Java/C3/Static-Methods/Sanskrit
From Script | Spoken-Tutorial
Revision as of 05:46, 6 December 2019 by Sandhya.np14 (Talk | contribs)
Time | Narration |
00:01 | Static Methods इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:05 | पाठेऽस्मिन् वयं static methods नाम किम् तथा static methodsइत्यस्य डिफ़ैन् करणं कथम्, |
00:12 | instance methods तथा static methods अनयोः भेदः, अपि च static methods इत्यस्य विनियोगः इत्येतान् विषयान् ज्ञास्यामः । |
00:20 | वयमत्र Ubuntu 14.04 , JDK 1.7 तथा Eclipse 4.3.1 च उपयुञ्ज्महे । |
00:31 | पाठस्यास्य अनुसरणाय भवद्भ्यः, Java तथा Eclipse IDE अनयोः ज्ञानं स्यात् । |
00:38 | भवन्तः जावा मध्ये instance variables, methods अपि च static variables एतेषां ज्ञानमपि प्राप्तवन्तः स्युः । |
00:45 | न चेत् तत्सम्बद्ध Java पाठार्थम् अधस्तन लिङ्क् पश्यन्तु । |
00:50 | एकं static method इतीदमेकं मेथड् वर्तते यत्, सम्पूर्णाय class इत्यस्मै सम्बद्धं वर्तते । |
00:56 | इदं class method इत्यपि कथ्यते तथेदं static कीवर्ड् द्वारा डिक्लेर् जायते । |
01:02 | Static methods इतीमानि static variablesइत्येतेषां निर्वहणाय उपयुज्यन्ते । |
01:07 | वयमधुना एक्लिप्स् गत्वा StaticMethodDemo नाम्नः प्रोजेक्ट् रचयाम । |
01:14 | प्रकल्पे वयं स्टेटिक् मेथड्स् इत्येतेषां विनियोगप्रदर्शनाय आवश्यकानि क्लासस् रचयाम । |
01:21 | वयं StudentEnroll नाम्नः क्लास् रचयाम । |
01:25 | वयमधुना उदाहरणैः सह static methods इत्यस्य विनियोगं जानाम । |
01:30 | उदाहरणं स्टेटिक् वेरियेबल् पाठे यथोक्तं तद्वत् वर्तते । |
01:37 | अत्र वयं पुनः StudentEnroll class इत्यस्य प्रातिनिध्यं कुर्मः । |
01:42 | स्मर्यतां यत्, name तथा id इति द्वे वेरियेबल्स् इत्यनयोः निर्वहणं इन्स्टेन्स् वेरियेबल्स् रूपेण जातम् । |
01:48 | अत्र organization अपि च total count इति द्वे वेरियेबल्स् सम्पूर्ण-क्लास् मध्ये सामान्यं वर्तते । |
01:54 | अतः ते स्टेटिक् वेरियेबल्स् इति स्वीक्रियेते । |
01:58 | अतः StudentEnroll क्लास् इत्यस्य प्रातिनिध्याय अधस्तन कोड् टङ्कयन्तु । |
02:03 | अवलोक्यतां यत्, द्वे स्टेटिक् वेरियेबल्स् स्तः; नाम्ना count अपि च orgname । |
02:08 | तथा च orgname इतीदमेकं स्टेटिक् कोन्स्टेण्ट् नास्ति परन्तु इदमेकं सामान्यं स्टेटिक् वेरियेबल् वर्तते । |
02:15 | स्टेटिक् वेरियेबल् orgname इतीदम् “IIT Bombay” इति इनिशियलैस् जातम् । |
02:21 | अधुना Source -> उपरि नुत्वा Generate Constructor using Fields इतीदं चिन्वन्तु । |
02:27 | रचिते कोड् मध्ये super कीवर्ड् इतीदं निष्कासयन्तु । |
02:32 | कन्स्ट्रक्टर् इत्यस्यान्तः , count ++ semicolon इति टङ्कयन्तु । अनेन count इत्यस्य मूल्यं प्रतिवारम् ओब्जेक्ट् रचनाकाले अधिकं जायते । |
02:42 | वयमधुना क्लास् इत्यस्मै, वेरियेबल्स् इत्येतेषां मूल्यमुद्रापणाय, showData( )नाम्नः मेथड् संयोजयाम । |
02:48 | अतः public void showData( ) इति टङ्कयन्तु । |
02:51 | ब्रेकेट् अन्तः अधस्तन कोड् टङ्कयन्तु येन id, name तथा organisation name इत्येतेषां मूल्यानि मुद्राप्यन्ते । |
02:58 | वयमधुना setOrgName नाम्नः स्टेटिक् मेथड् संयोजयाम । |
03:03 | अधस्तन कोड् टङ्कयन्तु । |
03:05 | अत्र दर्शितं setOrgName मेथड् इतीदमेकं स्टेटिक् मेथड् वर्तते यत् orgname इत्यस्य मूल्यं परिवर्तयितुं शक्नोति । |
03:13 | यत्किमपि मेथड् , स्टेटिक् वेरियेबल्स् इत्येतेषां निर्वहणार्थं वर्तते तत् static method इति कथ्यते । |
03:19 | वयमधुना instance method अपि च static method अनयोः अन्तरं जानाम । |
03:25 | Instance methods इतीमानि static variables इतीमानि एक्सेस् कर्तुं शक्नोति । |
03:29 | परन्तु एकं static method केवलं static variablesइतीमानि एक्सेस् कर्तुं परिवर्तयितुं च शक्नोति । |
03:35 | Instance methods इतीमानि एकेन object द्वारा इन्वोक् जायन्ते । |
03:39 | परन्त्वेकं static method इतीदं object रचनां विना, इन्वोक् भवितुमर्हति । |
03:45 | वयं static methodइत्यस्यान्तः, ‘this’ तथा ‘super’ कीवर्ड् उपयोक्तुं न शक्नुमः । |
03:50 | यतो हि इमानि कीवर्ड्स्, उद्दिष्टस्य क्लास् इत्यस्य इन्स्टेन्स् इत्यस्मै रेफ़र् जायन्ते । |
03:56 | स्टेटिक् कोण्टेक्स्ट् मध्ये, एकस्य क्लास् इत्यस्य इन्स्टेन्स् इत्यस्मै, रेफ़र् कर्तुं न शक्नुमः । |
04:01 | इन्स्टेन्स् वेरियेबल् इतीदं स्टेटिक् मेथड् मध्ये साक्षात् एक्सेस् क्रियते चेत् किं भविष्यतीति पश्याम । |
04:09 | अतः, id= “newid” semicolon इति टङ्कयन्तु । |
04:13 | एक्लिप्स् दोषं दर्शयति । |
04:17 | इदं वदन्नस्ति यत्, एकम् इन्स्टेन्स् वेरियेबल् स्टेटिक् मेथड् मध्ये साक्षात् उपयोक्तुं नार्हति इति । |
04:23 | अतः इमां पङ्क्तिं कमेण्ट् कृत्वा अग्रे गच्छामः । |
04:27 | वयमधुना showOrgData नाम्नः स्टेटिक् मेथड् संयोजयाम । |
04:31 | इमानि स्टेट्मेण्ट्स् orgname तथा count अनयोः मूल्यं मुद्रापयन्ति । |
04:36 | अधुना default packageउपरि रैट् क्लिक् कृत्वा, New-> Class नुत्वा पश्चात् नाम Demo इति टङ्कयन्तु । |
04:44 | अस्मिन् क्लास् मध्ये वयं मेन् मेथड् प्राप्नुमः । |
04:48 | अतः main इति टङ्कयित्वा, मेन् मेथड् निर्मातुं Ctrl+space च नुदन्तु । |
04:54 | वयं StudentEnroll क्लास् इत्यस्य कानिचन ओब्जेक्ट्स्, विद्यार्थिनां नामाङ्कनस्य प्रातिनिध्याय रचयाम । |
05:01 | अतः s1, s2 तथा s3 इति त्रीणि ओब्जेक्ट्स् रचयितुम् अधस्तन कोड् टङ्कयन्तु । |
05:08 | अधुना वयं showData मेथड् इतीदं, नामाङ्कनस्य विवरणानि मुद्रापयितुं इन्वोक् कुर्मः । |
05:12 | s1, s2 अपि च s3 मध्ये, showData मेथड् इत्यस्य इन्वोक् करणाय अधस्तन कोड् टङ्कयन्तु । |
05:19 | orgname तथा count अनयोः मूल्यानि मुद्रापयितुं, showOrgData मेथड् इतीदम् इन्वोक् कुर्मः । |
05:27 | यतः इदमेकं स्टेटिक् मेथड् वर्तते, वयं क्लास् नाम उपयुज्य इदं साक्षात् इन्वोक् कर्तुं शक्नुमः । |
05:31 | तत्कर्तुम् अधस्तन कोड् टङ्कयन्तु |
05:34 | वयमधुना Demo प्रोग्राम् प्रति गच्छाम । |
05:37 | भवन्तः पश्यन्ति यत्, s1 इत्यस्मै सम्बद्धानि वेरियेबल्स्, अर्थात् IT101, ADIL तथा IIT BOMBAY च मुद्राप्यन्ते । |
05:47 | तथैव s2 तथा s3 इत्याभ्यां सम्बद्धानि मूल्यानि च मुद्राप्यन्ते । |
05:53 | पश्यतां यत् orgname इत्यस्य मूल्यम् अर्थात् IIT BOMBAY इतीदं s1, s2 तथा s3 इत्येतेषु सामान्यं वर्तते । |
06:02 | orgname तथा count इत्येते प्रत्येकतया, स्टेटिक् मेथड् showOrgData द्वारा मुद्रापिते । |
06:08 | पश्यतां यत्, organisation name इतीदं IIT Bombay इति मुद्राप्यते । |
06:13 | students enrolled इत्यस्य सङ्ख्या 3 इति मुद्राप्यते, यतः अस्माभिः त्रीणि ओब्जेक्ट्स् रचितानि । |
06:21 | एकं स्टेटिक् मेथड् इतीदं क्लास् इत्यस्य नाम्ना साक्षात् इन्वोक् भवितुं शक्नोति । |
06:26 | वयमधुना setOrgName नाम्नः स्टेटिक् मेथड् इन्वोक् कुर्मः । |
06:30 | अतः वयं ओर्गनैसेशन् नेम् इतीदं “IIT Bombay” तः “IIT Mumbai” प्रति परिवर्तयाम । |
06:36 | अधस्तन कोड् टङ्कयन्तु । |
06:38 | अधुना पुनरेकवारं showData मेथड् इतीदम् s1, s2 तथा s3इत्यस्मिन् इन्वोक् कुर्मः । |
06:47 | तदर्थम् अधस्तन कोड् पुनरेकवारं टङ्कयन्तु । |
06:50 | पुनरेकवारं, showOrgData मेथड् इतीदं, orgname तथा count अनयोः मूल्यं मुद्रापयितुं इन्वोक् कुर्मः । |
06:58 | तत्कर्तुम् अधस्तन कोड् टङ्कयन्तु । |
07:00 | पुनरधुना Demo प्रोग्राम् इतीदं रन् कुर्मः । |
07:03 | पश्यामः यत् organisation name इतीदं “IIT Mumbai” इत्यस्मै परिवर्तितम् इति । |
07:08 | पुनः स्लैड्स् प्रति आगच्छाम । |
07:11 | ओब्जेक्ट् रेफ़रेन्सस् इतीमानि static method इत्यस्मै पास् कर्तुं शक्नुमः । |
07:15 | एवम् एकं static methodइतीदम् एकस्य ओब्जेक्ट् इत्यस्य instance variables इतीदम् एक्सेस् कर्तुं शक्नोति । |
07:22 | अस्माकं कोड् मध्ये प्रयतामहे । Eclipse प्रति गत्वा StudentEnroll class नुदन्तु । |
07:30 | अधुना setOrgName मेथड् मध्ये, अन्यमेकम् ओर्ग्युमेण्ट् इतीदम्, StudentEnroll क्लास् इत्यस्य ओब्जेक्ट् रूपेण पास् कुर्मः । |
07:38 | अतः String org इत्यस्यानन्तरं, comma StudentEnroll s इति टङ्कयन्तु । |
07:45 | अधुना अस्मिन् मेथड् मध्ये, id = "newid" इतीदम् अन्-कमेण्ट् कुर्वन्तु । |
07:50 | अपि च id इत्यस्य स्थाने, s.id इति टङ्कयन्तु । |
07:54 | अधुना Demo क्लास् प्रति गच्छन्तु । |
07:56 | अधुना फ़ङ्क्षन् काल् इतीदं setOrgName मेथड् इत्यस्मै, स्टुडेण्ट् एन्रोल् ओब्जेक्ट् s1 इत्यस्य पास् करणेन परिवर्तयामः । |
08:05 | अतोऽत्र “IIT Mumbai” इत्यस्यानन्तरं, comma s1 इति टङ्कयन्तु । |
08:10 | अधुना पुनः Demo प्रोग्राम् प्रति आगच्छन्तु । |
08:12 | पश्यामः यत्, s1 इत्यस्मै id इत्यस्य मूल्यं , “newid” इति परिवर्तितम् । |
08:19 | सारं पश्याम । पाठेऽस्मिन् वयम् , |
08:24 | static method नाम किम् अपि च कदा इदम् उपयुज्यते |
08:28 | कथं static methods तथा instance methods अनयोः भेदज्ञानं भवेत्, |
08:33 | कथं static methods इत्यस्य रचना इन्वोक् करणञ्च, इतीमानि ज्ञातवन्तः । |
08:37 | इदं पाठनियोजनं स्टेटिक् वेरियेबल् पाठस्य नियोजनस्य अनुवर्तनम् अस्ति । |
08:42 | अतः दृढी कुर्वन्तु यत्, भवन्तः स्टेटिक् वेरियेबल् इति पाठनियोजनम् समापितवन्तः इति । |
08:47 | अतः अत्र केवलं परिवर्तनानि उल्लिखामः । |
08:50 | वयमत्र “status” इत्यस्य प्रातिनिध्याय वेरियेबल् प्राप्तवन्तः । |
08:55 | इदं कार्-यानं सर्वीस् कर्तुं “in” वर्तते वा सर्वीस् भूत्वा “out” वर्तते वा इति दर्शयति । |
09:01 | सर्वीस् जाते सति No of cars out दर्शयितुम् अन्यं वेरियेबल् प्राप्तवन्तः स्मः । |
09:08 | service( Car c) नाम्नः मेथड् इतीदं डिफ़ैन् कुर्वन्तु येन स्थितिः ”out” इति नवीक्रियते । |
09:13 | तदनुगुण्येन इमानि मूल्यानि अधोनिर्दिष्टेभ्यः परिवर्तयति - |
09:17 | सर्वीस् कर्तुं No of Cars in, सर्वीस् भूत्वा No of Cars out |
09:21 | कार्-यानस्य विवरणानि मुद्रापयितुं show( ) मेथड् इतीदं डिफ़ैन् करोतु । |
09:26 | पूर्ववत्, अधोनिर्दिष्टानि अस्माभिः करणीयानि । |
09:30 | जानन्तु यत्, अस्माभिः स्टेटिक् मेथड् इतीदं यथापेक्षितं डिफ़ैन् तथा ऐडेण्टिफ़ै करणीयम् । |
09:35 | एकं Demo class रचयन्तु । |
09:38 | मेन् मेथड् मध्ये, CarService इत्यस्य कानिचन ओब्जेक्ट्स् रचयन्तु । |
09:43 | तेषु कुत्रचित् service( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु । |
09:47 | सर्वाणि ओब्जेक्ट्स् उपयुज्य show( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु । फलितपरीक्षणं कुर्वन्तु । |
09:52 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । |
09:57 | अवचित्यापि दृष्टुं शक्यते तत् । |
09:59 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । |
10:08 | अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
10:11 | स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
10:18 | अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु । |
10:22 | पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा कृतम् । |
10:30 | अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |