Java/C3/Static-Variables/Sanskrit
From Script | Spoken-Tutorial
Revision as of 15:23, 5 December 2019 by Sandhya.np14 (Talk | contribs)
| 00:01 | Static Variables इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
| 00:05 | पाठेऽस्मिन् वयम्, static variables नाम किम् |
| 00:10 | static variables इत्यस्य रचना अपि च static variables इत्येतेषां विनियोगः इति विषयान् ज्ञास्यामः । |
| 00:17 | वयमत्र : Ubuntu 12.04,
JDK 1.7 तथा Eclipse 4.3.1 च उपयुञ्ज्महे । |
| 00:27 | पाठस्यास्य अनुसरणाय, भवद्भ्यः Java तथा Eclipse IDE अनयोः ज्ञानमावश्यकम् । |
| 00:35 | अपि च भवन्तः जावा मध्ये classes, objects तथा instance variables इत्येतेषां ज्ञानं प्राप्तवन्तः स्युः । |
| 00:42 | न चेत् तत्सम्बद्धपाठार्थम् अधस्तन लिङ्क् पश्यन्तु । |
| 00:49 | एकं static variable इतीदम् अखिलाय class इत्यस्मै सम्बद्धमस्ति । |
| 00:55 | इदं class variable इत्यपि च कथ्यते । |
| 00:58 | इदं static कीवर्ड् उपयुज्य डिक्लेर् क्रियते । |
| 01:02 | पूर्वतनपाठे वयं स्टेटिक् वेरियेबल् इत्यस्य ज्ञानं किञ्चित् प्राप्तवन्तः स्मः । |
| 01:08 | अस्मिन् पाठे वयं विस्तरेण तज्ज्ञानं प्राप्नुमः । |
| 01:11 | वयमधुना एक्लिप्स् गत्वा new project StaticVariableDemo रचयाम । |
| 01:18 | अस्मिन् प्रकल्पे, स्टेटिक् वेरियेबल्स् इत्यस्य विवरणाय आवश्यकानि क्लासस् रचयाम । |
| 01:26 | अतः src सञ्चयस्योपरि रैट् क्लिक् कृत्वा, New > Class नुत्वा क्लास् इत्यस्य नाम StudentEnroll इति लिखित्वा एण्टर् नुदन्तु । |
| 01:37 | अधुना उदाहरणेन सह स्टेटिक् वेरियेबल्स् इत्येतेषां विनियोगं प्रदर्शयामः । |
| 01:42 | एकस्यां संस्थायां छात्राणां नामाङ्कनस्य प्रातिनिध्याय रचितमेकं क्लास् पश्यन्तु । |
| 01:49 | इदं क्लास् छात्राणां नामाङ्कनस्य Name, Id , Branch अपि च Total Count प्राप्तवदस्ति । |
| 01:56 | अधुना छात्राणां नामाङ्कने कृते किं भविष्यतीति पश्याम । |
| 02:02 | उत्सर्गतया, Total Count इतीदं 0 अस्ति । प्रथमविद्यार्थिनः Name इतीदं ADIL वर्तते । |
| 02:09 | Id इतीदं IT101, Branch इतीदं IT च वर्तेते । |
| 02:14 | अधुना Total Count इतीदं 1 इति नवीकृतम् । |
| 02:18 | तथैव द्वितीयः विद्यार्थी AMAL नामाङ्कनं यदा प्राप्नोति तदा , Total Count इतीदं 2 इति नवीक्रियते । |
| 02:25 | तृतीयः विद्यार्थी CAROL नामाङ्कने सति , Total Count इतीदं 3 इति जायते । |
| 02:32 | अधुना वयं जानामः यत Total Count इति वेरियेबल्, सर्वेभ्यः ओब्जेक्ट् इत्येतेभ्यः समानं वर्तते तथा एकमेव मूल्यं प्राप्तवद् वर्तते इति । |
| 02:40 | अतः Total Count इति वेरियेबल् स्टेटिक् वेरियेबल् इत्यङ्गीक्रियते । |
| 02:45 | वयं जानामः यत् Name, Id तथा Branch इतीमानि वेरियेबल्स्, प्रत्येकस्मै ओब्जेक्ट् इत्यस्मै स्वकीयानि प्रतिरूपाणि प्राप्तानि सन्ति इति । |
| 02:54 | तथा तानि प्रत्येकस्मै ओब्जेक्ट् इत्यस्मै असाधारणं मूल्यं प्राप्तवन्ति सन्ति । |
| 02:59 | अतः एतानि इन्स्टेन्स् वेरियेबल्स् भवितुमर्हन्ति । |
| 03:04 | अधुना student enroll क्लास् इत्यस्मै सम्बद्धानि कोड् पश्याम । |
| 03:09 | इन्स्टेन्स् वेरियेबल्स् इतीमानि id, name तथा branch इति डिफ़ैन् कृतानि । |
| 03:16 | count इतीदं स्टेटिक् रूपेण डिक्लेर् जातम् यतः इदं सम्पूर्ण-क्लास् मध्ये सामान्यम् वर्तते । |
| 03:22 | यदा एकं class लोड् जायते तदा एकं static veriable इतीदं एकां स्थायीस्मृतिस्थानं प्राप्नोति । |
| 03:28 | परन्तु प्रत्येकस्य objectइत्यस्य Instance variables इतीमानि प्रत्येकं स्मृतिस्थानं प्राप्नुवन्ति । |
| 03:35 | अधुना Source > नुत्वा Generate Constructor using Fields चिन्वन्तु । |
| 03:41 | कोड् मध्ये super कीवर्ड् निष्कासयन्तु । |
| 03:45 | इदं कन्स्ट्रक्टर्, id, name तथा branch फ़ील्ड्स् इत्येतेषां मूल्यानि इनिशियलैस् कर्तुं शक्नोति । |
| 03:51 | अस्माभिः ओब्जेक्ट् रचिते सति, count वेरियेबल् इत्यस्य मूल्यं प्रतिवारम् अधिकं कर्तव्यम् । |
| 03:59 | अतः कन्स्ट्रक्टर् इत्यस्यान्तः, count ++ semicolon इति टङ्कयन्तु । |
| 04:05 | वयमधुना वेरियेबल्स् इत्येतेषां मूल्यानि मुद्रापयितुं, क्लास् इत्यस्मै showData( ) इति मेथड् संयोजयाम । |
| 04:13 | अतः public void showData( ) इति टङ्कयित्वा, ब्रेकेट्स् मध्ये अधस्तन कोड् टङ्कयन्तु येन id, name, branch, तथा नामाङ्कितविद्यार्थिनां सङ्ख्या च मुद्राप्यते । |
| 04:27 | अधुना default package उपरि रैट् क्लिक् कृत्वा New > Class नुत्वा नाम Demo इति टङ्कयन्तु । |
| 04:36 | अस्मिन् क्लास् मध्ये वयं मेन् मेथड् प्राप्नुमः । |
| 04:39 | अतः main इति टङ्कयित्वा ctrl+space नुत्वा main method रचयन्तु । |
| 04:46 | अधुना अस्माभिः स्टुडेण्ट् एन्रोल्मेण्ट् डेटा इतीदं मुद्रापणीयम् । |
| 04:50 | वयं StudentEnroll क्लास् इत्यस्य कानिचन ओब्जेक्ट्स्, स्टुडेण्ट्स् एन्रोल्मेण्ट् इत्यस्य प्रातिनिध्याय रचयाम । |
| 04:57 | अतः अधस्तन कोड् टङ्कयन्तु : StudentEnroll s1 equals new StudentEnroll |
| 05:04 | अदुना वयं नाना ओर्ग्युमेण्ट्स् मूल्यानि पास् कुर्मः । |
| 05:08 | ब्रेकेट् मध्ये, एवं टङ्कयन्तु IT101 इतीदं' ऐ डि रूपेण, ADIL इतीदं नेम् इति अपि च IT इतीदं ब्रेञ्च् इति । |
| 05:17 | वयमधुना नामाङ्कनस्य विवरणानि मुद्रापयितुं शो डेटा मेथड् इतीदम् इन्वोक् कुर्मः । |
| 05:22 | अतः, s1.showData( ) इति टङ्कयन्तु । Demo प्रोग्राम् इतीदं रन् कुर्वन्तु । |
| 05:29 | वयं पश्यामः यत् , s1 इत्यस्मै सम्बद्धानि इन्स्टेन्स् वेरियेबल्स् मूल्यानि मुद्राप्यन्ते । |
| 05:36 | तथावलोक्यतां यत्, नामाङ्कित-विद्यार्थिनां सङ्ख्यायाः मूल्यं 1 इति मुद्राप्यते । |
| 05:42 | यतो हि अस्माभिः 1 ओब्जेक्ट् रचितम् । |
| 05:47 | अधुना s2 इति ओब्जेक्ट् निर्मातुम् अधस्तन कोड् टङ्कयन्तु । |
| 05:52 | showData मेथड् इतीदं s2 इतीदमुपयुज्य काल् कर्तुमर्हति । |
| 05:56 | पुनः Demo प्रोग्राम् इतीदं रन् कुर्वन्तु । |
| 05:59 | पश्यामः यत्, s2 इत्यस्मै सम्बद्धानि इन्स्टेन्स् वेरियेबल्स् मूल्यानि मुद्राप्यन्ते । |
| 06:06 | अपि चावलोक्यतां यत्, विद्यार्थिनां नामाङ्कनसङ्ख्या, s1 तथा s2 इत्येतेभ्यः 2 इति उप्डेट् जायते । |
| 06:14 | अधुना s3 इत्येकम् ओब्जेक्ट् रचयन्तु । |
| 06:18 | अधुना showData मेथड् इतीदं s3 इतीदमुपयुज्य इन्वोक् कुर्मः । |
| 06:23 | Demo प्रोग्राम् इतीदं रन् कुर्मः । |
| 06:26 | पश्यामः यत् s3 इत्यस्मै सम्बद्धस्य इन्स्टेन्स् वेरियेबल् इत्यस्य मूल्यं मुद्राप्यते । |
| 06:32 | पुनरवोलोक्यतां यत्, विद्यार्थिनां नामाङ्कनसङ्ख्या अधुना 3 इति नवीकृतम् इति । |
| 06:41 | ज्ञायते यत्, विद्यार्थिनां नामाङ्कनसङ्ख्यायाः मूल्यं सर्वेषु ओब्जेक्ट्स् मध्ये समानमस्ति इति । |
| 06:48 | स्लैड्स् प्रति आगच्छन्तु । |
| 06:51 | static मोडिफ़ैयर् इतीदमपि final मोडिफ़ैयर् इत्यनेन सह उपयुज्यते । |
| 06:56 | इदं सम्पूर्णाय क्लास् इत्यस्मै सम्बद्धं कोन्स्टेण्ट् इतीदं डिफ़ैन् कर्तुं कृतम् । |
| 07:01 | पारम्परिकक्रमे, तादृशानां कोन्स्टेण्ट् वेरियेबल्स् इत्येतेषां नाम उप्पर् केस् मध्ये वर्तन्ते । |
| 07:08 | अधुना एक्लिप्स् प्रति आगच्छन्तु । |
| 07:11 | StudentEnroll class इतीदमुद्घाट्य वेरियेबल् डिक्लरेशन् इतीदं public static final String ORG_NAME = “IITB”; इति टङ्कयन्तु । |
| 07:23 | उदाहरणार्थम्, यदि सर्वे विद्यार्थिनः एकस्मिन्नेव संस्थायां नामाङ्कनं कुर्वन्ति, यथा IITB |
| 07:31 | तर्हि इदं कोन्स्टेण्ट् स्टेटिक् वेरियेबल् इत्यनेन प्रयुज्यते । यथा ORG_NAME |
| 07:38 | यदि नाम एकाधिकेन पदेन युतः भविष्यति तर्हि, पदानि अण्डर्-स्कोर् द्वारा पृथक् क्रियन्ते । |
| 07:44 | सामान्यतया वयं तादृशानि कोन्स्टॆन्ट्स् इतीमानि public विसिबिलिटि इत्यनेन सह उपयुञ्ज्महे । |
| 07:49 | अधुना Demo क्लास् गत्वा अधस्तन कोड् टङ्कयन्तु । |
| 07:55 | अत्र वयं पश्यामः यत्, ORG_NAME इतीदं तस्य StudentEnroll नाम्नः क्लास् द्वारा एक्सेस् क्रियते इति । |
| 08:03 | अधुना पुनः Demo प्रोग्राम् इतीदं रन् कुर्मः। |
| 08:06 | पश्यामः यत्, ORGANISATION इत्यस्य नाम IITB इति मुद्रापयते इति । |
| 08:11 | सारं पश्यामः । पाठेऽस्मिन् वयं : |
| 08:17 | static variable नाम किम् अपि चेदं कदा उपयुज्यते, |
| 08:21 | static variables इत्यस्य रचना, इन्वोक् करणञ्च कथम् इति ज्ञातवन्तः । |
| 08:25 | पाठनियोजनार्थं, CarService इति क्लास् रचयन्तु, तत्तु कार् यानस्य सेवास्थानस्य प्रातिनिध्याय भवेत् । |
| 08:32 | इदं क्लास् अधस्तन विवरणानां प्रातिनिध्याय वेरियेबल्स् प्राप्तवत् स्यात् : Name सेवास्थानस्य , |
| 08:39 | कार् यानस्य make, model तथा register number – यत् सेवार्थमागतम्, |
| 08:44 | सेवार्थमागतानि No. of Cars in च । |
| 08:47 | instance variables अपि च static variables एते अभिजानन्तु । |
| 08:51 | सूक्तेन कीवर्ड् द्वारा तानि उपयुज्यताम् । |
| 08:55 | एकं constructor इतीदं डिफ़ैन् करोतु येन कार् यानस्य make, model तथा register number मूल्यानि इनिशियलैस् जायन्ते । |
| 09:01 | show( ) इति मेथड् डिफ़ैन् करोतु येन वेरियेबल्स्-मूल्यानि मुद्राप्यन्ते । |
| 09:07 | अपि च फलितपरीक्षणाय मेन्-मेथड्-युतम् एकं डेमो क्लास् रचयन्तु ।
अर्थात् CarService इत्यस्य कानिचन objects रचयन्तु । |
| 09:16 | इमानि ओब्जेक्ट्स् उपयुज्य show( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु । |
| 09:20 | अपि च क्लास् नाम उपयुज्य static variables इतीमानि एक्सेस् कुर्वन्तु । |
| 09:25 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् । |
| 09:32 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । |
| 09:41 | अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
| 09:45 | स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
| 09:51 | अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु । |
| 09:56 | पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा कृतम् । |
| 10:03 | अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |