C-and-Cpp/C4/Understanding-Pointers/Sanskrit
From Script | Spoken-Tutorial
Revision as of 22:32, 9 April 2020 by NaveenBhat (Talk | contribs)
Time | Narration |
00:01 | pointers in c and c++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:06 | अस्मिन् पाठे अस्माभिः एताः विषयाः ज्ञाताः भवेयुः, |
00:08 | पोइण्टर्स् |
00:10 | पोइण्टर्स् रचना, |
00:12 | अपि च पोइण्टर्स् इत्येतेषां विनियोगाः । |
00:14 | एकेनोदाहरणेन सह वयमिदं कुर्मः । |
00:18 | पाठस्यास्य ध्वन्यङ्कनायाहम्, उबण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य 11.10 तमा आवृत्तिः तथा gcc अपि च g++ कम्पैलर् इत्यस्य 4.6.1 तमा अवृत्तिः आभ्यामुपयोगं करोमि । |
00:31 | पोइण्टर्स् इतीदं पीठिकया सह प्रारभामहे । |
00:34 | पोइण्टर्स् इतीमानि मेमोरि मध्यस्थानि स्थानानि सूचयामः । |
00.38 | पोइण्टर्स् इतीमानि मेमोरि अड्रेस् युतानि भवेयुः । |
00:41 | तस्मिन् अड्रेस् मध्ये विद्यमानं मौल्यमपि दद्मः । |
00:45 | अधुना पोइण्टर्स् इत्येतेषाम् एकमुदाहरणं पश्यामः । |
00:48 | अस्माकं फ़ैल् नेम् वर्तते pointers_demo.c इति । |
00:54 | अधुना कोड् पश्यामः । |
00:56 | इदमस्माकं हेडर् फ़ैल् stdio.h वर्तते । |
01:00 | इदमस्माकं मेन् फ़ङ्क्षन् वर्तते । |
01:03 | अत्र विद्यमानं लोङ्ग् इण्टीजर् टैप् इत्यस्य वेरियेबल् इत्यस्मै 10 इति मौल्यं दत्तमस्ति । |
01:09 | पश्चाद्वयं पोइण्टर् टैप् इत्यस्य ptr(पि टि आर्) इति वेरियेबल् डिक्लेर् कृतवन्तः । |
01:12 | पोइण्टर् इतीदं डिक्लेर् कर्तुं नक्षत्रचिह्नम् उपयुज्यते । |
01:16 | इदं पोइण्टर् लोङ् इण्ट् टैप् इत्यस्य मेमोरि सूचितुम् अर्हति । |
01:20 | printf स्टेट्मेण्ट् मध्ये & (एम्पर्सेण्ड्) चिह्नं, मेमोरि अड्रेस् प्राप्तुम् उपयुज्यते । |
01:28 | अतः &num इतीदं num इत्यस्य मेमोरि अड्रेस् यच्छति । |
01:33 | इदं स्टेट्मेण्ट्, वेरियेबल् num इत्यस्य अड्रेस् इतीदं प्रिण्ट् करोति । |
01:37 | अत्र, ptr इतीदं numइत्यस्य अड्रेस् प्राप्तवदस्ति । |
01:41 | इदं स्टेट्मेण्ट्, ptr इत्यस्य अड्रेस्स् मुद्रापयति । |
01:45 | Sizeof इति फ़ङ्क्षन्, ptr इत्यस्य परिमाणं यच्छति । |
01:49 | इदं ptr इत्यस्य मौल्यं यच्छति । |
01:51 | इदं num इत्यस्य मेमोरि अड्रेस् वर्तते । |
01:54 | अपि चात्र विद्यमानं आस्टेरिस्क् चिह्नं अपि च ptr, अड्रेस् इत्यस्य मौल्यं यच्छति । |
01:59 | अतः, आस्टेरिस्क् चिह्नस्योपयोगेन मेमोरी अड्रेस् न लभ्यते । |
02:03 | तत्स्थाने, तस्य मौल्यं यच्छति । |
02:06 | %ld इतीदं लोङ्ग् इण्ट् इत्यस्य फ़ोर्मेट् स्पेसिफ़ैयर् वर्तते । |
02:10 | अधुना, प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । |
02:13 | भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु । |
02:21 | कम्पैल् कर्तुं, gcc space pointers_demo.c space hyphen o space point इति टङ्कयित्वा Enter कीलकं नुदन्तु । |
02:34 | ./point (डोट् स्लेश् पोइण्ट्) इति टङ्कयित्वा, Enter नुदन्तु । |
02:39 | औट्पुट् एवं दृश्यते । |
02:42 | num इत्यस्य अड्रेस् अपि च ptr इत्यस्य मूल्यम् एकमेवास्तीति वयं दृष्टुं शक्नुमः । |
02:48 | परन्तु num तथा ptr इत्यनयोः मेमोरि अड्रेस्स् भिद्यते । |
02:53 | पोइण्टर् इत्यस्य परिमाणम् अष्ट बैट्स् वर्तते तथा ptr इत्यनेन दश इति मूल्यं सूचितम् । अपि चेदम् num इत्यस्मै असैन् कृतमासीत् । |
03:03 | अधुना इदमेव प्रोग्राम् इतीदं C++ मध्ये पश्याम । |
03:07 | अस्माकं फ़ैल् नेम् pointer_demo.cpp वर्तते इति स्मरन्तु । |
03:13 | अत्र कानिचन परिवर्तनानि आवश्यकानि । हेडर् फ़ैल् iostream भवितव्यम् । |
03:19 | पश्चात्, std namespace इतीदम् उपयुञ्ज्महे । |
03:23 | अपि च printf इतीदं cout फ़ङ्क्षन् इति परिवर्तितवन्तः । |
03:28 | अन्यानि कोड्स् पूर्ववदेव सन्ति । |
03:30 | अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु । |
03:34 | कम्पैल् कर्तुम्, g++ space pointers_demo.cpp space hyphen o space point1 इति टङ्कयित्वा , Enter नुदन्तु । |
03:50 | ./point1 (डोट् स्लेश् पोइण्ट् वन्) इति टङ्कयित्वा, enter नुदन्तु । |
03:55 | इदम् औट्पुट् अस्माकं c कोड् इत्यस्य औट्पुट्-वदेव अस्ति । |
04:00 | अनेन वयं पाठस्यान्तमागतवन्तः । |
04:03 | अधुनास्माकं स्लैड् प्रति आगच्छन्तु । |
04:05 | अधुना सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये वयम्, |
04:08 | पोइण्टर्, |
04:10 | तस्य रचना, |
04:12 | तस्य विनियोगविषयान् ज्ञातवन्तः । |
04:14 | असैन्मेण्ट् रूपेण – एकं वेरियेबल् तथा पोइण्टर् डिक्लेर् करणम् , वेरियेबल् इत्यस्य अड्रेस्स् इतीदं पोइण्टर् मध्ये स्थापनम्, अपि च पोइण्टर् मौल्यस्य प्रिण्ट् करणम्, एतानि कार्याणि कर्तुं C तथा C++ मध्ये एकं प्रोग्राम् लिखन्तु । |
04:27 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । |
04:30 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । |
04:33 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । |
04:37 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति । |
04:43 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । |
04:47 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । |
04:53 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । |
04:58 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । |
05:06 | अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । |
05:10 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । |
05:14 | धन्यवादाः । |