Java/C3/Static-Methods/Sanskrit

From Script | Spoken-Tutorial
Revision as of 23:04, 28 November 2019 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 Static Methods इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 पाठेऽस्मिन् वयं static methods नाम किम् तथा static methodsइत्यस्य डिफ़ैन् करणं कथम्,
00:12 instance methods तथा static methods अनयोः भेदः, अपि च static methods इत्यस्य विनियोगः इत्येतान् विषयान् ज्ञास्यामः ।
00:20 वयमत्र Ubuntu 14.04 , JDK 1 .7 तथा Eclipse 4.3.1 च उपयुञ्ज्महे ।
00:31 पाठस्यास्य अनुसरणाय भवद्भ्यः, Java तथा Eclipse IDE अनयोः ज्ञानं स्यात् ।
00:38 भवन्तः जावा मध्ये instance variables, methods अपि च static variables एतेषां ज्ञानमपि प्राप्तवन्तः स्युः ।
00:45 न चेत् तत्सम्बद्ध Java पाठार्थम् अधस्तन लिङ्क् पश्यन्तु ।
00:50 एकं static method इतीदमेकं मेथड् वर्तते यत्, सम्पूर्णाय class इत्यस्मै सम्बद्धं वर्तते ।
00:56 इदं class method इत्यपि कथ्यते तथेदं static कीवर्ड् द्वारा डिक्लेर् जायते ।
01:02 Static methods इतीमानि static variablesइत्येतेषां निर्वहणाय उपयुज्यन्ते ।
01:07 वयमधुना एक्लिप्स् गत्वा StaticMethodDemo नाम्नः प्रोजेक्ट् रचयाम ।
01:14 प्रकल्पे वयं स्टेटिक् मेथड्स् इत्येतेषां विनियोगप्रदर्शनाय आवश्यकानि क्लासस् रचयाम ।
01:21 वयं StudentEnroll नाम्नः क्लास् रचयाम ।
01:25 वयमधुना उदाहरणैः सह static methods इत्यस्य विनियोगं जानाम ।
01:30 उदाहरणं स्टेटिक् वेरियेबल् पाठे यथोक्तं तद्वत् वर्तते ।
01:37 अत्र वयं पुनः StudentEnroll class इत्यस्य प्रातिनिध्यं कुर्मः ।
01:42 स्मर्यतां यत्, name तथा id इति द्वे वेरियेबल्स् इत्यनयोः निर्वहणं इन्स्टेन्स् वेरियेबल्स् रूपेण जातम् ।
01:48 अत्र organization अपि च total count इति द्वे वेरियेबल्स् सम्पूर्ण-क्लास् मध्ये सामान्यं वर्तते ।
01:54 अतः ते स्टेटिक् वेरियेबल्स् इति स्वीक्रियेते ।
01:58 अतः StudentEnroll क्लास् इत्यस्य प्रातिनिध्याय अधस्तन कोड् टङ्कयन्तु ।
02:03 अवलोक्यतां यत्, द्वे स्टेटिक् वेरियेबल्स् स्तः; नाम्ना count अपि च orgname
02:08 तथा च orgname इतीदमेकं स्टेटिक् कोन्स्टेण्ट् नास्ति परन्तु इदमेकं सामान्यं स्टेटिक् वेरियेबल् वर्तते ।
02:15 स्टेटिक् वेरियेबल् orgname इतीदम् “IIT Bombay” इति इनिशियलैस् जातम् ।
02:21 अधुना Source -> उपरि नुत्वा Generate Constructor using Fields इतीदं चिन्वन्तु ।
02:27 रचिते कोड् मध्ये super कीवर्ड् इतीदं निष्कासयन्तु ।
02:32 कन्स्ट्रक्टर् इत्यस्यान्तः , count ++ semicolon इति टङ्कयन्तु । अनेन count इत्यस्य मूल्यं प्रतिवारम् ओब्जेक्ट् रचनाकाले अधिकं जायते ।
02:42 वयमधुना क्लास् इत्यस्मै, वेरियेबल्स् इत्येतेषां मूल्यमुद्रापणाय, showData( )नाम्नः मेथड् संयोजयाम ।
02:48 अतः public void showData( ) इति टङ्कयन्तु ।
02:51 ब्रेकेट् अन्तः अधस्तन कोड् टङ्कयन्तु येन id, name तथा organisation name इत्येतेषां मूल्यानि मुद्राप्यन्ते ।
02:58 वयमधुना setOrgName नाम्नः स्टेटिक् मेथड् संयोजयाम ।
03:03 अधस्तन कोड् टङ्कयन्तु ।
03:05 अत्र दर्शितं setOrgName मेथड् इतीदमेकं स्टेटिक् मेथड् वर्तते यत् orgname इत्यस्य मूल्यं परिवर्तयितुं शक्नोति ।
03:13 यत्किमपि मेथड् , स्टेटिक् वेरियेबल्स् इत्येतेषां निर्वहणार्थं वर्तते तत् static method इति कथ्यते ।
03:19 वयमधुना instance method अपि च static method अनयोः अन्तरं जानाम ।
03:25 Instance methods इतीमानि static variables इतीमानि एक्सेस् कर्तुं शक्नोति ।
03:29 परन्तु एकं static method केवलं static variablesइतीमानि एक्सेस् कर्तुं परिवर्तयितुं च शक्नोति ।
03:35 Instance methods इतीमानि एकेन object द्वारा इन्वोक् जायन्ते ।
03:39 परन्त्वेकं static method इतीदं object रचनां विना, इन्वोक् भवितुमर्हति ।
03:45 वयं static methodइत्यस्यान्तः, ‘this’ तथा ‘super’ कीवर्ड् उपयोक्तुं न शक्नुमः ।
03:50 यतो हि इमानि कीवर्ड्स्, उद्दिष्टस्य क्लास् इत्यस्य इन्स्टेन्स् इत्यस्मै रेफ़र् जायन्ते ।
03:56 स्टेटिक् कोण्टेक्स्ट् मध्ये, एकस्य क्लास् इत्यस्य इन्स्टेन्स् इत्यस्मै, रेफ़र् कर्तुं न शक्नुमः ।
04:01 इन्स्टेन्स् वेरियेबल् इतीदं स्टेटिक् मेथड् मध्ये साक्षात् एक्सेस् क्रियते चेत् किं भविष्यतीति पश्याम ।
04:09 अतः, id= “newid” semicolon इति टङ्कयन्तु ।
04:13 एक्लिप्स् दोषं दर्शयति ।
04:17 इदं वदन्नस्ति यत्, एकम् इन्स्टेन्स् वेरियेबल् स्टेटिक् मेथड् मध्ये साक्षात् उपयोक्तुं नार्हति इति ।
04:23 अतः इमां पङ्क्तिं कमेण्ट् कृत्वा अग्रे गच्छामः ।
04:27 वयमधुना showOrgData नाम्नः स्टेटिक् मेथड् संयोजयाम ।
04:31 इमानि स्टेट्मेण्ट्स् orgname तथा count अनयोः मूल्यं मुद्रापयन्ति ।
04:36 अधुना default packageउपरि रैट् क्लिक् कृत्वा, New-> Class नुत्वा पश्चात् नाम Demo इति टङ्कयन्तु ।
04:44 अस्मिन् क्लास् मध्ये वयं मेन् मेथड् प्राप्नुमः ।
04:48 अतः main इति टङ्कयित्वा, मेन् मेथड् निर्मातुं Ctrl+space च नुदन्तु ।
04:54 वयं StudentEnroll क्लास् इत्यस्य कानिचन ओब्जेक्ट्स्, विद्यार्थिनां नामाङ्कनस्य प्रातिनिध्याय रचयाम ।
05:01 अतः s1, s2 तथा s3 इति त्रीणि ओब्जेक्ट्स् रचयितुम् अधस्तन कोड् टङ्कयन्तु ।
05:08 अधुना वयं showData मेथड् इतीदं, नामाङ्कनस्य विवरणानि मुद्रापयितुं इन्वोक् कुर्मः ।
05:12 s1, s2 अपि च s3 मध्ये, showData मेथड् इत्यस्य इन्वोक् करणाय अधस्तन कोड् टङ्कयन्तु ।
05:19 orgname तथा count अनयोः मूल्यानि मुद्रापयितुं, showOrgData मेथड् इतीदम् इन्वोक् कुर्मः ।
05:27 यतः इदमेकं स्टेटिक् मेथड् वर्तते, वयं क्लास् नाम उपयुज्य इदं साक्षात् इन्वोक् कर्तुं शक्नुमः ।
05:31 तत्कर्तुम् अधस्तन कोड् टङ्कयन्तु
05:34 वयमधुना Demo प्रोग्राम् प्रति गच्छाम ।
05:37 भवन्तः पश्यन्ति यत्, s1 इत्यस्मै सम्बद्धानि वेरियेबल्स्, अर्थात् IT101, ADIL तथा IIT BOMBAY च मुद्राप्यन्ते ।
05:47 तथैव s2 तथा s3 इत्याभ्यां सम्बद्धानि मूल्यानि च मुद्राप्यन्ते ।
05:53 पश्यतां यत् orgname इत्यस्य मूल्यम् अर्थात् IIT BOMBAY इतीदं s1, s2 तथा s3 इत्येतेषु सामान्यं वर्तते ।
06:02 orgname तथा count इत्येते प्रत्येकतया, स्टेटिक् मेथड् showOrgData द्वारा मुद्रापिते ।
06:08 पश्यतां यत्, organisation name इतीदं IIT Bombay इति मुद्राप्यते ।
06:13 student enrolled इत्यस्य सङ्ख्या 3 इति मुद्राप्यते, यतः अस्माभिः त्रीणि ओब्जेक्ट्स् रचितानि ।
06:21 एकं स्टेटिक् मेथड् इतीदं क्लास् इत्यस्य नाम्ना साक्षात् इन्वोक् भवितुं शक्नोति ।
06:26 वयमधुना setOrgName नाम्नः स्टेटिक् मेथड् इन्वोक् कुर्मः ।
06:30 अतः वयं ओर्गनैसेशन् नेम् इतीदं “IIT Bombay” तः “IIT Mumbai” प्रति परिवर्तयाम ।
06:36 अधस्तन कोड् टङ्कयन्तु ।
06:38 अधुना पुनरेकवारं showData मेथड् इतीदम् s1, s2 तथा s3इत्यस्मिन् इन्वोक् कुर्मः ।
06:47 तदर्थम् अधस्तन कोड् पुनरेकवारं टङ्कयन्तु ।
06:50 पुनरेकवारं, showOrgData मेथड् इतीदं, orgname तथा count अनयोः मूल्यं मुद्रापयितुं इन्वोक् कुर्मः ।
06:58 तत्कर्तुम् अधस्तन कोड् टङ्कयन्तु ।
07:00 पुनरधुना Demo प्रोग्राम् इतीदं रन् कुर्मः ।
07:03 पश्यामः यत् organisation name इतीदं “IIT Mumbai” इत्यस्मै परिवर्तितम् इति ।
07:08 पुनः स्लैड्स् प्रति आगच्छाम ।
07:11 ओब्जेक्ट् रेफ़रेन्सस् इतीमानि static method इत्यस्मै पास् कर्तुं शक्नुमः ।
07:15 एवम् एकं static methodइतीदम् एकस्य ओब्जेक्ट् इत्यस्य instance variables इतीदम् एक्सेस् कर्तुं शक्नोति ।
07:22 अस्माकं कोड् मध्ये प्रयतामहे । Eclipse प्रति गत्वा StudentEnroll class नुदन्तु ।
07:30 अधुना setOrgName मेथड् मध्ये, अन्यमेकम् ओर्ग्युमेण्ट् इतीदम्, StudentEnroll क्लास् इत्यस्य ओब्जेक्ट् रूपेण पास् कुर्मः ।
07:38 अतः String org इत्यस्यानन्तरं, comma StudentEnroll s इति टङ्कयन्तु ।
07:45 अधुना अस्मिन् मेथड् मध्ये, id = "newid" इतीदम् अन्-कमेण्ट् कुर्वन्तु ।
07:50 अपि च id इत्यस्य स्थाने, s.id इति टङ्कयन्तु ।
07:54 अधुना Demo क्लास् प्रति गच्छन्तु ।
07:56 अधुना फ़ङ्क्षन् काल् इतीदं setOrgName मेथड् इत्यस्मै, स्टुडेण्ट् एन्रोल् ओब्जेक्ट् s1 इत्यस्य पास् करणेन परिवर्तयामः ।
08:05 अतोऽत्र “IIT Mumbai” इत्यस्यानन्तरं, comma s1 इति टङ्कयन्तु ।
08:10 अधुना पुनः Demo प्रोग्राम् प्रति आगच्छन्तु ।
08:12 पश्यामः यत्, s1इत्यस्मै idइत्यस्य मूल्यं , “newid” इति परिवर्तितम् ।
08:19 सारं पश्याम । पाठेऽस्मिन् वयम् ,
08:24 static method नाम किम् अपि च कदा इदम् उपयुज्यते
08:28 कथं static methods तथा instance methods अनयोः भेदज्ञानं भवेत्,
08:33 कथं static methods इत्यस्य रचना इन्वोक् करणञ्च, इतीमानि ज्ञातवन्तः ।
08:37 इदं पाठनियोजनं स्टेटिक् वेरियेबल् पाठस्य नियोजनस्य अनुवर्तनम् अस्ति ।
08:42 अतः दृढी कुर्वन्तु यत्, भवन्तः स्टेटिक् वेरियेबल् इति पाठनियोजनम् समापितवन्तः इति ।
08:47 अतः अत्र केवलं परिवर्तनानि उल्लिखामः ।
08:50 वयमत्र “status” इत्यस्य प्रातिनिध्याय वेरियेबल् प्राप्तवन्तः ।
08:55 इदं कार्-यानं सर्वीस् कर्तुं “in” वर्तते वा सर्वीस् भूत्वा “out” वर्तते वा इति दर्शयति ।
09:01 सर्वीस् जाते सति No of cars out दर्शयितुम् अन्यं वेरियेबल् प्राप्तवन्तः स्मः ।
09:08 service( Car c) नाम्नः मेथड् इतीदं डिफ़ैन् कुर्वन्तु येन स्थितिः ”out” इति नवीक्रियते ।
09:13 तदनुगुण्येन इमानि मूल्यानि अधोनिर्दिष्टेभ्यः परिवर्तयति -
09:17 सर्वीस् कर्तुं No of Cars in, सर्वीस् भूत्वा No of Cars out
09:21 कार्-यानस्य विवरणानि मुद्रापयितुं show( ) मेथड् इतीदं डिफ़ैन् करोतु ।
09:26 पूर्ववत्, अधोनिर्दिष्टानि अस्माभिः करणीयानि ।
09:30 जानन्तु यत्, अस्माभिः स्टेटिक् मेथड् इतीदं यथापेक्षितं डिफ़ैन् तथा ऐडेण्टिफ़ै करणीयम् ।
09:35 एकं Demo class रचयन्तु ।
09:38 मेन् मेथड् मध्ये, CarService इत्यस्य कानिचन ओब्जेक्ट्स् रचयन्तु ।
09:43 तेषु कुत्रचित् service( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु ।
09:47 सर्वाणि ओब्जेक्ट्स् उपयुज्य show( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु । फलितपरीक्षणं कुर्वन्तु ।
09:52 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।
09:57 अवचित्यापि दृष्टुं शक्यते तत् ।
09:59 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति ।
10:08 अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:11 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
10:18 अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु ।
10:22 पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा कृतम् ।
10:30 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14