GIMP/C2/Drawing-Simple-Figures/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:42, 28 September 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:18 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:21 Rolf Steinort महाभागः इदम् Northern Germany इति देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवानस्ति ।
00:27 मह्यं प्राप्तेन ई-पत्रेण इमं पाठम् अहम् आरभे ।
00:33 मह्यं David Vansalan इति महाभागात् ई-पत्रं प्राप्तम् अस्ति । GIMP इतीदम् उपयुज्य क्षेत्रगणितेन (geometries) सरल-आकृतयः कथं चित्र्यन्ते इति सः पृष्टवान् ।
00:45 अतः, प्रथमं वयं सुलभमार्गेण अर्थात् सरलरेखया आरभामहे ।
00:55 सरलरेखां चित्रयितुं कठिनं स्यात् । किन्तु, अत्र बिन्दुम् एकं कृत्वा तथैव shift इति कीलकं नुत्वा अपि च अन्यत् बिन्दुं क्रियते चेत्, सुलभतया भवान् सरलरेखां चित्रयितुं शक्नोति ।
01:14 अतः, इमाः सरलरेखाः सन्ति ।
01:19 Undo इतीदं कर्तुं Ctrl + Z इति नुदतु ।
01:24 चतुरस्रं किञ्चित् अधिकं जटिलम् अस्ति ।
01:28 साधनपेटिकां गत्वा Rectangle इति साधनं चिनोतु ।
01:36 अपि च Aspect ratio इतीदं ‘3 by 3’ प्रति रक्षतु ।
01:41 अतः, इदं चतुरस्रं भवेत् ।
01:44 इदानीम्, अहं चतुरस्रचयनं प्राप्तवान् । अतः Edit >> Stroke Selection इत्यत्र क्रमशः गच्छतु ।
01:52 अहम् अत्र कानिचन परिवर्तनानि कर्तुं शक्नोमि ।
01:55 अहं Line width इतीदं निश्चेतुम् अथवा paint tool इतीदम् उपयोक्तुं शक्नोमि । अपि च अहं paint tool इत्यत्र Paintbrush इति चित्वा Stroke इतीदं नुदामि ।
02:10 अपि च अत्र भवतः चतुरस्रं भवते प्राप्तम् अस्ति ।
02:14 मह्यम् इदं चतुरस्रं पूरयितुं बहु सुलभम् अस्ति । नूनम् अत्र मम colour pallet इत्यत्र गत्वा कृष्णं कर्षयित्वा आनयामि ।
02:25 ellipse इत्यस्य चयनेन अपि इदं कर्तुं शक्यते ।
02:30 अहं Ellipse इतीदं चेतुं शक्नोमि । अपि च Edit इत्यत्र गत्वा Stroke Selection इतीदं चेतुं शक्नोमि ।
02:40 बहु जटिलाकृतीनां Paths इतीदं चिनोतु ।
02:46 बिन्दूनां रचनेन अहं path इतीदं निर्मातुं शक्नोमि । अपि च यदा अहम् अन्तिमबिन्दुं चिनोमि तदा मम path इतीदं पूर्णं भवति ।
02:56 अनन्तरम् अत्र Edit इत्यत्र गत्वा handles इतीमान् यथा भवान् इच्छति तथा अहं परिवर्तनानि आरब्धुं शक्नोमि ।
03:06 भवान् अभ्यासं कृत्वा इदं ज्ञातुम् अर्हति ।
03:10 इदं बहु सुलभम् अस्ति ।
03:17 मया कर्तव्यम् अन्तिमं कार्यं नाम stroke path इत्यस्य करणम् ।
03:22 अत्र मह्यं समानचयनानि प्राप्यन्ते । अपि च यदा Stroke इत्यस्य उपरि नुदामि तदा अहं परिपूर्णरेखां प्राप्नोमि ।
03:29 इयं न सरलरेखा, किन्तु परिपूर्णरेखा ।
03:34 इदम् अस्य सप्ताहस्य आसीत् ।
03:37 अधिकविवरणार्थं http://meetthegimp.org इति शृङ्खलं प्रति गच्छतु । अपि च अभिप्रायं प्रेषयितुम् इच्छति चेत् कृपया info@meetthegimp.org इत्यत्र प्रेषयतु । पुनर्मिलामः ।
03:54 Spoken Tutorial परियोजनायै अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat