C-and-Cpp/C2/Increment-And-Decrement-Operators/Sanskrit
From Script | Spoken-Tutorial
Revision as of 18:33, 20 April 2020 by Sandhya.np14 (Talk | contribs)
Time | Narration |
00:01 | Increment and Decrement Operators in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:08 | अस्मिन् पाठे वयमिमान् विषयान् ज्ञास्यामः : |
00:10 | इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स् |
00:12 | '++' तद्यथा a++ इतीदमेकं पोस्ट्-फ़िक्स् इन्क्रिमेण्ट् ओपरेटर् अस्ति । |
00:18 | ++a इतीदमेकं प्री-फ़िक्स् इन्क्रिमेण्ट् ओपरेटर् अस्ति । |
00:22 | '--' तद्यथा. a-- इतीदमेकं पोस्ट्-फ़िक्स् डिक्रिमेण्ट् ओपरेटर् अस्ति । |
00:27 | --a इतीदमेकं प्री-फ़िक्स् डिक्रिमेण्ट् ओपरेटर् अस्ति । |
00:31 | वयं टैप्कास्टिङ्ग्(Typecasting) विषयमपि ज्ञास्यामः । |
00:35 | पाठस्यास्य ध्वन्यङ्कनायाहम् : Ubuntu 11.10 ओपरेटिङ्ग् सिस्टम्, |
00:40 | तथा Ubuntu मध्ये gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः एतेषामुपयोगं करोमि । |
00:48 | ++ ओपरेटर् इतीदं विद्यमानं मूल्यं एकेन वृद्धिं कारयति । |
00:54 | a++ तथा ++a इतीमे a = a + 1 इत्यस्य समाने स्तः । |
01:00 | -- ओपरेटर् इतीदं विद्यमानं मूल्यं एकेन न्यूनं करोति । |
01:06 | a-- तथा --a इतीमे a = a - 1 इत्यस्य समाने स्तः । |
01:13 | अहमधुना Cप्रोग्राम् इत्यस्य साहाय्येन, इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स् प्रदर्शयामि । |
01:19 | अहं प्रोग्राम् रचितवानस्मि, अधुना कोड् विवृणोमि । |
01:25 | वयमत्र C मध्ये, इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर् इत्येताभ्यां कोड् प्राप्तवन्तः । |
01:30 | अत्राहं a नाम्नः एकम् इण्टीजर् वेरियेबल् प्राप्तवानस्मि यस्य मूल्यं 1 वर्तते । |
01:35 | एवं वयं a इत्यस्य मौल्ये परिवर्तनानि दृष्टुं शक्नुमः । |
01:39 | इदमस्माकमेवं ओपरेटर्स् इत्येतेषां कार्यविधानविषये अधिकतरज्ञानं यच्छति । |
01:47 | अधुना postfix इन्क्रिमेण्ट् ओपरेटर् कथं कार्यं करोतीति पश्याम । |
01:51 | अस्य printf स्टॆट्मेण्ट् इत्यस्य फ़लितं 1 वर्तते। |
01:55 | मूल्यं न परिवर्त्यते । |
01:57 | यतो हि पोस्ट्-फ़िक्स् ओपरेशन् इतीदं, ओपरेण्ड् इत्यस्य परीक्षणादनन्तरम् एव सम्भवति । |
02:04 | यदि एकम् क्रिया a++ उपरि कार्यं करोति तर्हि, इदं a इत्यस्य अद्यतनमौल्यस्योपरि कार्यं करोति । |
02:10 | पश्चादिदं a इत्यस्य मूल्यं वृद्धिं याति । |
02:17 | अधुना वयमत्र a इत्यस्य मूल्यं पश्यामः, इदं 1 इत्यनेन वृद्धिं गतः । |
02:27 | वयं पुनः 'a' इतीदं 1 इत्यस्मै इनिशियलैस् कुर्मः, येन परिवर्तनानि प्रतिबिम्बयति । |
02:35 | वयमधुना प्रीफ़िक्स् इन्क्रिमेण्ट् ओपरेटर् (prefix increment operators) प्रति आगच्छामः । |
02:38 | इदं printf स्टेट्मेण्ट् 2 इति मूल्यं मुद्रापयति । |
02:42 | यतो हि, एकं प्रीफ़िक़्स् ओपरेशन् इतीदं, ओपरेण्ड् इत्यस्य परीक्षणात् प्रागेव सम्भवति । |
02:49 | अतः 'a' इत्यस्य मूल्यं 1 (एकेन) वृद्धिं याति ततः मुद्राप्यते च । |
02:58 | वयं पुनः a इत्यस्य मूल्यं मुद्रापयामः, येन पुनः परिवर्तनानि न भवेयुरिति दृष्टुं शक्नुमः । |
03:03 | अधुना एक्सिक्यूट् कृत्वा कोड् परीक्षामहे । |
03:07 | अहं अधस्तनपङ्क्ती कमेण्ट् करोमि । टङ्कयन्तु /*, */ |
03:19 | Save नुदन्तु । |
03:22 | अहं मम सञ्चिकां incrdecr.c इति रक्षितवान् । |
03:29 | Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु । |
03:35 | कम्पैल् कर्तुं टर्मिनल् मध्ये ; gcc space incrdecr dot c space minus o space incr इति टङ्कयित्वा Enter नुदन्तु । |
03:51 | एक्सिक्यूट् कर्तुं ./incr (dot slash incr) इति टङ्कयित्वा Enter नुदन्तु । |
03:59 | स्क्रीन् उपरि औट्पुट् दर्शितम् । |
04:01 | इदं औट्पुट् भवद्भिः a++ मद्रापितेन आगतम् । |
04:06 | इदं औट्पुट् भवद्भिः ++a मद्रापितेन आगतम् । |
04:09 | पश्यामः यत् पूर्वचर्चितप्रकारेणैव फ़लितमागतम् । |
04:13 | अधुना अवशिष्ट-प्रोग्राम् प्रति आगच्छाम । |
04:16 | अधुनाहं postfix तथा prefix डिक्रीमेण्ट् ओपरेटर्स् विवृणोमि । |
04:21 | अत्रत्यं अत्रत्यञ्च मुल्टिलैन् कमेण्ट्स् निष्कासयन्तु । |
04:29 | अधुना पुनः a इत्यस्मै 1 इति मूल्यम् असैन् कुर्वन्तु । |
04:35 | पूर्वोक्तरीत्या इदं printf स्टेट्मेण्ट् 1 इति मूल्यं औट्पुट् करोति । |
04:40 | a इत्यस्य मूल्यं, यदा a-- इतीदं परीक्ष्यते तदा न्यूनं भविष्यति यतः इदं पोस्ट्-फ़िक्स् एक्स्प्रेश्शन् वर्तते । |
04:47 | अग्रिमं स्टॆट्मेण्ट् a इत्यस्य मूल्यं o इति मुद्राप्यते । |
04:51 | a इत्यस्य मूल्यं 1(एकेन) अपचयं याति (decremented) । |
04:54 | वयमधुना प्रीफ़िक्क्स् डिक्रिमेण्ट् ओपरेटर् (prefix decrement operator) प्राप्तवन्तः । |
04:58 | printf स्टेट्मेण्ट् इत्यस्य औट्पुट् 0 भविष्यति । |
05:00 | यतो हि इदं प्रीफ़िक्स् ओपरेशन् वर्तते । |
05:05 | ओपरेण्ड् इत्यस्य परीक्षणात् प्रागेव प्रीफ़िक्स् ओपरेशन् सञ्जायते । |
05:09 | इदं printf स्टेट्मेण्ट् 0 इति औट्पुट् यच्छति । |
05:11 | a इत्यस्य मूल्ये पुनः परिवर्तनं न क्रियते । |
05:15 | return 0; इति टङ्कयित्वा समाप्तेः कर्लि ब्रेकेट् स्थापयन्तु । |
05:21 | Save नुदन्तु । |
05:24 | टर्मिनल् प्रति आगच्छन्तु । |
05:27 | कम्पैल् कर्तुं टर्मिनल् मध्ये ; gcc space incrdecr dot c space minus o space incr इति टङ्कयित्वा Enter नुदन्तु । |
05:42 | एक्सिक्यूट् कर्तुं ./incr इति टङ्कयित्वा Enter नुदन्तु । |
05:52 | इदं औट्पुट् वर्तते, यदा भवद्भिः a-- इतीदं मुद्राप्यते । |
05:56 | इदं औट्पुट् वर्तते, यदा भवद्भिः --a इतीदं मुद्राप्यते । |
05:59 | अतः अधुना वयं इन्क्रीमेण्ट् तथा डिक्रीमेण्ट् ओपरेटर् अनयोः कार्यविधानं पश्यामः । |
06:05 | यदि वयं इदमेव प्रोग्राम् C++ मध्ये कर्तुमिच्छामः तर्हि, |
06:07 | C कोड् मध्ये कानिचन परिवर्तनानि अस्माभिः करणीयानि भवन्ति । |
06:10 | अहम् एडिटर् प्रति गच्छामि । |
06:13 | अत्र C++ फ़ैल् आवश्यकेन कोड् इत्यनेन सह वर्तते । |
06:16 | अवलोक्यतां यत् हेडर् इतीदं C फ़ैल् तः भिन्नं वर्तते । |
06:20 | वयं using namespace स्टेट्मेण्ट् अपि प्राप्तवन्तः । |
06:24 | पुनः पश्यन्तु यत्, औट्पुट् स्टॆट्मेण्ट् अपि C++ मध्ये cout वर्तते । |
06:28 | इमौ भेदौ हित्वा अन्यत्र कोड्स् समानान्येव सन्ति । |
06:33 | फ़ैल् इतीदं Save कुर्वन्तु । तत्तु .cpp एक्स्टेन्शन् द्वारा जातम् । |
06:40 | अधुना कोड् इतीदं कम्पैल् कुर्मः । |
06:42 | टर्मिनल् उद्घाट्य g++ space incrdecr dot cpp space minus o space incr इति टङ्कयित्वा Enter नुदन्तु । |
07:00 | एक्सिक्यूट् कर्तुं ./ incr (dot slash incr) टङ्कयित्वा Enter नुदन्तु । |
07:07 | स्क्रीन् उपरि औट्पुट् प्रदर्शितम् । |
07:10 | अतः वयं पश्यामः यत्, औट्पुट् इतीदं C प्रोग्राम् इवैवास्ति । |
07:15 | वयं टैप्कास्टिङ्ग् कल्पनां प्राप्तवन्तः । |
07:17 | C तथा C++ उभयोः मध्येऽपि, इदं समानं मार्गं इम्प्लिमेण्ट् कर्तुमनुसरति । |
07:22 | एकप्रकारकस्य वेरियेबल् इतीदं अन्यस्मै परिवर्तयितुं टैप्-कास्टिङ्ग् उपयुज्यते । |
07:27 | पेरन्थिसिस् मध्ये भवदभीष्टं डेटाटैप् आवेष्टनेन टैप्-कास्टिङ्ग् इतीदं क्रियते । |
07:33 | इदं कास्ट् इतीदं, भवद्भिः कास्ट् क्रियमाणस्य वेरियेबल् इत्यस्य पुरतः स्थापितम् । |
07:38 | इदं typecast इतीदं केवलम् एकस्यै क्रियायै मान्यं वर्तते । |
07:42 | अधुना a' इतीदम् एकक्रियायै float वेरियेबल् भूत्वा व्यवहरति । |
07:47 | मया रचितम् एकम् उदाहरणम् अत्र अस्ति । |
07:50 | अहमधुना कोड् विवृणोमि । |
07:54 | वयमादौ a तथा b इति द्वौ वेरियेबल्स् इण्टीजर् रूपेण तथा c इतीदं फ़्लोट् रूपेण डिक्लेर् कृतवन्तः । |
08:00 | a इत्यस्य मूल्यं 5 इत्यस्मै असैन् जातम् तथा च b इत्यस्य मूल्यं 2 इत्यस्मै । |
08:06 | वयं a तथा b अनयोरुपरि क्रियां करिष्यामः । |
08:10 | वयं a इतीदं b इत्यनेन विभजाम । फलितं c मध्ये स्थापयाम । |
08:14 | वयं %.2f इतीदं, 2 दशमांशस्थानं द्योतयितुं उपयुक्तवन्तः । |
08:20 | फलितं 2.00 इति प्रदर्श्यते परन्तु चिन्तितं 2.50 आसीत् । |
08:25 | फ़्रेक्शनल् विभागः, a तथा b इति द्वेऽपि ओपरेण्ड्स् इण्टीजर्स् वर्तन्ते इत्यतः, ट्रङ्केटेड् जातः । |
08:31 | अतः सम्यग्विभजनं कर्तुं ओपरेण्ड्स् मध्ये एकं फ़्लोट् इत्यस्मै टैप्-कास्ट् भवेदेव । |
08:35 | वयमत्र a इतीदं फ़्लोट् इत्यस्मै टैप्-कास्टिङ्ग् कुर्मः । अतोऽधुना c इतीदं सम्यग् विभजनस्य मूल्यं धारयति । |
08:41 | अधुना सम्यग् विभजनस्य मूल्यं प्रदर्शितम् । उत्तरन्तु यथा अपेक्षितं तथा 2.50 वर्तते । |
08:47 | return 0; इति टङ्कयित्वा समाप्तेः कर्लिब्रेकेट् उपयुज्य पिधदतु । |
08:51 | Save नुदन्तु । इदं फ़ैल् .c (dot c) एक्स्टेन्शन् इत्यनेन सह रक्षन्तु । |
08:55 | अहं मम फ़ैल् typecast.c इति सेव् कृतवानस्मि । |
08:59 | टर्मिनल् उद्घाटयन्तु । |
09:01 | कम्पैल् कर्तुं gcc space typecast dot c space minus o space type इति टङ्कयित्वा Enter नुदन्तु । |
09:17 | एक्सिक्यूट् कर्तुं ./type इति टङ्कयित्वा Enter नुदन्तु । |
09:25 | औट्पुट् प्रदर्शितम् दृश्यते । |
09:27 | मूल्यद्वयस्य दर्शनेन वयं टैप्-कास्टिङ्ग् इत्यस्य परिणामं पश्यामः । |
09:32 | अधुना पाठस्य सारं पश्यामः । |
09:34 | अस्मिन् पाठे वयम् इमान् विषयान् ज्ञातवन्तः - |
09:36 | इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स् कथमुपयोक्तव्यमिति, |
09:40 | फ़ोर्म्स्(forms), पोस्ट्फ़िकक्स् (Postfix) तथा प्रीफ़िक्स् (Prefix) इत्येतेषां विषयम्, |
09:44 | अपि च टैप्का्स्टिङ्ग् तथा तस्य विनियोगञ्च । |
09:47 | एकं पाठनियोजनम् : |
09:49 | अधस्तन एक्स्प्रेश्शन् इत्यस्मै परिहाराय एकं प्रोग्राम् लिखन्तु, a divided by b plus c divided by d. |
09:56 | a, b, c तथा d इत्येतेषां मूल्यानि यूसर् द्वारा इन्पुट् रूपेण प्रापणीयम् । |
10:01 | सम्यग् विभजनं कर्तुं टैप्कास्टिङ्ग् इत्यस्योपयोगं कुर्वन्तु । |
10:05 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । |
10:08 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । |
10:10 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । |
10:15 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, |
10:17 | स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति । |
10:20 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । |
10:24 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । |
10:33 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । |
10:37 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । |
10:44 | अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । |
10:55 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |