C-and-Cpp/C2/If-And-Else-If-statement/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:02 | सि अपि च सि प्लस् प्लस् मध्ये कंडीशनल् स्टेट्मेंट् इति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्। |
00:08 | अस्मिन् पाठे वयं, |
00:11 | एकः निर्देशः (statement) कथं एक्सिक्यूट् कर्तव्यः, अपि च |
00:14 | निर्देशसमूहः कथं एक्सिक्यूट् कर्तव्यः इति, |
00:16 | सोदाहरणं ज्ञास्यामः। अपि च, |
00:19 | कतिचन सामान्यदोषान् तेषां परिहारान् च वयं पश्यामः। |
00:25 | अस्मिन् पाठे वयम् उबंटु आपरेटिंग् सिस्टम् 11.10 अपि च gcc अपि च g++ कम्पैलर् इत्यस्य 4.6.1 इति आवृत्तिं उपयुञ्जामहे। |
00:38 | निर्देशान् (Statement) प्रास्ताविकेन आरभामहे। |
00:43 | निर्देशः प्रोग्राम् इत्यस्य एक्सिक्यूट्-प्रकारं नियन्त्रयति। |
00:49 | अयं, किम् कोड् एक्सिक्यूट् भवेत् इति निर्धारयितुं साहाय्यं करोति। |
00:55 | वयं, निर्बन्धाः (कंडिषन्) समीचीनाः उत दोषयुताः इति निर्धारयितुं शक्नुमः। |
01:00 | वयं, एकं निर्देशं अथवा निर्देशसमूहं एक्सिक्यूट् कर्तुं शक्नुमः। |
01:07 | अधुना if इति निर्देशस्य गतिं (flow) ज्ञास्यामः। |
01:13 | अत्र, निर्बन्धः सम्यक् अस्ति चेत् statement1 एक्सिक्यूट् भवति, |
01:20 | निर्बन्धः दोषयुतः चेत् statement2 एक्सिक्यूट् भवति। |
01:29 | अधुना, else if इति निर्देशस्य गतिं ज्ञास्यामः। |
01:32 | अत्र, condition1 सम्यक् अस्ति चेत् statement 1 एक्सिक्यूट् भवति, |
01:41 | condition1 दोषयुतम् अस्ति चेत् अपरं कंडिशन् condition2 इतीदं परिशीलयति, |
01:49 | condition2 सम्यक् अस्ति चेत्, statement3 एक्सिक्यूट् भवति, |
01:54 | अपि च condition2 दुष्टु अस्ति चेत् statement 2 एक्सिक्यूट् भवति। |
02:02 | अधुना, अस्माकं प्रोग्राम् पश्यामः। |
02:06 | अहमधुना एव एडिटर् मध्ये प्रोग्राम् टङ्कितवान् अस्मि। |
02:09 | अतः तत् उद्घाटयामः। |
02:13 | अस्माकं सञ्चिकायाः नाम ifstmt.c इति अस्ति। |
02:18 | अस्मिन् प्रोग्राम् मध्ये सङ्ख्याद्वयस्य संहतिं (sum) प्राप्य, कतिचन कंडिशन् परिशीलयामः। |
02:26 | अधुना, कोड् विवृणोमि। |
02:30 | एषा अस्माकं हेडर् सञ्चिका। |
02:34 | एतत् अस्माकं मैन् फंक्षन्। |
02:38 | अत्र वयं त्रीणि इंटीजर् वेरियेबल् अर्थात्, a, b अपि च sum इतीमानि डिक्लेर् कृतवन्तः। |
02:46 | अत्र, वयं यूसर् तः निवेश्यं (input) पृच्छामः। |
02:49 | a अपि च b इत्यनयोः मौल्यम् उपयोक्ता ददाति। |
02:52 | मौल्यानि वेरियेबल् a अपि च वेरियेबल् b इत्यत्र स्थापितं भवति। |
02:58 | scanf इति फंक्षन्, दत्तांशं कन्सोल् तः प्राप्नोति, |
03:02 | अनन्तरं, प्रदत्ते वेरियेबल् मध्ये स्थापयति। |
03:06 | scanf मध्यस्थं फार्मैट् स्पेसिफैयर्, दत्तांशस्य प्रकारं ज्ञातुं साहाय्यं करोति। |
03:10 | अत्रत्यं पर्सेंट् डि, वयम् इंटिजर् दत्तांशप्रकारम् उपयुञ्जानाः स्मः इति सूचयति। |
03:18 | अत्र a अपि च b इत्यनयोः मैल्यं योजयामः। |
03:22 | संहतिं सम् इत्यत्र स्थापयामः। |
03:25 | अनन्तरं फलितांशं मुद्रयामः। |
03:29 | एषः अस्माकम् if निर्देशः। अत्र, संहतिः विंशतितः बृहती वा इति निर्बन्धः परिशीलयति। |
03:36 | निर्बन्धः यदि सम्यक् अस्ति तर्हि, “Sum is greater than twenty” इति मुद्रापयामः। |
03:42 | अधुना, एताः पङ्क्तीः कमेंट् रूपेण परिवर्तयामः। |
03:48 | एषः अस्माकं रिटर्न्-निर्देशः। |
03:51 | अधुना, save नुदन्तु। |
03:53 | प्राथम्येन, if निर्देशस्य एक्सिक्यूशन् पश्यामः। |
03:58 | भवतां कीलफलके, Ctrl, Alt अपि च T कीलानि एकधा एव नुत्वा, टर्मिनल् विंडो उद्घाटयन्तु। |
04:09 | कम्पैल् कर्तुं, “gcc” स्पेस् ifstmt डाट् c स्पेस् हैफन् (-) ओ (O) स्पेस् if इति टङ्कयित्वा Enter नुदन्तु। |
04:20 | एस्किक्यूट् कर्तुं डाट् स्लाश् इफ् इति टङ्कयित्वा Enter नुदन्तु। |
04:26 | Enter the value of a and b इति दर्शयति। |
04:31 | दश अपि च द्वादश इति मौल्यं ददामि। |
04:38 | Sum of a and b is twenty-two. Sum is greater than twenty इति फलितं दर्शयति। |
04:45 | अधुना, अस्माकं प्रोग्राम् प्रति गच्छामः। |
04:48 | अपरं निर्बन्धं परिशीलयामः। |
04:52 | इतः कमेंट् निष्कासयामि। |
04:56 | अत्र कमेंट् करोमि। |
05:00 | अधुना, save नुदन्तु। |
05:03 | एषः अस्माकं else if निर्देशः। |
05:05 | अत्र वयं, संहतिः दशतः बृहती वा इति अपरं निर्बन्धं परिशीलयामः। |
05:11 | निर्बन्धः यदि सम्यक् अस्ति तर्हि Sum is greater than twenty इति मुद्रयामः। |
05:18 | अधुना अस्माकं टर्मिनल् प्रति गच्छामः। |
05:20 | पूर्ववत् कम्पैल् कुर्मः। |
05:23 | पूर्ववत् एक्सिक्यूट् कुर्मः। |
05:26 | Enter the value of a and b इति प्रदर्शयति। |
05:30 | दश अपि च द्वे इति मौल्यं ददामि। |
05:35 | Sum of a and b is twelve. Sum is greater than ten and less than twenty इति फलितं दर्शयति। |
05:42 | प्राम्प्ट् स्वच्छं करोमि। |
05:44 | अधुना, अस्माकं प्रोग्राम् प्रति गच्छामः। |
05:48 | इतः अपि च इतः कमेंट् निष्कासयामि। अधुना Save नुदन्तु। |
05:56 | उपरितनौ उभावपि निर्बन्धौ दोषयुतौ चेत् sum is greater than ten इति मुद्रितं भवति। |
06:04 | एषः अस्माकं else निर्देशः। |
06:07 | अधुना, एक्सिक्यूट् कृत्वा पश्यामः। अस्माकं टर्मिनल् प्रति गच्छामः। |
06:11 | पूर्ववत् कम्पैल् कुर्वन्तु, पूर्ववत् एक्सिक्यूट् कुर्वन्तु। |
06:18 | Enter the value of a and b इति दर्शयति। |
06:22 | त्रीणि अपि च पञ्च इति मौल्यं ददामि। |
06:27 | Sum of a and b is eight. Sum is less than ten इति फलितं दर्शयति। |
06:34 | अधुना वयं कतिचन सामान्यदोषान् पश्यामः। |
06:38 | अस्माकं प्रोग्राम् प्रति गच्छामः। |
06:41 | अत्र, if निर्देशस्य अन्ते सेमिकोलन् टङ्कयामि इति चिन्तयन्तु। |
06:47 | अधुना किं भवति इति पश्यामः। Save नुदन्तु। |
06:50 | एक्सिक्यूट् कुर्मः। अस्माकं टर्मिनल् प्रति गच्छामः। |
06:53 | पूर्ववत् कम्पैल् कुर्मः। |
06:56 | else without a previous if इति दोषः दृश्यते। |
07:02 | अस्माकं प्रोग्राम् प्रति गच्छामः। एषः सिंटाक्स्-दोषः। |
07:07 | if इति निर्देशः कदाचिदपि सेमिकोलन्-तः न समाप्यते। |
07:10 | अपि च, else if निर्देशः, if निर्देशेन विना कार्यं न करोति। |
07:16 | अधुना, दोषं परिहरामः। अत्र सेमिकोलोन इतीदं नाशयामः। |
07:22 | अधुना Save नुदन्तु। |
07:25 | एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः। |
07:29 | पूर्ववत् कंपैल् कुर्वन्तु। पूर्ववत् एक्सिक्यूट् कुर्वन्तु। |
07:35 | Enter the value of a and b. |
07:37 | त्रीणि अपि च षड् इति मौल्यं ददामि। |
07:43 | Sum of a and b is nine. Sum is less than ten इति फलितं दृश्यते। |
07:52 | अधुना, इदमेव प्रोग्राम् c++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्यामः। |
07:57 | अस्माकं प्रोग्राम् प्रति गच्छामः। |
07:59 | अत्र कतिचन अंशान् परिवर्तयामि। |
08:03 | Shift, Ctrl अपि च S कीलानि कीलफलके एकधा एव नुदन्तु। |
08:11 | अधुना सञ्चिकां डाट् cpp इति एक्स्टेन्शन् इत्यनेन समं रक्षन्तु। Save नुदन्तु। |
08:20 | हेडर् सञ्चिकां iostream इति परिवर्तयामः। |
08:26 | using इति निर्देशम् अत्र योजयामः। |
08:30 | अधुना search for and replace text इति विकल्पं नुदन्तु। |
08:35 | print f निर्देशं c out निर्देशेन स्थानान्तरन्तु। |
08:40 | replace all इति नुत्वा save नुदन्तु। |
08:46 | अधुना अत्रत्यानि क्लोसिंग् ब्रैकेट् निष्कासयन्तु। |
08:49 | scan f निर्देशं c in निर्देशेन स्थानान्तरन्तु। |
08:54 | c++ मध्ये पङ्क्तिं पठितुं c in इति नियोज्यस्य (function) उपयोगं कुर्मः इत्यतः, c in अपि च क्लोसिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु। |
09:05 | अधुना, फार्मैट् स्पेसिफैयर् इतीदं नाशयन्तु। |
09:09 | ”,”(comma) अपि च आम्पर्सैंड् नाशयन्तु। |
09:12 | अत्र ”,”(comma) इतीदं नाशयन्तु अपि च क्लोसिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु। |
09:17 | पुनः आम्पर्सैंड् अपि च क्लोसिंग् ब्रैकेट् नाशयन्तु। अधुना save नुदन्तु। |
09:25 | अत्र क्लोसिंग् ब्रैकेट् अपि च ”,”(comma) इतीमानि नाशयन्तु। |
09:31 | अधुना back slash n अपि च फार्मैट् स्पेसिफैयर् इतीमानि नाशयन्तु। |
09:37 | अधुना, ओपनिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु। |
09:42 | पुनः, ओपनिंग् आंगल् ब्रैकेट्-द्वयं अपि च डबल् कोट् मध्ये back slash n इति टङ्कयन्तु। |
09:49 | अत्रापि, क्लोसिंग् ब्रैकेट् नाशयन्तु। |
09:53 | अधुना पुनः अत्र अपि च अत्र क्लोसिंग् ब्रैकेट् नाशयन्तु। |
09:59 | अधुना Save नुदन्तु। |
10:02 | एक्सिक्यूट् कुर्मः। |
10:04 | टर्मिनल् प्रति गच्छामः। प्राम्प्ट् इतीदं स्वच्छं करोमि। |
10:10 | कम्पैल् कर्तुं g++ स्पेस् ifstmt डाट् cpp स्पेस् हैफन् ओ स्पेस् if1 इति टङ्कयन्तु। |
10:20 | ifstmt डाट् c इत्यस्य if इति फलितमापकः अधिलिखितं (over-write) मा भूत् इति धिया अत्र if1 इति नाम अस्ति। |
10:31 | अधुना Enter नुदन्तु। एक्सिक्यूट् कर्तुं dot slash if1 इति टङ्कयित्वा Enter नुदन्तु। |
10:39 | Enter the value of a and b. अहं विंशतिः अपि च दश इति मौल्यं ददामि। |
10:48 | Sum of a and b is thirty. Sum is greater than twenty इति फलितं दर्शयति। |
10:56 | अत्र असौ पाठः समाप्यते। |
10:59 | अस्माकम् अवसर्पिणीं प्रति गच्छन्तु। |
11:02 | सारांशम् अवगच्छामः। |
11:04 | अस्मिन् पाठे अस्माभिः अवगताः अंशाः – if निर्देशः, उदाहरणार्थम् – if निर्बन्धः, |
11:11 | अपि च else if निर्देशः, उदाहरणार्थम् – else if निर्बन्धः। |
11:17 | a इति b इत्यस्मात् बृहत् उत लघु इति परिशीलयितुं किञ्चन प्रोग्राम् नियतकार्यरूपेण लिखन्तु। |
11:24 | सङ्केतः – if निर्देशम् उपयुज्यन्ताम्। |
11:28 | a, b अथवा c इत्येतेषु किम् बृहत्तमम्मिति परिशीलयितुं किञ्चन प्रोग्राम् लिखन्तु। |
11:34 | सङ्केतः – else if निर्देशमुपयुज्यन्ताम्। |
11:38 | स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु। |
11:44 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
11:48 | स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। |
11:54 | ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति। |
11:57 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
12:04 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
12:09 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति। |
12:15 | अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु। |
12:20 | अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः। |