LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Sanskrit
From Script | Spoken-Tutorial
Revision as of 12:48, 4 August 2020 by NaveenBhat (Talk | contribs)
| Time | Narration |
| 00:01 | LibreOffice Draw इत्यत्र Common Editing and Printing Functions इत्याख्ये अनुशिक्षणे भवतां स्वागतम् । |
| 00:08 | अस्मिन् अनुशिक्षणे, भवन्तः : |
| 00:10 | * 'Draw' पत्रे मार्जिन सेट् करणम् |
| 00:13 | * पत्रसङ्ख्या, दिनाङ्कः तथा समयान् योजयितुम् |
| 00:16 | * कार्याणां 'Undo' तथा 'Redo' करणम् |
| 00:18 | * 'page' (पुटस्य) rename-करणं तथा |
| 00:20 | * पत्रस्य मुद्रणं पठिष्यन्ति । |
| 00:22 | अत्र वयम् : उबण्टु लिनक्स् OS इत्यस्य 10.04 तमाम् आवृत्तिं तथा LibreOffice Suite इत्येतस्य 3.3.4 तमाम् आवृत्तिम् उपयुञ्ज्महे । |
| 00:33 | WaterCycle सञ्चिकाम् उद्घाटयामः तथा WaterCycle रेखाचित्रान्तर्गतस्य पत्रस्य चयनं कुर्मः । |
| 00:40 | एतस्य चित्रस्य वयं Page Margins सेट् कुर्मः । |
| 00:44 | Page Margins इत्येते किमर्थम् आवश्यकाः भवन्ति? |
| 00:46 | Page Margins इत्येते पत्रे आब्जेक्ट्स्स्थापयितुम् अपेक्षितस्थलस्य निश्चयं कुर्वन्ति । |
| 00:53 | उदाहरणार्थम्, अस्माभिः चित्रस्य मुद्रणं कृत्वा सञ्चिका कर्तव्या स्यात् । |
| 00:57 | पत्रस्य पार्श्वेषु पर्याप्तरूपेण स्थलं वर्तते इति मार्जिन् निर्णयं करोति । |
| 01:01 | एतेन वयं एतस्य मुद्रणं यदा कुर्मः तदा, चित्रस्य एकस्य भागस्य छेदनं वा अदृष्टत्वं वा न भवति । |
| 01:07 | वयं Page Margins सेट् कुर्मः तथा अनन्तरं WaterCycle चित्रस्य मुद्रणं कुर्मः । |
| 01:11 | एतत् चित्रं मुद्रयितुं अस्माभिः उपयुज्यमानस्य कागदस्य गात्रं स्ट्याण्डर्ड् गात्रं नास्ति इति भावयामः । |
| 01:18 | एतत् 20 cms विस्तृतं तथा 20 cms दैर्घ्येण युक्तं वर्तते । |
| 01:23 | एतस्य कृते 1.5 cms 'Bottom' मार्जिन् इत्यस्य आवश्यकता अस्ति । |
| 01:29 | एतानि परिमाणानि सेट् कर्तुम् , Main विकल्पसूचीतः, Format चित्वा तथा Page इत्येतं क्लिक् कुर्वन्तु । |
| 01:35 | Page Setup इति डैलाग्-बाक्स् दृश्यते । |
| 01:38 | Page इति ट्याब् चिन्वन्तु । |
| 01:41 | Width फील्ड् मध्ये मूल्यं “20” तथा Height फील्ड् मध्ये “20” इति प्रयच्छन्तु । |
| 01:47 | Margins इत्यस्य अधः, Bottom इति फील्ड् मध्ये 1.5 इति निवेशयन्तु । |
| 01:54 | दक्षिणभागे, भवन्तः Draw page इत्यस्य preview पश्यन्ति । |
| 01:58 | अस्मिन् प्रीव्यू ‘ड्रा पेज्’ मध्ये कृतपरिवर्तनानि दर्शयन्ति । |
| 02:02 | OK' इति क्लिक् कुर्वन्तु । |
| 02;04 | चित्रं कथं दृश्यते ? |
| 02:06 | एतत् पत्रात् बहिः प्रसरितम् वा ! |
| 02:08 | एतस्य अर्थः कः इत्युक्ते मुद्रणानन्तरं चित्रस्य कश्चन भागः अदृश्यः भवति । |
| 02:14 | भवन्तः एतान् अधः स्थितान् दृढं कर्वन्तु । |
| 02:15 | * चित्राणि सर्वदा मार्जिन् अन्तः भवन्ति । |
| 02:18 | * भवन्तः चित्रस्य रचनात्परं, चित्रस्य कश्चिदपि भागः मार्जिन्-तः बहिः न गच्छति । |
| 02:23 | अतः, भवन्तः चित्रस्य रचनात्पूर्वं पत्रस्य मार्जिन् - इत्येतेषां सेट् करणम् उत्तमः अभ्यासः । |
| 02:29 | Main विकल्पसूचीतः पुनः Format इत्याख्यस्य चयनं कृत्वा तथा Page इत्यस्मिन् क्लिक् कुर्वन्तु । |
| 02:35 | 'Page Setup' डैलाग्-बाक्स् परिदृश्यते । |
| 02:38 | 'Page' ट्याब् उपरि नुदन्तु । |
| 02:40 | 'Format' ड्राप्-डौन् पट्टिकां क्लिक् कृत्वा तथा 'A4' इत्येतत् चिन्वन्तु । |
| 02:45 | एतत् अस्माभिः सेट्-कृतं मूल-मार्जिन् वर्तते । |
| 02:48 | 'OK' क्लिक् कुर्वन्तु । |
| 02:52 | चित्रम् अधुना मार्जिन् अन्तः स्थापितं वर्तते । |
| 02:55 | 'Page setup' इति डैलाग्-बाक्स् 'Draw page' तः भवन्तः अपि प्रवेष्टुं शक्नुवन्ति। |
| 03:00 | तत्, पत्रस्य उपरि रैट्-क्लिक् नुत्त्वा ‘कान्टेक्स्ट् मेनु’ इत्येतस्य उपयोगेन साध्यं भवति । |
| 03:05 | 'Cancel' इत्येतत् नुदामः तथा डैलाग्-बाक्स् तः बहिः आगच्छामः । |
| 03:09 | अधुना, वयं पत्रसङ्ख्या दिनाङ्कः, समयः तथा लेखकस्य नामानि योजयामः । |
| 03:15 | 'WaterCycle' रेखाचित्रान्तर्गतं पत्रं चिनुमः तथा पत्रसङ्ख्यां योजयामः । |
| 03:21 | 'Main' मेनु प्रति तथा 'Insert' इत्येतं चित्वा, 'Fields' इत्याख्यं नुदन्तु । |
| 03:27 | फील्ड् पट्टिका (list) उद्घाटिता भवति । |
| 03:31 | 'Draw' तः स्वयम् उत्पन्नानि मूल्यानि (values) अस्मिन् फील्ड् मध्ये भवन्ति । |
| 03:35 | अस्माभिः केवलम् किञ्चन फील्ड् तथा 'Draw' तः उत्पादितं मूल्यं योजनीयम् । |
| 03:41 | 'Page number' क्लिक् कुर्वन्तु । |
| 03:43 | 'Draw page' इत्यस्य उपरि, सङ्ख्या '1' इत्यन्तर्गतं किञ्चन टेक्स्ट्-बाक्स् योजितं भवति । |
| 03:48 | वयम् एतस्य टेक्स्ट्-बाक्स् गात्रं सम्यक् कुर्मः तथा एतं किञ्चित् लघु कुर्मः । |
| 03:55 | अधुना, बाक्स् कर्षामः तथा एतत् पत्रस्य अधस्थनदक्षिणकोणे स्थापयामः । |
| 04:01 | नम्बर् बाक्स् सरलरूपेण अपसारयितुं, नम्बर् बाक्स् चित्वा 'Shift' key नुदन्तु । |
| 04:07 | अधुना, वयम् एतम् इतोऽपि अधः चालयामः । |
| 04:11 | एतत् 'Draw' सञ्चिकायाः द्वितीयपृष्ठे, अग्रिमा सङ्ख्या योजिता वा इति परिशीलयामः । |
| 04:17 | अत्र पृष्ठसङ्ख्या नास्ति ! |
| 04:20 | अस्माभिः फील्ड् यत्र योजितं तस्मिन् पृष्ठे एव पृष्ठसङ्ख्या योजिता वर्तते ! |
| 04:26 | अधुना वयं पृष्ठसङ्ख्यायाः फारम्याट् कथं परिवर्तनीयम् इति पठामः । |
| 04:30 | 'Main' विकल्पसूचिका तः , 'Format' नुदन्तु तथा 'Page' इति चिन्वन्तु । |
| 04:36 | 'Page Setup' इति डैलाग्-बाक्स् दृश्यते । |
| 04:39 | 'Page' इति ट्याब् नुदन्तु । |
| 04:41 | 'Layout settings' अधः , 'Format' इत्यस्य चयनं कुर्वन्तु । |
| 04:45 | ड्राप्-डोन् पट्टिकातः, 'a, b, c' चिन्वन्तु । |
| 04:49 | 'OK' क्लिक् कुर्वन्तु । |
| 04:52 | पृष्ठसङ्ख्या 1, 2, 3 तः a, b, c इति परिवर्तिता । |
| 04:58 | एवमेव, भवन्तः एतत् किञ्चन अपि फार्म्याट् प्रति परिवर्तयितुं शक्नुवन्ति । |
| 05:01 | अधुना वयं 'Date' तथा 'Time' फील्ड्स् योजयितुं पठामः । |
| 05:05 | भवतां 'Draw' पृष्ठस्य उपरि 'Date' तथा 'Time' स्टाम्प् इत्येते अपि योजयितुं शक्यन्ते । |
| 05:10 | एतं भवन्तः 'Insert ' तथा 'Fields' उपरि नोदनद्वारा साधयितुम् अर्हन्ति । |
| 05:14 | प्रथमं तावत् , 'Date(fixed)' तथा 'Time(fixed)' |
| 05:18 | अपरश्च, 'Date(variable)' तथा 'Time(variable)' |
| 05:23 | 'Date(fixed)' तथा 'Time(fixed)' विकल्पाः इदानीन्तनं दिनाङ्कं तथा समयं योजयन्ति । |
| 05:29 | एतस्य दिनाङ्कस्य तथा समयस्य मौल्यानाम् अप्-डेट् न भवति । |
| 05:33 | अन्यस्मिन् स्थले 'Date (variable)' तथा 'Time (variable)' विकल्पाः |
| 05:37 | भवद्भिः सञ्चिका यदा उद्घाट्यते तदा स्वयम् अप्-डेट् भवन्ति । |
| 05:42 | वयम् अत्र 'Time (variable)' योजयामः । |
| 05:46 | अधुना, वयं बाक्स् आकृष्य अधः दक्षिणे कोणे पृष्ठसङ्ख्यायाः उपरि स्थापयामः । |
| 05:56 | प्रतिवारं भवतां 'Draw' पत्रस्य उद्घाटनात्परं , योजनस्य समयः, तत्कालीनसमयः भूत्वा अप्-डेट् भविष्यति । |
| 06:03 | अधुना वयम् एतस्यां सञ्चिकायां लेखकस्य नाम उल्लिखामः । |
| 06:08 | अत्र, वयं प्रथमे पत्रे लेखकस्य नाम “Teacher. A. B.” इति सेट् कुर्मः । |
| 06:17 | अतः, वयं 'Page one' प्रति गच्छामः । |
| 06:19 | 'Main' विकल्पसूचिकां गत्वा, 'Tools' चित्वा 'Options' उपरि क्लिक् कुर्वन्तु । |
| 06:24 | 'Options' इति डैलाग्-बाक्स् उद्घाटितं भवति । |
| 06:27 | 'Options' डैलाग्-बाक्स् मध्ये, 'LibreOffice' इत्यस्य उपरि क्लिक् कृत्वा 'User Data' इत्यस्य उपरि क्लिक् कुर्वन्तु । |
| 06:34 | डैलाग्-बाक्स् दक्षिणपार्श्वे, भवन्तः यूसर् दत्तांशस्य सूच्यांशं लेखितुं शक्नुवन्ति । |
| 06:40 | अत्र वयं भवताम् आवश्यकतानुसारं विवरणानि लेखितुं शक्नुमः । |
| 06:44 | "First/Last Name/Initials" इत्यत्र, अनुक्रमेण "Teacher", 'A', तथा 'B' इति पठ्यम् एण्टर् कुर्वन्तु । |
| 06:53 | 'OK' क्लिक् कुर्वन्तु । |
| 06:55 | अधुना, 'Main' विकल्पसूच्याम्, 'Insert' नुदन्तु । 'Fields' चयनं कुर्वन्तु तथा 'Author' इत्येतत् क्लिक् कुर्वन्तु। |
| 07:02 | 'Teacher A B ' इति किञ्चन नाम टेक्स्ट्-बाक्स् मध्ये अन्तर्भूतम् । |
| 07:07 | वयम् एतत् बाक्स् आकृष्य 'Draw' पत्रस्य अधः दक्षिणकोणे, 'Time' फील्ड् इत्यस्य किञ्चित् उपरि स्थापयामः । |
| 07:15 | अधुना, वयं 'Draw' पत्रे योजितानि फील्ड्स् निष्कासयितुम् इच्छामः चेत्, |
| 07:21 | केवलं टेक्स्ट्-बाक्स् चित्वा तथा 'Delete' key क्लिक् कुर्वन्तु । |
| 07:25 | 'Author Name' फील्ड् वयं निष्कासयामः । |
| 07:28 | तथा एतस्य कार्यस्य 'undo' करणम् कथम् ? |
| 07:31 | एतत् सरलम् !.. भवन्तः 'Ctrl' तथा 'Z' कीलकानि युगपत् एव नुत्त्वा, किमपि कार्यं 'undo' कर्तुं शक्नुवन्ति । |
| 07:38 | अन्तिमवारं कृतं कार्यं नाम, 'Author' फील्ड् इत्येतत् यत् डिलिट् कृतम् तत् 'undo' जातम् । |
| 07:45 | फील्ड् पुनः परिदृश्यते । |
| 07:48 | वयं 'Main' विकल्पसूचीतः अपि 'undo' अथवा 'redo' कर्तुं शक्नुमः । |
| 07:53 | 'Main' विकल्पसूचीतः, 'Edit' चित्वा तथा 'Redo' इत्येतत् नुदन्तु । |
| 07:57 | लेखकानां नाम अधुना न दृश्यते ! |
| 08:00 | 'Ctrl+Z' कीलकं नुत्त्वा, अस्माभिः कृतं सर्वेषां फील्ड्स् अन्तर्भावम् अपि 'undo' कुर्मः । |
| 08:06 | 'undo' तथा 'redo' निर्देशानां कृते भवन्तः कीबोर्ड्-तः शार्ट्-कट् keys अपि उपयोक्तुं शक्नुवन्ति । |
| 08:13 | किमपि कार्यं 'undo' कर्तुम् , 'Ctrl' तथा 'Z' keys युगपत् एव नुदन्तु । |
| 08:18 | किमपि कार्यं 'redo' कर्तुम् 'Ctrl' तथा 'Y ' keys युगपत् एव नुदन्तु । |
| 08:23 | एतत् अनुशिक्षणम् एकवारं स्थगयित्वा एतत् गृहकार्यं कुर्वन्तु । |
| 08:26 | लेखकानां नाम परिवर्त्य तद् save कुर्वन्तु । |
| 08:29 | अधुना, 'page' कृते इतोऽपि ‘आरो’द्वयं योजयन्तु । |
| 08:33 | द्वितीयपत्रे पत्रसङ्ख्यां दिनाङ्कं च योजयन्तु । |
| 08:38 | अधुना, अन्तिमानि पञ्च कार्याणि 'undo' तथा 'redo' कुर्वन्तु । |
| 08:42 | 'undo' तथा 'redo' विकल्पाः सर्वाणि कार्याणि 'undo' कर्तुं शक्नुवन्ति अथवा कानिचन कार्याणि 'undo' कर्तुं शक्नुवन्ति वा इति परिशीलयन्तु । |
| 08:51 | एतत् पुटं “WaterCycleSlide” इति नामकरणं कुर्मः । |
| 08:54 | 'Pages' पेन् अन्तर्गतं स्लैड् चित्वा, रैट्-क्लिक् कृत्वा 'Rename Page' इत्येतत् चिन्वन्तु । |
| 09:00 | 'Rename Slide' डैलाग्-बाक्स् परिदृश्यते । |
| 09:03 | 'Name' फील्ड् मध्ये, वयं "WaterCycleSlide" इति नाम एण्टर् कुर्मः । |
| 09:08 | 'OK' क्लिक् कुर्वन्तु । |
| 09:10 | अधुना, वयम् अस्य पुटस्य उपरि कर्सर् स्थापयामः । |
| 09:14 | “WaterCycleSlide” इति नाम अत्र प्रदर्शिम् इति भवन्तः द्रष्टं शक्नुवन्ति वा ? |
| 09:18 | पुटस्य कृते अनुरूपस्य नाम्नः दानं समीचीनः अभ्यासः । |
| 09:23 | 'WaterCycle' रेखाचित्रस्य कृते अधुना वयं प्रिण्टिङ्ग् विकल्पान् सेट् कुर्मः । |
| 09:28 | 'Main ' विकल्पसूच्यां, 'File ' क्लिक् कृत्वा पश्चात् 'Print' क्लिक् कुर्वन्तु । |
| 09:33 | 'Print' इति डैलाग्-बाक्स् उद्घाटितं भवति । |
| 09:36 | 'General' तथा 'Options' ट्याब् मध्यस्थानि सेट्टिङ्ग्स् (संयोजनानि) अवगन्तुं, |
| 09:41 | LibreOffice Writer सरणेः Viewing and printing Documents इति अनुशिक्षणं कृपया पश्यन्तु। |
| 09:48 | वामभागे, भवन्तः ‘पेज् प्रीव्यू’ एरिया पश्यन्ति । |
| 09:53 | 'Print' इति डैलाग्-बाक्स् दक्षिणभागः एतत् चत्वारि ट्याब्स्-युक्तमस्ति । |
| 09:58 | 'General, LibreOffice Draw, Page Layout, Options'. |
| 10:04 | वयं 'LibreOffice Draw' कृते निर्दिष्टान् विकल्पान् पश्यामः । |
| 10:09 | 'LibreOffice Draw' ट्याब् उपरि नुदन्तु । |
| 10:13 | वयं 'Page name' तथा 'Date and Time' बाक्स् ‘चेक्’ कुर्मः । |
| 10:17 | एतत्, चित्रस्य साकं पत्रस्य नाम, दिनाङ्कं तथा समयं च मुद्रयति । |
| 10:23 | वयं चित्रं मुद्रयितुम्, 'Original colors' तथा 'Fit to printable page' इत्येतानि चिनुमः । |
| 10:29 | भवतां गणकयन्त्रे 'WaterCycle' चित्रं मुद्रयितुम्, 'Print' इत्यस्य उपरि क्लिक् कुर्वन्तु । |
| 10:34 | भवन्तः भवतां मुद्रणयन्त्रं समीचीनरूपेण कान्फिगर् कृतवन्तः चेत्, भवतां चित्रस्य मुद्रणं तावदैव प्रारभ्यते । |
| 10:40 | एवं रीत्या, वयं LibreOffice Draw विषयकस्य एतस्य अनुशिक्षणस्य अन्तिमसोपानं प्रति आगतवन्तः । |
| 10:45 | अस्मिन् अनुशिक्षणे, भवन्तः : |
| 10:48 | * 'Draw' पत्रस्य कृते मार्जिन्स् सेट्-करणं |
| 10:50 | * तथा पत्रसङ्ख्या, दिनाङ्कः तथा समयः इत्येते कथं योजनीयाः इति |
| 10:54 | * कार्याणां 'Undo' तथा 'Redo' करणम् |
| 10:57 | * पत्रस्य नाम परिवर्तयितुं तथा |
| 10:58 | * किञ्चन 'page' मुद्रयितुं च पठितवन्तः । |
| 11:01 | अत्र भवद्भ्यः किञ्चन गृहकार्यं वर्तते । |
| 11:03 | इतोऽपि पत्रद्वयं योजयन्तु । |
| 11:06 | पूर्वतने अनुशिक्षणे भवद्भिः रचितं लेबल् तथा आमन्त्रणस्य प्रत्येकं पुटस्य कृते पृथक् पृथक् मार्जिन्स् - मुद्रयन्तु । |
| 11:14 | अस्मिन् प्रत्येकं पुटे 'Page count' इति फील्ड् संयुज्य तथा किं भवति इति पश्यन्तु । |
| 11:21 | अस्यां पर्चन्यां प्राप्यमाणं चलच्चित्रं पश्यन्तु । |
| 11:24 | एतत् ‘स्पोकन् ट्युटोरियल्’ परियोजनायाः सारांशं बोधयति । |
| 11:28 | यदि भवतां सविधे सुष्ठु ब्याण्ड्-विड्त् नास्ति चेत्, भवन्तः डौन्-लोड् कृत्वा द्रष्टुं शक्नुवन्ति । |
| 11:32 | स्पोकन्-ट्युटोरियल्-परियोजना-गणः : |
| 11:34 | * स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः आयोजयति । |
| 11:37 | * आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रं प्रयच्छति । |
| 11:41 | अधिकविवरणार्थम्, contact@spoken-tutorial.org कृते लिखन्तु । |
| 11:47 | ‘स्पोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर्’ इति परियोजनायाः कश्चन भागः वर्तते । |
| 11:52 | एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रिय-साक्षरता-मिषन्-पक्षतः समर्थितं वर्तते । |
| 11:59 | अस्याः संस्थायाः विषये अधिकविवरणम् अस्यां पर्चन्याम् उप लभ्यते : http://spoken-tutorial.org/NMEICT-Intro. |
| 12:10 | अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् ।
धन्यवादाः |