GIMP/C2/The-Curves-Tool/Sanskrit

From Script | Spoken-Tutorial
Revision as of 09:52, 28 September 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:25 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:28 Rolf Steinort महाभागः Northern Germany देशे, Bremen इति स्थाने अस्य ध्वन्यङ्कनं कृतवानस्ति ।
00:33 इदानीम्, वयम् अद्यतनपाठम् आरभामहे ।
00:35 अयं Curves इति विषयकः अस्ति ।
00:37 प्रथमं साधनपेटिकायां विद्यमानं Curves इति साधनं सक्रियं कृत्वा अनन्तरम् अहं चित्रे नुदामि ।
00:44 Curves इति साधने एकः स्तम्भालेखः (histogram) अस्ति । अपि च अत्र धूसरमापकयुक्तं शलाकाद्वयम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
00:58 अनन्तरम्, Curves इति साधने चेतुं Preview, Save, Open इति कानिचन कीलकानि सन्ति ।
01:06 किन्तु इदानीम्, Curves इति साधनस्य धूसरमापकशलाकायाः (gray scale bar) विषये अवधानं दद्मः ।
01:11 अत्र इयं शलाका, मूलचित्रस्य विविधवर्णश्रेणिं दर्शयति ।
01:20 अस्यां शलाकायां, केचन चित्रकणाः वस्तुतः गाढाः अपि च दीप्तिमन्तः च सन्ति । मध्ये, गाढतः पेलववर्णीयाः चित्रकणाः सन्ति ।
01:33 अत्र इयं समरेखशलाका 256 विभिन्नवर्णछायया युक्ता अस्ति ।
01:39 अस्याः शलाकायाः उपरि आरम्भिकबिन्दुः शून्यम् अस्ति तथैव सः कृष्णः अपि च अन्तिमबिन्दुः 255 अपि च सः श्वेतः अस्ति ।
01:49 अपि च उदाहरणार्थम्, इदम् अत्र 184 धूसरः अस्ति ।
01:53 चित्रमिदं बहु वर्णैः युक्तम् अस्ति । अपि च Channel इतीदं परिवर्त्य विभिन्नवर्णान् अत्र भवते दर्शयितुं शक्नोमि ।
02:01 वयं Channel इत्यत्र रक्तं चिनुमः । अपि च भवान् चित्रे रक्तछायां द्रष्टुं शक्नोति ।
02:07 तथैव, इदं भवान् हरितम् अपि च नीलं प्रति यथाक्रमं छायाः (tones) परिवर्तयितुं शक्नोति ।
02:14 अपि च अस्मिन् चित्रे बहु मूल्ययुक्ता हरितवाहिनी, प्रभूता इति न आश्चर्यदायिका ।
02:24 इदानीं Reset Channel इतीदं नुदतु ।
02:27 प्रत्येकं छायायाः उपरि विद्यमान-स्तम्भालेखस्य वक्रं (curve) प्रदीप्तिमत्चित्रकणानां गणनम् अस्ति ।
02:38 इदम् अन्त्यस्य (terminal) शलाकायाः च उपरि विद्यमानेषु एतेषु अन्त्येषु बहुशः समानचित्रकणयुक्तम् एकं प्रदेशम् अत्र वयं प्राप्तवन्तः ।
02:49 अयं स्तम्भालेखः (histogram), अत्र बहु उत्तमवर्णानां श्रेण्याः अस्तित्वं दर्शयति ।
02:56 यदा Curves इतीदं साधनं सक्रियं भवति तदा चित्रं प्रति गच्छतु । अपि च मौस्-कर्सर् लघुभ्रंशकरूपेण परिणमते । यदा अहम् अत्र नुदामि तदा स्तम्भालेखे विद्यमाना इयं रेखा तद्बिन्दुं प्रति स्थानान्तरं भवति ।
03:10 चित्रे वर्णस्य छाया कुत्र अस्ति इति ज्ञातुं चित्रे नुत्वा तत् परितः सर्तुं शक्नोति ।
03:18 इदानीं वयम् अत्रत्य समरेखशलाकां (horizontal bar) समापितवन्तः ।
03:22 अपि च इदम्, अत्र फलितम् अस्ति ।
03:26 अत्र 256 विभिन्नप्रकारकमूल्यानि अपि सन्ति । अपि च इमानि चित्रं विरचयन्ति ।
03:33 समरेखशलाका वक्रस्य कृते प्राप्तदत्तांशेन (data) युक्ता अस्ति । अपि च लम्बरेखशलाका (vertical bar), यः दत्तांशः बहिः आगच्छति तेन युक्ता अस्ति ।
03:44 आलेखं (graph) तरणं कुर्वती इयं मध्ये विद्यमानरेखा ‘translation function’ इति कथ्यते ।
03:53 मध्यस्थधूसरवर्णात् उपरि translation इति वक्रं गत्वा अनन्तरं वामतः विद्यमानलम्बरेखशलाकां यदा अहं गच्छामि तदा पुनः धूसरवर्णस्य मध्यभागं प्राप्नोमि ।
04:04 अहम् इमं वक्रं मम इच्छानुसारं कर्षयितुं शक्नोमि । अपि च यदा अहम् अधः कर्षयामि तदा भवान् गाढचित्रं पश्यति ।
04:13 इदानीं मध्यस्थधूसरवर्णात् उपरि वक्रं गत्वा अनन्तरं वामतः गच्छामि चेत् अहं गाढतमधूसरं प्राप्नोमि ।
04:23 अत्रत्य अधस्तनशलाका Curves इति साधनस्य मूलं निवेश्यम् (input) अपि च लम्बरेखशलाका तस्याः फलितम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
04:34 अहम् इमं वक्रं बहुषु मार्गेषु परिवर्तयितुं शक्नोमि, सामान्यतः अयम् अपरिमितः ।
04:43 अहम् इमं वक्रं पृष्ठतः कर्षयितुं न शक्नोमि इति एका परिमितिः अस्ति । यदि अहम् एवं करोमि तर्हि तत्क्षणे Curves इति साधनस्य उपरितनबिन्दुः नष्टः भवति ।
04:53 किन्तु, मह्यं यदि चित्रे प्रदीप्तचित्रकणान् द्रष्टुम् इच्छा नास्ति तर्हि अहं सर्वान् बिन्दून् अधः कर्षयितुं शक्नोमि । तदा चित्रं प्रायः कृष्णं भवति ।
05:10 नूनम् इमं बिन्दुम् एवमेव उपरि अत्र कर्षयतु । अत्र भवान् प्रकाशमानं यत्किञ्चित् प्राप्नोति ।
05:17 केभ्यश्चित् वर्षेभ्यः नव्यतायां (fashion) विद्यमानचित्राणां प्राप्तिपर्यन्तं Curves इति साधनेन भवान् क्रीडितुं शक्नोति ।
05:28 Reset इति कीलकं नुत्वा वयं वक्रं पुनःप्रवर्तनं (restart) कर्तुं शक्नुमः तथैव मूलवक्रं प्राप्तुं शक्नुमः ।
05:34 Curves इति साधने Linear Mode अपि च Logarithmic Mode इतिवत् कानिचित् कीलकानि सन्ति ।
05:42 Logarithmic इति दशायां लघुमूल्यानि उपरि कृत्वा प्राप्नोति ।
05:49 अत्र, Linear इति दशायाम् इयं रेखा, अत्रत्य रेखायाः द्विगुणितं मूल्ययुक्तम् अस्ति ।
05:56 Logarithmic इति दशायाम् इयं रेखा 1 भवितुम् अर्हति, इयं 10, इयं 100 अपि च इयं 1000 इति ।
06:06 प्रत्येकं सोपानं भवते 10 गुणितम् अधिकमूल्यं ददाति । अपि च अनेन Linear इति दशायां गोपितान् लघुचित्रकणान् भवान् पश्यति ।
06:17 भवान् इदम् अस्मिन् कोणे पश्यतु, 250 अपेक्षया अधिकमूल्ययुक्ताः चित्रकणाः भवन्ति इति वक्तुं न शक्यते ।
06:27 किन्तु, Logarithmic इत्यत्र चित्रस्य पूर्णश्रेण्यां वयं चित्रकणान् प्राप्तवन्तः इति भवान् द्रष्टुं शक्नोति ।
06:40 अनन्तरम्, अत्र Curve Type इति कीलकम् अस्ति । एतावता मया अत्र उपयुक्तं साधनम् इदं वक्रं ददाति । यदा curve type इतीदं परिवर्तयामि तदा अहं यथार्थतया वक्रस्य रङ्गसेचनं कर्तुं शक्नोमि । अपि च विलक्षणविषयान् प्राप्नोमि । इदम् अहम् एतावता न उपयुक्तवान् आसम् ।
07:12 अनन्तरं, तत्र Save अपि च Open इति संवादपेटिकाख्ये कीलिके स्तः ।
07:17 यदा वक्राणि परिवर्तयितुं समापयति तदा अनन्तरम् उपयोक्तुं भवान् रक्षितुं शक्नोति । अपि च यदा भवते अपेक्षते तदा पुनःस्मरणं कर्तुं शक्नोति ।
07:28 विवाहार्थं छायाचित्रं स्वीकर्तारम् एकं पुरुषम् अहं जानामि । श्वेतवर्णीयवस्त्रस्य विन्यासं दातुं श्वेते सूक्ष्मरूपेण tune कृतं, विशेषप्रकाशयुक्तवक्रं सः प्राप्तवान् ।
07:42 अस्मिन् चित्रे Curves इति साधनं कथम् उपयुञ्जे अहम् ?
07:47 चित्रस्य गाढभागः किञ्चित् अधिकगाढतमेन मह्यम् अपेक्षते ।
07:52 मह्यं मध्ये विद्यमानप्रदेशाः तथैव रक्षणीयाः अपि च प्रकाशमानभागः इतोऽपि प्रकाशमानः करणीयः अस्ति ।
08:00 अपि च इदं कर्तुम्, मया ‘S’ इति वक्रस्य उपयोगः करणीयः इति चिन्तये अहम् ।
08:06 अहम् अधोभागस्थं वक्रं किञ्चित् अधः करोमि तथैव गाढभागः इतोऽपि गाढतमः जायमानः अस्ति इति द्रष्टुं शक्नोमि । अहं प्रकाशमानप्रदेशं गच्छामि अपि च वक्रम् उपरि नीत्वा प्रकाशमानप्रदेशम् इतोऽपि अधिकप्रकाशं करोमि ।
08:25 अधिकं प्रकाशं कर्तुं भवान् वक्रं किञ्चित् उपरि नेतुं शक्नोति ।
08:39 यदा अहं OK इतीदं नुदामि तदा वक्रस्य मूल्यानि सङ्गृहीतानि भवन्ति ।
08:44 अहम् इमां प्रक्रियां यदि पुनरावर्तनं करोमि तर्हि अत्र स्तम्भालेखः परिवर्तितः इति भवान् द्रष्टुं शक्नोति ।
08:52 अत्र मध्ये चित्रकणाः न सन्ति, मूल्यानि अपि न सन्ति । यदा Logarithmic इति दशां नुदामि तदा तत्रापि चित्रकणेभ्यः मूल्यानि न सन्ति इति भवान् द्रष्टुं शक्नोति ।
09:04 प्रति अवसरं Curves इति साधनस्य उपयोगे कृते चित्रस्थाः चित्रकणाः नश्यन्ति ।
09:12 अतः, एतत्विरुद्धेन अर्थात्, अत्र वक्रस्य उपरि नयनम् अपि च अधः आनयनं करोतु । वक्रस्य व्यापारं (operation) कर्तुं undo इत्यस्य प्रयत्नं मा करोतु ।
09:24 OK इतीदं नुदतु । इदं बहु अधिकं नश्यमानम् इदानीं भवान् द्रष्टुं शक्नोति । तथैव अन्ते भवते वर्णगणयुक्तं (colour banding) चित्रं प्राप्यते ।
09:38 अतः, केवलम् एकं परिवर्तनं कर्तुं curves इति साधनम् उपयुज्यताम् । अपि च जागरूकतया उपयुज्यताम् । अन्यथा चित्रस्थाः चित्रकणाः भवते नष्टं गच्छन्ति । अपि च वर्णगणयुक्तं (colour banding) चित्रं प्राप्नोति ।
09:56 अस्मिन् पाठे एतावत् अलम् इति मे मतिः ।
10:01 अपि च अग्रिमपाठे भवतः सर्वान् पश्यामि इति अहम् आशासे ।
10:08 यदि अभिप्रायं लिखितुम् इच्छन्ति तर्हि info@meetthegimp.org इत्यत्र लिखन्तु । अहं भवतः सकाशात् तत् श्रोतुम् इच्छामि । अतः मम जालवृत्ते (blog) भवतः अभिप्रायं लिखतु ।
10:23 Spoken Tutorial परियोजनायै अनुवादकः वासुदेवः प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणं । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat