GIMP/C2/Adjusting-Colours-Using-Layers/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:22 | Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf Steinort महाभागः एतं पाठं Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् । |
00:29 | पूर्वतन-आवृत्यां सम्पादनोत्तरम् अहम् एतत् चित्रम् अत्र प्राप्तवान् । |
00:33 | दिने च अस्मिन् अहं वर्णान् व्यवस्थापयितुं चिन्तयन् अस्मि । |
00:39 | यतोहि चित्रमिदम् अतीव हरितम् अस्ति । |
00:41 | अत्र वर्णं समायोजयितुंबहूनि विधानानि सन्ति, Curves इति साधनं तेषु अन्यतमम् अस्ति । |
00:47 | अहं tool box इत्यत्र विद्यमानं Curves इति साधनं नुदामि । अनन्तरम् अहं Green Channel इति चिनोमि । पुनश्च curve इतीदम् अधः कर्षयामि । |
00:55 | इदानीं भवन्तः,चित्रे विद्यमाने colour channels अपि च fog इतीमे यथार्थं fog इव दृश्येते । |
01:02 | इदानीम् अहं, तथा curve व्यवस्थापयामि येन सम्पाद्यमानं चित्रं धूसरवर्णे (Gray) भवति न तु हरितवर्णे अथवा पाटलवर्णे (Pink)। |
01:13 | अहं Curves इति साधनस्य उपयोगं नैव कर्तुम् इच्छामि । यतोहि, एतेन चित्रस्थानि विवरणानि नश्येरन्, तथा च नष्टे चित्रे पुनस्समीकरणं कष्टाय। |
01:23 | यद्यपि अहं Undo इति साधन म्उपयोक्तुं शक्नोमि तथापि अनन्तरं सर्वेऽपि स्तराःपुनःकरणीयाः भवेयुः। |
01:28 | अतः, अहं तादृशं साधनम् इच्छामि यत् चित्रं न नाशयति अपि च अहम् अग्रे समीकर्तुमपि शक्नोमि । |
01:34 | तत्र कश्चनसरलः मार्गः अस्तियस्मिन् layers इत्यनेन समं filter इत्यस्यउपयोगः भवति । |
01:39 | अतः, अहम् अत्र layer इति संवादपेटिकाम् उद्घाटितवान् । |
01:43 | भवन्तः अत्र पृष्ठदेशं पश्यन्ति यच्च अस्माकं यथार्थं चित्रम् अस्ति । |
01:47 | अपि च अहं नूतनं layer योजयित्वा Layer Fill Typeमध्ये White इति चिनोमि । अपि च color correction green इति नाम ददामि । |
01:59 | इदानीं चित्रमिदं सम्पूर्णं श्वेतम् अस्ति । किन्तु, अहं तस्य layer mode परिवर्तनं कर्तुं शक्नोमि । |
02:05 | 'layer mode' इति कश्चनविधिकल्पः (algorithm) अस्ति, यच्च मूलं Background layer अपि च नूतनं layer इतीमे उभयेऽपि योजयति । |
02:16 | अतः, अहम् अत्र Multiply mode इतीदं चिनोमि । |
02:22 | अपि च भवन्तः मूलं चित्रं यथावत् प्राप्नुवन्ति । |
02:27 | Multiply mode इतीदं background अपि च foreground इत्यनयोः चित्रकणान् (pixels) परस्परं गुणयित्वा फलितं 255 तः भागं करोति । |
02:37 | अपि च श्वेत चित्रे सर्वाः वर्ण वाहिन्यः (color channels) 255सङ्ख्यया निर्दिश्यन्ते । अतः, 255सङ्ख्यया गुणनं तदनु तस्याः एव भाजनं च आरम्भिकबिन्दुमेव ददाति । सैव पृष्ठदेशः अस्ति । |
02:52 | किन्तु, यदि अहं new layer मध्ये एकां वाहिनीं न्यूनं करोमि, तर्हि तत् पृष्ठदेशेऽपि न्यूनं भवति । यतः 200 सङ्ख्यया गुणयित्वा255 सङ्ख्यया यदि भाजयामः तर्हि फलितं न्यूनमेव भवति । |
03:06 | इदानीम् अहं न्यूनीभूतया हरितवाहिन्या (green channel) सहितं वर्णं चेतुमिच्छामि । |
03:12 | अत्र मत्सविधे पुरोदेशे कृष्णवर्णः अस्ति यं च अहं पृष्ठदेशवर्णत्वेन अपि च श्वेतवर्णं पुरोदेशवर्णत्वेन परिवर्तयामि । अत्र भवन्तः द्रष्टुं शक्नुवन्ति यत् सर्वाः रक्त-हरित-नीलवर्णवाहिन्यः 255इति समानमूल्यवत्यःइति । |
03:31 | कथञ्चित्, अत्र अवसर्पिण्यां (slider) वर्णैः विचलिताः मा भवन्तु । |
03:36 | एषः नीलवर्णः न, अपि तु पीतः । किन्तु, यदा अहम् अवसर्पिणीं निर्दिष्टे बिन्दौ अवनयामि तदा भवन्तः सर्वासु अवसर्पिणीषु वर्णाः स्वयमेव परिवर्त्यन्ते इति पश्यन्ति । |
03:50 | अस्तु, अहम् अत्र हरित-अवसर्पिणीं चित्वा तां च 211 समीपं कर्षयामि । |
03:59 | यं वर्णं पृष्ठदेशार्थं प्राप्तवान् तम् अहं मम चित्रे कर्षयामि । अहं फलितं यत् प्राप्नोमि तत् पाटलवर्णमिव अस्ति । |
04:10 | किन्तु, अहं opacity slider इत्यस्य साहाय्येनहरितवर्णस्य सान्द्रतां समीकर्तुं शक्नोमि । |
04:19 | यदा अहं शून्यं प्रति गच्छामि, तदा पूरातनं चित्रं प्राप्नोमि । अपि च यदा अहम् अवसर्पिणीम् उपरि कर्षयामितदा चित्रे हरितवाहिनीं न्यूनीकर्तुं शक्नोमि । अपि च चित्रे पाटलवर्णस्य प्राप्तिं निवारयामि । |
04:35 | द्रष्टुमिदं सुन्दरम् अस्ति इति चिन्तयामि । |
04:38 | अहंLayers इति साधनम् उपयुज्य कदाचिदपि परिवर्तयितुं शक्नोमि । अपि चयदा बहूनि Layers इतीमानि अनेन निबद्धानि भवन्ति तदा सुष्ठु समीकर्तुं शक्नोमि । अपि च यद्यपि अहंunderlying चित्रं परिवर्तयामि तथापि परिवर्तनानि तथैव तिष्ठन्ति । |
04:55 | अस्मिन् layer मध्ये इतोऽपि परिवर्तनीयानि कर्तव्यानि । यतोहि इदानीम् एतत् धूसरवर्णे दृश्यमानम् अस्ति । अपि च किञ्चित् नीलवर्णं योजयितुम् इच्छामि । |
05:03 | पुनरहं पूर्वतनप्रक्रियामेव अनुसृत्य नूतनं layerरचयामि । अपि च तत्color correction blue इति कथयामि । |
05:11 | अपि च इदानीम् अहं किञ्चित् नीलवर्णं योजयितुम् इच्छामि । |
05:15 | चित्रे नीलवर्णं योजयितुम् अहं Screen Mode उपयुञ्जे । यच्च Multiply mode अपेक्षया किञ्चित् जटिलम् अस्ति । |
05:24 | Screen mode इत्यस्मिन्,वर्णाः प्रथमं विपरीताः अनन्तरं गुणिताः,भाजिताः जटिलाः च भवन्ति । |
05:33 | अहं पुरोदेशस्यवर्णं कृष्णेन परिवर्त्य इच्छानुसारं वर्णं साक्षात्योजयितुम् इच्छामि ।अधुना अहं किञ्चित् नीलवर्णं योजयामि । |
05:43 | अतः, किञ्चित् नील-अवसर्पिणीम् अधः कर्षयन्तु। |
05:47 | अपि च चित्रे वर्णं कर्षयन्तु । |
05:51 | अत्र इदं यथार्थतया नीलवर्णीयं,परंकृष्णवर्णीयम् इव अस्ति । किन्तु, अयम् अत्यन्तं गाढः नीलवर्णः । |
05:59 | अत्र विद्यमानं चित्रं पश्यन्तु अपि च यदा अहम् इदं पिदधामि तदा भवन्तः परिवर्तनं पश्यन्ति । |
06:04 | चित्रमिदंनिश्चयेन नीलवर्णीयम् अस्ति । |
06:08 | अहम् उभे अपि नूतने layers इतीमे पिदधातुं शक्नोमि । तेन आरम्भिकं स्थानं प्राप्यते । |
06:13 | यदा अहं first layer इत्यस्योपरि नुदामि तदा वयं न्यूनीभूतां हरितवाहिनीं पश्यामः । अपि चयदा अहं 2ndlayer इत्यस्योपरि नुदामि तदा किञ्चित् नीलवर्णः युज्यते । |
06:22 | अहं चिन्तयामि यत् इदं बहु नीलवर्णीयम् अस्ति । अतः अहं opacity इतीदं न्यूनं करोमि । |
06:27 | इदंसम्यक् दृश्यते इति मे भाति। |
06:30 | अहम् अग्रेकदाचिदपि इदं व्यवस्थापयितुं शक्नोमि । |
06:33 | Layers इति साधनंबहुसामर्थ्ययुतम् अस्ति । यतोहि भवन्तः एकस्योपरि एकम् इति बहूनि layersरचयितुं शक्नुवन्ति । अपि च प्रत्येकं layer इत्यस्मिन् भवान् चित्रकणान् (pixels) परिवर्तयितुं शक्नोति, ये च अधोभागात् layer इत्यस्मात् उपरि आगच्छन्ति । |
06:44 | दोषपरिहारस्य शक्यताःअसीमाः, अपि च भवान् यदा इच्छति तदा कर्तुं शक्नोति । |
06:51 | कदाचित् अत्र भवान्,opacity slider इतीदं किञ्चित् अधः कर्षयित्वा उत्तमं वर्णं प्राप्तुं शक्नोति । अत्र sliders इतीमानि अस्मभ्यम् अनायासेन वर्णं परिवर्तयितुम् अनुकूलं कल्पयन्ति। |
07:05 | अहं चिन्तयामि यत् अहं Layers इत्यस्य साधनस्य विषये विस्तारयितुं नूतनं पाठं स्वीकरणीयं भवेत् परम्, अद्य अलमति विस्तरेण। |
07:13 | Spoken Tutorial परियोजनायाम् अस्याम् अनुवादकः वासुदेवः । प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् पुनर्मिलामः धन्यवादाः । |