुटे तत्सम्बद्धानि Moodle ट्युटोरियल्स् पश्यन्तु । |
01:06 | plugins नाम किम्?
Plugin इतीमानि सोफ़्ट्वेर् इत्यस्मै कांश्चन वैशिष्ट्यान् संयोजितुं एड्-ओन् टूल्स् वर्तन्ते । |
01:15 | मूडल् मध्ये, टीचर् तथा ‘सैट् एड्मिनिस्ट्रेटर्स्’ इत्यस्यार्थं नाना प्लग्-इन्स् सन्ति । |
01:22 | इमानि plugins डैरेक्टरि-मध्ये उपलभ्यमस्ति । |
01:26 | ब्रौसर् उद्घाट्य एवं टङ्कयन्तु : |
01:36 | अस्मिन् पृष्टे, Purpose तथा Plugin Type इतीमान्याधृत्य फ़िल्टर्स् सन्ति । |
01:41 | अत्र कस्टम्-सर्च् इत्यस्यार्थम् एकं search बोक्स् अप्यस्ति । |
01:46, | दक्षिणतः उपरि काश्चन सङ्ख्याः दृश्यन्ते । तेषाम् अधो विद्यमानानि टेक्स्ट्स् ताः काः इति विवरिष्यन्ति । |
01:53 | अस्मिन् ट्युटोरियल् मध्ये, अटेण्डेन्स् प्लग्-इन् इतीदम् इन्स्टाल् कर्तुं जानाम । |
01:59 | search बोक्स् मध्ये attendance इति टङ्कयित्वा, Search गण्डं नुदन्तु । |
02:05 | टैटल् अथवा विवरणे, कीवर्ड् इतीदं प्राप्तानि प्लग्-इन्स् अत्र वयं पश्यामः । |
02:13 | Attendance प्लग्-इन् नुदन्तु ।
विवरणे “A plugin that allows an attendance log to be kept” इत्यस्ति । |
02:22 | मयोक्तस्य प्लग्-इन् उपरि नोदनं परीक्षितुं नूतनपृष्टस्य टैटल् पश्यन्तु । |
02:30 | तस्य टैटल् Activities कोलन् Attendance इति स्यात् । |
02:36 | इदं प्लग् इन्, मूडल् मध्ये ‘अटेण्डेन्स् लोग्’ इतीदं स्थापयितुं अध्यापकाय अनुमतिं यच्छति । |
02:42 | नूतनं प्लग्-इन् इन्स्टाल् करणात् प्राक्, भवद्भिः उपयुज्यमानं मूडल् आवृत्तौ तल्लभ्यम्स्तीति दृढीकुर्वन्तु । |
02:50 | Versions लिङ्क् उपरि नुत्वा, तस्त समर्थनाय आवृत्तिं पश्यन्तु । |
02:56 | अस्माकं Moodle 3.3 आवृत्तौ तल्लभ्यमिति दृष्टुम् अधः स्क्रोल् कुर्वन्तु । |
03:03 | Description लिङ्क् प्रति आगच्छन्तु । |
03:06 | इदं प्लग् इन्, भवताम् उद्देश्यं पूरयति वा इति ज्ञातुं विवरणानि पठन्तु । |
03:12 | प्लग्-इन् इत्यस्योपयोगाय, आवश्यकताः सूचनाः च इदं वदति । |
03:20 | इदं नाना जालपुटेषु उपयुक्तमस्ति अपि च नाना अनुचरान् प्राप्तवदस्तीति दृष्टुं शक्नुमः । |
03:27 | प्ल्ग्-इन् प्रयोजनकारी तथा अतिसुलभमस्तीति इदं दृढीकरोति । |
03:33 | इतोऽपि अधः स्क्रोल् कृत्वा अस्य प्लग्-इन् विषये अन्यैः पृष्टान् प्रश्नान् अपि दृष्टुं शक्नुवन्ति भवन्तः । |
03:40 | प्लग्-इन् इत्यस्य इन्स्टाल् करणीयमिति भवद्भिः यदा ज्ञायते तदा, Versions लिङ्क् गच्छन्तु । |
03:46 | Download गण्डं नुदन्तु । |
03:49 | भवतां लोकल् सिस्टम् मध्ये सञ्चिकां रक्षन्तु । अहमिदं मम व्यवस्थायां रक्षितवानस्मि । |
03:55 | नूतनं टेब् उद्घाट्य भवतां Moodle जालपुटे site administrator इति लोग्इन् कुर्वन्तु । |
04:02 | XAMPP सर्वीस् रन् जायमानमस्तीति दृढीकुर्वन्तु । |
04:06 | वयमधुना ‘एड्मिन् डेश् बोर्ड्’ मध्ये स्मः । |
04:09 | वामभागे Site Administration नुदन्तु । |
04:13 | अधुना Plugins टेब् नुत्वा Install plugins लिङ्क् नुदन्तु । |
04:20 | प्लग्-इन् इन्स्टाल् कर्तुं, Moodle plugins directory द्वारा अपि च zip अप्लोड् द्वारा इति द्वे विधाने स्तः । |
04:29 | वयं द्वितीयं विधानं पश्यामः । |
04:33 | प्रथमविधानाय वयं moodle.org मध्ये अकौण्ट् प्राप्तवन्तः स्युः । वयमतः तत् त्यजामः । |
04:41 | Zip package इत्यस्य पार्श्वस्थं Choose a file गण्डं नुदन्तु । |
04:46 | वामभागस्थं Upload a file लिङ्क् न चितं चेत् तन्नुदन्तु । |
04:52 | Browse गण्डं नुदन्तु । भवद्भिः प्लग् इन् फ़ैल् रक्षितं स्थानं प्रति गच्छन्तु । |
04:59 | अस्माभिः पूर्वं डौन्लोड् कृतं ज़िप् फ़ैल् चिन्वन्तु । |
05:03 | पश्चात् गवाक्षस्याधः विद्यमानं Upload this file गण्डं नुदन्तु । |
05:08 | अधुना अधोविद्यमानं Install plugin from the ZIP file गण्डं नुदन्तु । |
05:14 | पृष्टेऽस्मिन् भवद्भिः एरर् प्राप्यते । |
05:18 | एरर् मेसेज्, Validating mod_attendance ... Error इति वदन्नस्ति । |
05:24 | Cancel लिङ्क् नुदन्तु । |
05:27 | इदमस्मभ्यं, डैरेक्टरि इत्यस्मै write permission दातव्यमिति सूचना वर्तते । |
05:33 | अतः Control + Alt + T कीलकानि नुत्वा टर्मिनल् उद्घाटयन्तु । |
05:39 | एवं टङ्कयन्तु : sudo space chmod space 777 space slash opt slash lampp slash htdocs slash moodle slash mod slash |
05:56 | पृष्टश्चेत्, ‘एड्मिनिस्ट्रेटिव् पास्वर्ड्’ दत्वा Enter नुदन्तु । |
06:02 | ब्रौसर् गच्छाम इमां क्रियाञ्च पुनः कुर्मः । |
06:09 | अधुना, वेलिडेशन् सुसम्पन्नम् इति सन्देशः प्राप्यते । Continue गण्डं नुदन्तु । |
06:17 | अवलोक्यताम्, उपर्युक्तम् एरर् प्राप्तश्चेत् इदमधिकं कार्यं भवति । |
06:25 | अधुना, प्लग् इन् डौन्लोड् भूत्वा मूडल् इत्यस्य आवृत्त्यै वेलिडेट् जायते । |
06:31 | पश्चादस्माभिः Plugins check इति नाम्नः पृष्टः प्राप्यते । |
06:36 | अत्र हरिद्वर्णस्य स्टेटस् विवरणम् अवलोक्यताम् । इदं To be installed इति वदति । |
06:43 | Upgrade Moodle database now गण्डं नुदन्तु । |
06:47 | इदमल्पकालं स्वीक्रियते । कृपया ब्रौसर् विण्डो इत्यस्य रिफ़्रेश् करणम् अथवा क्लोस् करणं मास्तु । |
06:53 | success सन्देशे दृष्टे सति, Continue गण्डं नुदन्तु । |
06:58 | वयमधुना New settings पेज् मध्ये स्मः । |
07:02 | यत्किमपि परिवर्तनीयञ्चेत्, सर्वाणि सेट्टिङ्ग्स् एकवारं पश्यन्तु । मया किमपि परिवर्तनीयं नास्ति । |
07:10 | पश्चात् पृष्टस्याधः विद्यमानं Save Changes गण्डं नुदन्तु । |
07:16 | केचन अवधेयसन्देशाः दृश्यन्ते । सद्यः तान् उपेक्षताम् । |
07:21 | प्लग् इन् सफलतया इन्स्टाल् जातं वेति परीक्षितुं, वामतः पेनल् मध्ये Site Administration नुदन्तु । |
07:29 | Plugins टेब् नुत्वा Plugins overview नुदन्तु । |
07:36 | इदं, उत्सर्गतया इन्स्टाल् जातानाम् अपि च |
07:40 | भवद्भिः इन्स्टाल् कृतानां सर्वेषां प्लग्-इन्स् आवलिं दर्शयति । |
07:46 | मम जालपुटे, इमानि प्लग्-इन्स् इन्स्टाल् जातानीति दर्शयति । |
07:51 | इन्स्टाल् जातानाम् अधिकानि प्लग्-इन्स् दृष्टुं, टेबल् इत्यस्य उपरितन Additional plugins लिङ्क् नुदन्तु । |
07:59 | अत्र Settings तथा अस्मात् पृष्टात् प्लग्-इन्स् uninstall कर्तुं लिङ्क्स् सन्ति । |
08:05 | अधुना टीचर्स् तथा एड्मिनिस्ट्रेटर्स् च स्वेषां प्रणालिभ्यः अटेण्डेन्स् रचयितुं शक्नुमः । |
08:11 | वामतः पेनल् मध्ये Site administration इतीदं पुनः नुदन्तु । |
08:16 | पश्चात् Courses तथा Manage Courses and categories च नुदन्तु । |
08:21 | वामपार्श्वे Course category मध्ये, 1st year Maths नुदन्तु । |
08:26 | दक्षिणतः Calculus कोर्स् नुदन्तु । |
08:30 | अधस्तात् Calculus कोर्स् इत्यस्य विवरणविभागं प्रति स्क्रोल् कुर्वन्तु । Calculus कोर्स् दृष्टुं , View टेब् नुदन्तु । |
08:40 | उपरि दक्षिणतः gear ऐकान् नुत्वा Turn editing on नुदन्तु । |
08:47 | टोपिक्स् इत्यस्यादौ अधः दक्षिणतः विद्यमानं Add an activity or resource इत्यस्योपरि नुदन्तु । |
08:54 | अटेण्डेन्स् रचयितुम्, Attendance activity इत्यस्योपरि डबल्-क्लिक् कुर्वन्तु । |
09:00 | name तथा description च अत्र यथा दर्शितं तथा यच्छन्तु । |
09:04 | Grade विभागं विस्तारयन्तु । |
09:07 | अटेण्डेन्स् इत्यस्यार्थम् उपयुज्यमानं ग्रेडिङ्ग् विधानं ड्रोप्-डौन् निश्चिनोति । |
09:12 | कोर्स् ग्रेड् इत्यस्यार्थम्, अटेण्डेन्स् परिगण्यमानं चेत्, गरिष्ठमूल्यं सेट् कुर्वन्तु । औत्सर्गिकं 100 वर्तते । |
09:21 | अहं Grade इतीदं None इति चिनोमि । |
09:24 | शिष्टविकल्पाः औत्सर्गिकाः भवन्तु । |
09:27 | अधः स्क्रोल् कृत्वा Save and display गण्डं नुदन्तु । |
09:31 | वयमधुना नूतनपृष्टे स्मः । |
09:34 | अत्र Status set टेब् नुदन्तु । |
09:38 | अटेण्डेन्स् इत्यस्यार्थं Present , Late , Excused अपि च Absent इति चत्वारि डीफ़ोल्ट् स्टेटस् सन्ति । |
09:47 | भवतः आवश्यकताम् अनुसृत्य, भवन्तः इमानि डिलीट् कर्तुं वा अधिकानि संयोजितुं वा शक्नुवन्ति । |
09:53 | स्टेटस् इतीमानि अन्यनाम्ना आह्वातव्यं चेत्, तान्यत्र परिवर्तयितुं शक्यते । |
09:59 | Excused स्टेटस् इतीदं डिलीट् करोमि । यतो हि अहं तत् मम कक्षायां नोपयुनज्मि । |
10:07 | दृढीकरणसन्देशस्य मञ्जूषा दृश्यते ।
Continue गण्डं नुदन्तु । |
10:13 | अधुना Add session टेब् नुदन्तु । |
10:16 | भवद्भिः संयुज्यमानस्य प्रथमस्य सेशन् इत्यस्य दिनाङ्कं चिन्वन्तु । अहमिदं 4 June 2019 इति स्थापयामि । |
10:24 | सेशन् इत्यस्य आदिमम् अन्तिमञ्च समयं चिन्वन्तु । |
10:27 | अवलोक्यताम् : टैम् फ़ील्ड् इतीदं, 24-घण्टानां घटीं प्राप्तवदस्ति ।
अतः 3:15 pm तः 4:05pm पर्यन्तानां कक्षा 15:15 तः 16:05 पर्यन्तं वर्तते । |
10:43 | अवधिमधिकृत्य Description टङ्कयन्तु । |
10:46 | इदं Description फ़ील्ड् रिक्तं त्यज्यते चेत्, उत्सर्गतया इदं “Regular class session” भवति । |
10:54 | Multiple sessions विभागस्य विस्तारणाय तस्योपरि नुदन्तु । |
10:59 | भवतः कक्षा नियतं प्रचलति चेत्, भवन्तः एककाले एव नाना सेशन्स् रचयितुं शक्नुवन्ति । |
11:06 | Repeat the session above as follows चेक्-बोक्स् नुदन्तु । |
11:11 | भवतां कक्षा सप्ताहे निर्दिष्टेषु दिवसेषु प्रचलति चेत् तद्दिनं चिन्वन्तु ।
अहम् मम कक्षायै Monday इतीदं चिनोमि । |
11:20 | अग्रिमविकल्पः Repeat every ड्रोप् डौन् वर्तते ।
कक्षा प्रतिवासरं वर्तते चेत् 1 इतीदं चिन्वन्तु । |
11:28 | कक्षा, प्रथमं सेशन् समाप्त्यनन्तरं सप्ताहद्वयस्यानन्तरं प्रचलति चेत् 2 चिन्वन्तु । एवमेव... |
11:35 | अहमिदं 1 इति स्थापयामि । |
11:38 | अस्यार्थः, मम कक्षा प्रतिसोमवासरं 3:15 pm तः, 50 पर्यन्तं प्रचलति । |
11:45 | Repeat until इदं अन्तिमसेशन् इत्यस्य दिनाङ्कः वर्तते । |
11:49 | अहमिदं 30th March 2020 इति यच्छामि । |
11:54 | पश्चात्, Student recording विभागविस्तारणाय तदुपरि नुदन्तु । |
12:00 | छात्राः स्वोपस्थितिं स्वतः यच्छेत् इति यदि इच्छन्ति तर्हि, अस्मिन् विभागे फ़ील्ड्स् भरन्तु । |
12:07 | अहमिदं विभागं परित्यजामि । |
12:09 | अधः स्क्रोल् कृत्वा पृष्टस्याधः विद्यमानं Add गण्डं नुदन्तु । |
12:15 | 43 sessions were successfully generated. इति दृढीकरणसन्देशः दृश्यते । |
12:22 | अस्माभिः चितदिनाङ्कान् त्यक्त्वा भवन्तः अन्यविकल्पान् चितवन्तश्चेत्, सेशन्स् इत्येतेषां सङ्ख्या अत्र पृथक् वर्तते । |
12:28 | प्रत्येकस्य सेशन् इत्यस्य पुरस्तात् विद्यमानानि ऐकान्स् पश्यन्तु । |
12:32 | टीचर्, इमानि उपयुज्य उपस्थिति-स्वीकरणं तथा सेशन् इत्यस्य एडिट् डिलीट् च कर्तुं शक्यते । |
12:39 | भवन्तः यस्मिन् वासरे अटेण्डेन्स् स्वीकर्तुं-मिच्छन्ति, Take attendance ऐकान् नुदन्तु । |
12:46 | कोर्स् इत्यस्मै संयोजितानां सर्वेषां छात्राणाम् आवलिं भवन्तः दृष्टुं शक्नुवन्ति । भवन्तः तेषाम् उपस्थितिं चिह्नितं कर्तुमपि शक्नुवन्ति । |
12:53 | P, L अपि च A इतीमानि, सेट्टिङ्ग्स् मध्ये अस्माभिः चितमेव स्टेटस् सन्ति । |
12:59 | सर्वेषाम् उपयोतॄणां स्टेटस् इतीदं 'Present' इति सेट् कर्तुं, 'P' इत्यस्याधः रेडियो गण्डं नुदन्तु । केवलम् अनुपस्थितछात्रेभ्यः 'A' इति टिक् कुर्वन्तु । |
13:10 | भवन्तः अटेण्डेन्स् टिक् कृत्वा पृष्टस्याधस्तात् विद्यमानां Save attendance गण्डं नुदन्तु । |
13:18 | अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण , |
13:24 | पाठेऽस्मिन् वयं प्लग्-इन्स् तथा प्लग्-इन् इत्यस्य इन्स्टाल्-करणञ्च ज्ञातवन्तः । |
13:32 | अत्र भवद्भ्यः एकम् असैन्मेण्ट् वर्तते । |
13:35 | Projectes TAC Dept इत्यनेन चालयमानं plugin Font family इतीदम् अन्विषन्तु । |
13:42 | प्लग्-इन् इत्यस्य डीफ़ोल्ट् सेट्टिङ्ग्स् इत्येतैः सह इन्स्टाल् कुर्वन्तु । |
13:46 | प्लग्-इन् इन्स्टाल् जातं वा इति Plugins overview दृढीकुर्वन्तु । |
13:52 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् । |
14:00 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
14:10 | अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु । |
14:14 | स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु । |
14:27 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
धन्यवादाः । |