C-and-Cpp/C2/If-And-Else-If-statement/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 सि अपि च सि प्लस् प्लस् मध्ये कंडीशनल् स्टेट्मेंट् इति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:08 अस्मिन् पाठे वयं,
00:11 एकः निर्देशः (statement) कथं एक्सिक्यूट् कर्तव्यः, अपि च
00:14 निर्देशसमूहः कथं एक्सिक्यूट् कर्तव्यः इति,
00:16 सोदाहरणं ज्ञास्यामः। अपि च,
00:19 कतिचन सामान्यदोषान् तेषां परिहारान् च वयं पश्यामः।
00:25 अस्मिन् पाठे वयम् उबंटु आपरेटिंग् सिस्टम् 11.10 अपि च gcc अपि च g++ कम्पैलर् इत्यस्य 4.6.1 इति आवृत्तिं उपयुञ्जामहे।
00:38 निर्देशान् (Statement) प्रास्ताविकेन आरभामहे।
00:43 निर्देशः प्रोग्राम् इत्यस्य एक्सिक्यूट्-प्रकारं नियन्त्रयति।
00:49 अयं, किम् कोड् एक्सिक्यूट् भवेत् इति निर्धारयितुं साहाय्यं करोति।
00:55 वयं, निर्बन्धाः (कंडिषन्) समीचीनाः उत दोषयुताः इति निर्धारयितुं शक्नुमः।
01:00 वयं, एकं निर्देशं अथवा निर्देशसमूहं एक्सिक्यूट् कर्तुं शक्नुमः।
01:07 अधुना if इति निर्देशस्य गतिं (flow) ज्ञास्यामः।
01:13 अत्र, निर्बन्धः सम्यक् अस्ति चेत् statement1 एक्सिक्यूट् भवति,
01:20 निर्बन्धः दोषयुतः चेत् statement2 एक्सिक्यूट् भवति।
01:29 अधुना, else if इति निर्देशस्य गतिं ज्ञास्यामः।
01:32 अत्र, condition1 सम्यक् अस्ति चेत् statement 1 एक्सिक्यूट् भवति,
01:41 condition1 दोषयुतम् अस्ति चेत् अपरं कंडिशन् condition2 इतीदं परिशीलयति,
01:49 condition2 सम्यक् अस्ति चेत्, statement3 एक्सिक्यूट् भवति,
01:54 अपि च condition2 दुष्टु अस्ति चेत् statement 2 एक्सिक्यूट् भवति।
02:02 अधुना, अस्माकं प्रोग्राम् पश्यामः।
02:06 अहमधुना एव एडिटर् मध्ये प्रोग्राम् टङ्कितवान् अस्मि।
02:09 अतः तत् उद्घाटयामः।
02:13 अस्माकं सञ्चिकायाः नाम ifstmt.c इति अस्ति।
02:18 अस्मिन् प्रोग्राम् मध्ये सङ्ख्याद्वयस्य संहतिं (sum) प्राप्य, कतिचन कंडिशन् परिशीलयामः।
02:26 अधुना, कोड् विवृणोमि।
02:30 एषा अस्माकं हेडर् सञ्चिका।
02:34 एतत् अस्माकं मैन् फंक्षन्।
02:38 अत्र वयं त्रीणि इंटीजर् वेरियेबल् अर्थात्, a, b अपि च sum इतीमानि डिक्लेर् कृतवन्तः।
02:46 अत्र, वयं यूसर् तः निवेश्यं (input) पृच्छामः।
02:49 a अपि च b इत्यनयोः मौल्यम् उपयोक्ता ददाति।
02:52 मौल्यानि वेरियेबल् a अपि च वेरियेबल् b इत्यत्र स्थापितं भवति।
02:58 scanf इति फंक्षन्, दत्तांशं कन्सोल् तः प्राप्नोति,
03:02 अनन्तरं, प्रदत्ते वेरियेबल् मध्ये स्थापयति।
03:06 scanf मध्यस्थं फार्मैट् स्पेसिफैयर्, दत्तांशस्य प्रकारं ज्ञातुं साहाय्यं करोति।
03:10 अत्रत्यं पर्सेंट् डि, वयम् इंटिजर् दत्तांशप्रकारम् उपयुञ्जानाः स्मः इति सूचयति।
03:18 अत्र a अपि च b इत्यनयोः मैल्यं योजयामः।
03:22 संहतिं सम् इत्यत्र स्थापयामः।
03:25 अनन्तरं फलितांशं मुद्रयामः।
03:29 एषः अस्माकम् if निर्देशः। अत्र, संहतिः विंशतितः बृहती वा इति निर्बन्धः परिशीलयति।
03:36 निर्बन्धः यदि सम्यक् अस्ति तर्हि, “Sum is greater than twenty” इति मुद्रापयामः।
03:42 अधुना, एताः पङ्क्तीः कमेंट् रूपेण परिवर्तयामः।
03:48 एषः अस्माकं रिटर्न्-निर्देशः।
03:51 अधुना, save नुदन्तु।
03:53 प्राथम्येन, if निर्देशस्य एक्सिक्यूशन् पश्यामः।
03:58 भवतां कीलफलके, Ctrl, Alt अपि च T कीलानि एकधा एव नुत्वा, टर्मिनल् विंडो उद्घाटयन्तु।
04:09 कम्पैल् कर्तुं, “gcc” स्पेस् ifstmt डाट् c स्पेस् हैफन् (-) ओ (O) स्पेस् if इति टङ्कयित्वा Enter नुदन्तु।
04:20 एस्किक्यूट् कर्तुं डाट् स्लाश् इफ् इति टङ्कयित्वा Enter नुदन्तु।
04:26 Enter the value of a and b इति दर्शयति।
04:31 दश अपि च द्वादश इति मौल्यं ददामि।
04:38 Sum of a and b is twenty-two. Sum is greater than twenty इति फलितं दर्शयति।
04:45 अधुना, अस्माकं प्रोग्राम् प्रति गच्छामः।
04:48 अपरं निर्बन्धं परिशीलयामः।
04:52 इतः कमेंट् निष्कासयामि।
04:56 अत्र कमेंट् करोमि।
05:00 अधुना, save नुदन्तु।
05:03 एषः अस्माकं else if निर्देशः।
05:05 अत्र वयं, संहतिः दशतः बृहती वा इति अपरं निर्बन्धं परिशीलयामः।
05:11 निर्बन्धः यदि सम्यक् अस्ति तर्हि Sum is greater than twenty इति मुद्रयामः।
05:18 अधुना अस्माकं टर्मिनल् प्रति गच्छामः।
05:20 पूर्ववत् कम्पैल् कुर्मः।
05:23 पूर्ववत् एक्सिक्यूट् कुर्मः।
05:26 Enter the value of a and b इति प्रदर्शयति।
05:30 दश अपि च द्वे इति मौल्यं ददामि।
05:35 Sum of a and b is twelve. Sum is greater than ten and less than twenty इति फलितं दर्शयति।
05:42 प्राम्प्ट् स्वच्छं करोमि।
05:44 अधुना, अस्माकं प्रोग्राम् प्रति गच्छामः।
05:48 इतः अपि च इतः कमेंट् निष्कासयामि। अधुना Save नुदन्तु।
05:56 उपरितनौ उभावपि निर्बन्धौ दोषयुतौ चेत् sum is greater than ten इति मुद्रितं भवति।
06:04 एषः अस्माकं else निर्देशः।
06:07 अधुना, एक्सिक्यूट् कृत्वा पश्यामः। अस्माकं टर्मिनल् प्रति गच्छामः।
06:11 पूर्ववत् कम्पैल् कुर्वन्तु, पूर्ववत् एक्सिक्यूट् कुर्वन्तु।
06:18 Enter the value of a and b इति दर्शयति।
06:22 त्रीणि अपि च पञ्च इति मौल्यं ददामि।
06:27 Sum of a and b is eight. Sum is less than ten इति फलितं दर्शयति।
06:34 अधुना वयं कतिचन सामान्यदोषान् पश्यामः।
06:38 अस्माकं प्रोग्राम् प्रति गच्छामः।
06:41 अत्र, if निर्देशस्य अन्ते सेमिकोलन् टङ्कयामि इति चिन्तयन्तु।
06:47 अधुना किं भवति इति पश्यामः। Save नुदन्तु।
06:50 एक्सिक्यूट् कुर्मः। अस्माकं टर्मिनल् प्रति गच्छामः।
06:53 पूर्ववत् कम्पैल् कुर्मः।
06:56 else without a previous if इति दोषः दृश्यते।
07:02 अस्माकं प्रोग्राम् प्रति गच्छामः। एषः सिंटाक्स्-दोषः।
07:07 if इति निर्देशः कदाचिदपि सेमिकोलन्-तः न समाप्यते।
07:10 अपि च, else if निर्देशः, if निर्देशेन विना कार्यं न करोति।
07:16 अधुना, दोषं परिहरामः। अत्र सेमिकोलोन इतीदं नाशयामः।
07:22 अधुना Save नुदन्तु।
07:25 एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
07:29 पूर्ववत् कंपैल् कुर्वन्तु। पूर्ववत् एक्सिक्यूट् कुर्वन्तु।
07:35 Enter the value of a and b.
07:37 त्रीणि अपि च षड् इति मौल्यं ददामि।
07:43 Sum of a and b is nine. Sum is less than ten इति फलितं दृश्यते।
07:52 अधुना, इदमेव प्रोग्राम् c++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्यामः।
07:57 अस्माकं प्रोग्राम् प्रति गच्छामः।
07:59 अत्र कतिचन अंशान् परिवर्तयामि।
08:03 Shift, Ctrl अपि च S कीलानि कीलफलके एकधा एव नुदन्तु।
08:11 अधुना सञ्चिकां डाट् cpp इति एक्स्टेन्शन् इत्यनेन समं रक्षन्तु। Save नुदन्तु।
08:20 हेडर् सञ्चिकां iostream इति परिवर्तयामः।
08:26 using इति निर्देशम् अत्र योजयामः।
08:30 अधुना search for and replace text इति विकल्पं नुदन्तु।
08:35 print f निर्देशं c out निर्देशेन स्थानान्तरन्तु।
08:40 replace all इति नुत्वा save नुदन्तु।
08:46 अधुना अत्रत्यानि क्लोसिंग् ब्रैकेट् निष्कासयन्तु।
08:49 scan f निर्देशं c in निर्देशेन स्थानान्तरन्तु।
08:54 c++ मध्ये पङ्क्तिं पठितुं c in इति नियोज्यस्य (function) उपयोगं कुर्मः इत्यतः, c in अपि च क्लोसिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु।
09:05 अधुना, फार्मैट् स्पेसिफैयर् इतीदं नाशयन्तु।
09:09 ”,”(comma) अपि च आम्पर्सैंड् नाशयन्तु।
09:12 अत्र ”,”(comma) इतीदं नाशयन्तु अपि च क्लोसिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु।
09:17 पुनः आम्पर्सैंड् अपि च क्लोसिंग् ब्रैकेट् नाशयन्तु। अधुना save नुदन्तु।
09:25 अत्र क्लोसिंग् ब्रैकेट् अपि च ”,”(comma) इतीमानि नाशयन्तु।
09:31 अधुना back slash n अपि च फार्मैट् स्पेसिफैयर् इतीमानि नाशयन्तु।
09:37 अधुना, ओपनिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु।
09:42 पुनः, ओपनिंग् आंगल् ब्रैकेट्-द्वयं अपि च डबल् कोट् मध्ये back slash n इति टङ्कयन्तु।
09:49 अत्रापि, क्लोसिंग् ब्रैकेट् नाशयन्तु।
09:53 अधुना पुनः अत्र अपि च अत्र क्लोसिंग् ब्रैकेट् नाशयन्तु।
09:59 अधुना Save नुदन्तु।
10:02 एक्सिक्यूट् कुर्मः।
10:04 टर्मिनल् प्रति गच्छामः। प्राम्प्ट् इतीदं स्वच्छं करोमि।
10:10 कम्पैल् कर्तुं g++ स्पेस् ifstmt डाट् cpp स्पेस् हैफन् ओ स्पेस् if1 इति टङ्कयन्तु।
10:20 ifstmt डाट् c इत्यस्य if इति फलितमापकः अधिलिखितं (over-write) मा भूत् इति धिया अत्र if1 इति नाम अस्ति।
10:31 अधुना Enter नुदन्तु। एक्सिक्यूट् कर्तुं dot slash if1 इति टङ्कयित्वा Enter नुदन्तु।
10:39 Enter the value of a and b. अहं विंशतिः अपि च दश इति मौल्यं ददामि।
10:48 Sum of a and b is thirty. Sum is greater than twenty इति फलितं दर्शयति।
10:56 अत्र असौ पाठः समाप्यते।
10:59 अस्माकम् अवसर्पिणीं प्रति गच्छन्तु।
11:02 सारांशम् अवगच्छामः।
11:04 अस्मिन् पाठे अस्माभिः अवगताः अंशाः – if निर्देशः, उदाहरणार्थम् – if निर्बन्धः,
11:11 अपि च else if निर्देशः, उदाहरणार्थम् – else if निर्बन्धः।
11:17 a इति b इत्यस्मात् बृहत् उत लघु इति परिशीलयितुं किञ्चन प्रोग्राम् नियतकार्यरूपेण लिखन्तु।
11:24 सङ्केतः – if निर्देशम् उपयुज्यन्ताम्।
11:28 a, b अथवा c इत्येतेषु किम् बृहत्तमम्मिति परिशीलयितुं किञ्चन प्रोग्राम् लिखन्तु।
11:34 सङ्केतः – else if निर्देशमुपयुज्यन्ताम्।
11:38 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु।
11:44 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
11:48 स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति।
11:54 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
11:57 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
12:04 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
12:09 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
12:15 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
12:20 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal