GIMP/C2/Two-Minutes-Edit/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:18, 22 October 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:25 Rolf Steinort महाभागः इदं, Northern Germany इति देशे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् अस्ति ।
00:31 अत्र चित्रेण अनेन का समस्या अभवत् ?
00:35 अस्य फलकस्य (board) उपरि किम् अस्ति इति सम्यक् न दृश्यमानम् अस्ति ।
00:39 अतः, pop out इति कर्तुम् अत्रत्यं लिखितम् इदं मह्यम् अपेक्षते ।
00:44 अहम् आकाशं यथावत् स्थापयामि । अतः अहम् layer इतीदं द्विवारं करोमि तथैव Curves इति साधनं चिनोमि ।
00:56 अपि च चित्रस्य इमं भागं पश्यामि ।
01:02 इदं प्रकाश्यं प्राप्तुम् अहं वक्रम् उपरि कर्षयामि ।
01:10 इदम् अत्यन्तं सम्यक् दृश्यते । इदानीम् अत्र किञ्चित् गाढतां प्राप्तुम् अहं कृष्णबिन्दुम् इतोऽपि उपरि कर्षयामि ।
01:19 इदं कार्यं करोति इति मे भावना ।
01:25 इदानीं, मह्यम् अधस्तन चित्रे चिह्नफलकस्थं (sign board) लिखितम् अपेक्षते ।
01:32 अतः, अहं layer mask इतीदं चित्वा तत् कृष्णेन पूरयामि ।
01:43 इदानीम्, अहं पुनः पूरातनचित्रं प्रति आगतवान् । अपि च श्वेतसीमायुक्तां layer mask इत्यस्याः उपरि कार्यं करोमि ।
01:54 इदानीम् अहम् अत्र Paint इति साधनं चिनोमि ।
02:00 अपि च White इतीदं मम Foreground Colour रूपेण चिनोमि ।
02:05 अहं Brush चित्वा तत् बृहत् करोमि ।
02:12 अपि च इदानीम्, अहं स्तरवर्णिकायाः उपरि रङ्गसेचनं कुर्वन् अस्मि ।
02:18 अपि च कदाचित् मया चित्रे सर्पणं करणीयं भवेत् ।
02:25 इदम् उत्तमम् अस्ति ।
02:27 तत् उत्तमम् ।
02:31 मम कीलकसाङ्केतिके (key indicator) नुत्तानि कीलकानि भवान् द्रष्टुं शक्नोति ।
02:37 इदम् अतीव उत्तमं दृश्यते ।
02:40 इदानीम् अहं पुनः इमं स्तरं द्विवारं कृत्वा Overlay इति दशां चिनोमि । पृष्ठदेशे किञ्चित् अधिकं pop इतीदं प्राप्तुं Opacity इतीदं किञ्चित् अधः करोमि ।
03:03 इदम्, इदानीम् अतीव उत्तमं दृश्यते इति अहं चिन्तये ।
03:07 इदानीम् अहम् इदं चित्रं रक्षितुं सिद्धः अस्मि ।
03:12 अहम् अत्र copies इत्येषाम् उपरि कार्यं कुर्वन् अस्मि । अतः अहं Save इतीदं नोत्तुम् अथवा Ctrl + S इतीदं नोत्तुं शक्नोमि । सर्वाः इमाः स्तराः अत्र रक्षणीयाः नास्ति अपि च इदम् अहं JPEG image इति रूपेण रक्षामि ।
03:32 इदं चित्रं जाले उपारोपणं (uploading) कर्तुं पुनराकारस्य अवश्यकता अस्ति । अतः अहं क्रमशः Image, Scale Image इत्यत्र गच्छामि । अपि च Width इतीदं 600 प्रति न्यूनीकरोमि ।
03:58 इदानीं, मया इदं किञ्चित् तीक्ष्णं कर्तव्यम् अस्ति । अतः अहं Filters >> Enhance >> Sharpen इत्यत्र गच्छामि ।
04:20 अहं चित्रस्थं art effects इत्येतदर्थं परिशीलयामि । अपि च अत्र भवान् कञ्चित् प्रकाशं पश्यति ।
04:38 इदानीम् अहम् इदं प्रतिलेखरूपेण (copy) रक्षामि ।
04:44 इदं "small" इति नामकरणं कृत्वा रक्षामि ।
04:50 अपि च अस्य चित्रस्य कार्यं समापितवान् ।
04:53 सम्पादनवेलायाम् अंशद्वयं भवता सर्वदा स्मर्तव्यम् ।
04:58 प्रथमतः, चित्रस्य एकं भागं परिवर्त्य अवशिष्टं तथैव रक्षणीयं चेत् तदा layer इत्यस्य एकं प्रतिलेखं कृत्वा भवतः परिवर्तनानि करोतु । अनन्तरं layer mask इतीदं सक्रियं करोतु ।
05:15 कृष्णवर्णः चित्रं गोपयति अपि च श्वेतः तत्रत्यं प्रत्यक्षीकरोति ।
05:22 द्वितीयं तु, यदि भवान् Overlay इति दशायां तस्य उपरि द्वितीयस्तरं स्थापयति तर्हि चित्रस्य कृते उत्तमः व्यतिरेकः (contrast) वर्णश्च प्राप्यते ।
05:33 अतिशीघ्रं सम्पादयितुम् इमौ द्वौ उपायौ स्तः ।
05:41 अस्मिन् चित्रे, न्यूनातिन्यूनं भवान् समस्याद्वयं द्रष्टुं शक्नोति ।
05:46 प्रथमा, जनानां पादान् अहं कर्तितवान् । ते तत्र भवन्ति चेत् सम्यक् भवति स्म ।
05:55 अपि च द्वितीयसमस्या, इमानि भवनानि चित्रे पतन्ति सन्ति । यतोहि अहं चित्रकम् (camera) उन्मुखं गृहीतवान् आसम् ।
06:08 अहं Perspective इति साधनं चिनोमि ।
06:15 Direction इति संवादपेटिकायाः अहं Corrective (Backward) इतीदं चित्वा Preview इत्यत्र Grid इतीदं चिनोमि ।
06:23 Outline अथवा Image इति चेतुं शक्नोमि किन्तु, अहं Grid इतीदं चिनोमि ।
06:30 अपि च यदा चित्रे अहं नुदामि तदा सूच्यांशगवाक्षं (info window) लभ्यते । इदम् उपयुक्तसूच्यांशेन युक्तं नास्ति ।
06:38 अतः, अहं तत् बहिः कर्षयामि । अपि च इदानीं मह्यं grid इतीदं प्राप्तम् अस्ति । मया कर्तव्यम् एतावदेव यत् grid lines इतीमाः चित्रे लम्बरेखाभिः सह स्थापनीयाः ।
06:52 grid lines इति इमाः फलितचित्रे (output image) लम्बरेखायाम् अथवा अनुप्रस्थे (horizontal) भवन्ति । इयम् अन्तिमरेखा चित्रस्य अत्यन्तम् उपरिविद्यमानरेखा अस्ति ।
07:02 अतः, अहम् इदम् अत्र कर्षयामि ।
07:07 अहं चित्रे परितः पश्यामि । अपि च इदम् उचितम् (fairly) अस्ति ।
07:41 अपि च अहं Transform इतीदं नुदामि ।
07:45 अपि च रूपान्तरणपर्यन्तम् अस्माभिः प्रतीक्षा करणीया ।
07:51 अपि च तत् अत्र अस्ति ।
07:55 इदानीं भवान् अत्र द्वितीयसमस्यां पश्यति ।
08:00 इयं भूमिः अत्युत्तमा नास्ति ।
08:03 अतः, मया इदं चित्रं crop करणीयम् अस्ति ।
08:16 अहं, मम Crop इति साधनं प्रति गच्छामि ।
08:19 मया पार्श्वस्थं भवनं crop करणीयम् अस्ति । अपि च तत्र केवलम् इदं त्यक्तव्यम् अस्ति ।
08:28 इदं किञ्चित् चतुरस्रम् इव दृश्यते । अतः अहं Fixed Aspect ratio इतीदं नुत्वा तत् ‘1 by 1’(1:1) रूपेण रक्षामि ।
08:40 इदानीं मह्यं चतुरस्रं crop इतीदं प्राप्तम् ।
08:45 चित्रे जनान् रक्षितवान् अस्मि ।
08:51 crop इतीदं कार्यं करोति इति मे चिन्तनम् ।
08:56 तस्य उपरि नुदामि, इदम् अत्र अस्ति ।
09:00 इदानीम् अहं Curves इति साधनं चिनोमि ।
09:04 तत्र अधिकं व्यतिरेकं प्राप्तुं high lines इतीमाः इतोऽपि उपरि करोमि ।
09:19 इदानीम्, इदं चित्रम् अपि समाप्तम् ।
09:24 इदम् अग्रिमं चित्रम् अस्ति ।
09:27 अतः, चित्रेण अनेन किं कर्तव्यम् ?
09:37 अहं Rotate इति साधनं चिनोमि । अपि च 1 इतीदं नुत्वा चित्रे सर्पणं करोमि ।
09:49 अत्र, चित्रस्य मध्ये अहं लम्बरेखायुक्तं भागं प्रति ईक्षयामि । Direction इत्यत्र अहं Corrective (Backward) rotation इतीदं चिनोमि ।
10:04 Cubic Interpolation इतीदं चित्वा Preview इत्यत्र Grid इतीदं चिनोमि ।
10:12 इदानीम्, अहं grid lines इतीमाः प्राप्तुं चित्रे नुदामि । इदानीम् इमाः अस्य गृहस्य लम्बरेखायुक्तरचनाभिः सह स्थापयामि ।
10:24 इदम् एतावत् एव इति मे मतिः ।
10:28 अत्र उद्घाटितं लघुगवाक्षम् 2.90 इति मात्रां दर्शयति । अपि च अहं Rotate इतीदं नुत्वा अन्तिमफलितार्थं प्रतीक्षां करोमि ।
10:40 इदम् अत्र अस्ति ।
10:44 अस्तु, इदं सम्यक् दृश्यते ।
10:48 अत्र बहु लोलनम् (distortion) इति भवान् द्रष्टुं शक्नोति । मया तत् समीकर्तुं द्रष्टव्यम् अस्ति । किन्तु, अहम् इदानीं चित्रं crop कुर्वन् अस्मि ।
11:07 इदम् अस्तु इति मे चिन्तनम् ।
11:13 अहं चित्रं सम्यक् न परिभ्रामितवान् (rotated) इति चिन्तये ।
11:23 अस्तु ! पर्याप्तरूपेण न परिभ्रमितवान् । अपि च अहं योग्यं स्थानं न चितवान् ।
11:34 अतः, वयं पुनः इदं कुर्मः ।
11:39 अहं Ctrl + Z इतीदं नुत्वा क्रमान् undo करोमि ।
12:00 अहं पुनः Rotate इति साधनं चिनोमि ।
12:10 अहं, पूर्वं कृतान् न्यासान् (settings) न परिवर्तयामि । इदानीं चित्रस्य केन्द्रम् अत्रत्य TV tower इत्यत्र व्यवस्थापयन् अस्मि ।
12:34 अपि च इदानीं नूनं TV tower कृते योजनं (align) करोमि ।
12:41 TV tower इतीदं चित्रस्य अतिमुख्यभागः अस्ति । अतः तत् ऋजु (straight) नास्ति चेत् चित्रमपि ऋजु न इति अनुभूयते ।
12:59 इदम् उत्तमं दृश्यते ।
13:01 इदानीं Crop इति साधनं स्वीकरोमि । अपि च तत्र निरुपयुक्तस्थानम् अप्राप्तं crop इतीदं चिनोमि ।
13:26 इदानीम् अन्तिमं, कदाचित् चित्रे किञ्चित् अधिकं व्यतिरेकम् आनेतुं curves इति साधनं उपयुञ्जे ।
13:44 इदम् अस्तु । चित्रेण अनेन अहं समापितवान् ।
13:50 इदं चित्रं portrait इति दशायां भवेत् । अतः, अहम् इदम् अत्र परिवर्तयामि ।
13:59 अहं क्रमशः Image >> Transform अपि च Rotate 90 degree anticlockwise प्रति गच्छामि ।
14:08 इदानीं मम चित्रं परिभ्रामितम् अस्ति ।
14:11 यदा वयं चित्रं 90 मात्रां (degrees) प्रति परिभ्रामयामः, तदा अस्य गुणवत्तता न नष्टं गता । इदं JPEG इति चित्रेषु विशेषेण मुख्यम् अस्ति ।
14:28 इदानीं वयं चित्रस्य कृते इतोऽपि किञ्चित् व्यतिरेकं दद्मः । इदं कर्तुम् अहं Curves इति साधनम् उपयुञ्जे ।
14:37 भवान् Levels इति साधनम् अथवा अन्यत् उपयोक्तुं शक्नोति । किन्तु, Curves इति साधनं मह्यम् अत्युत्तमम् इति अहं भावये ।
14:44 नूनम् ईषत् ‘S’ इति वक्रं तस्य उपरि स्थापयतु । अपि च इदं समाप्तम् इति अहं चिन्तये । अतः अहम् इदं चित्रं रक्षामि ।
14:59 इदानीम्, अग्रिमं चित्रम् ।
15:01 समासेन, भवतः चित्रं शीघ्रं सम्पादयितुं भवते कानिचन मूलभूतसाधनानि अपेक्ष्यन्ते ।
15:10 प्रथमं, Rotate इति साधनम् ।
15:13 Corrective इति दशाम् अपि च Preview इत्येदर्थं Grid इतीदम् उपयुज्यताम् । grid इतीदं लम्बरेखाभिः अथवा अनुप्रस्थेन योजनं करोतु ।
15:24 अनन्तरम् अभिनतरेखाभ्यः (tilting lines), Perspective इति साधनम् अपेक्षते ।
15:31 पुनः Corrective इति दशाम् अपि च Grid इतीदम् उपयुज्यताम् । अपि च grid इतीदं लम्बरेखाभ्यः अथवा अनुप्रस्थरेखाभ्यः योजनं क्रियताम् ।
15:48 चित्रस्य व्यतिरेकम् अपि च लघुत्वं समीकर्तुं Curves इति साधनं चिनोतु । अपि च ‘S’ इति वक्रं संयोज्यताम् । इदं बहुषु सन्दर्भेषु सहायकं भवति अथवा केषुचित् सन्दर्भेषु यदि भवान् मृदुचित्रम् इच्छति तर्हि विपरीतं ‘S’ इति वक्रं संयोजयतु । अत्र बहिः भवान् नैजं नभस्यं (fog) द्रष्टुं शक्नोति ।
16:23 अपि च क्रमशः Image >> Transform इति सूचिकां (menu) गच्छतु । अत्र चित्रं rotate इति भवान् कर्तुं शक्नोति तथैव फलितस्य आकारं scale इति कर्तुं शक्नोति ।
16:37 अन्तिमरूपेण, Filters इतीदं वेगेन सम्पादयितुं बहु मुख्यम् अस्ति ।
16:43 Enhance अपि च Sharpen इत्यत्र गच्छतु ।
16:47 बहूनां साधनानां संयोजनानन्तरम्, उदाहरणार्थं, rotating अथवा transformation tool, perspective tool अथवा resizing, चित्रं मृदुतरं भवति ।
17:02 अपि च तीक्ष्णकरणेन भवान् redo कर्तुं शक्नोति ।
17:08 भवान् layers इत्यनेन परिचितः भवेत् ।
17:15 प्रथमं, स्तरं द्विवारं करोतु । उदाहरणार्थं Overlay इति दशायाम् अथवा अन्यदशासु किं भवति इति परिशील्यताम् ।
17:26 अनुसन्दधातुम् अत्र बहु अस्ति । अपि च इमानि अहं कदाचित् विवृणोमि ।
17:33 Layer इति दशां सर्वदा परिवर्तयामि चेत् मह्यं सम्पूर्णतया विभिन्नं चित्रं प्राप्यते इति भवान् द्रष्टुं शक्नोति ।
17:41 यदि भवता चित्रस्य एकः प्रदेशः परिवर्तनीयः अस्ति तर्हि layer mask इतीदं योजयतु । अपि च चित्रे यत् द्रष्टव्यम् अस्ति तत् श्वेतेन पूरयतु तथैव ।
17:58 अपि च यत् द्रष्टुं न इच्छति तत् कृष्णेन पूरयतु ।
18:05 धूसरः भागशः दृग्गोचरः अपि च पारदर्शकः अस्ति ।
18:12 अपि च इदम् एतावदेव अस्य सप्ताहस्य इति अहं चिन्तये ।
18:17 अपि च अहम् अग्रिमे सप्ताहे भवतः सर्वान् पश्यामि इति आशासे । पुनर्मिलामः ।
18:25 Spoken Tutorial परियोजनायां अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat