GIMP/C2/Drawing-Tools/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:52, 21 September 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf Steinort महाभागः इदं पाठं Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् ।
00:30 पाठेऽस्मिन् अहं भवते drawing tools इतीदं विस्तरेण विवृणोमि ।
00:37 Pencil इतीदं प्रथमचित्रणसाधनम् (drawing tool) अस्ति । अपि च इदम् अतितीक्ष्णार्ग्रैः (hard edges) कार्यं करोति ।
00:44 अत्र अहं सरलरेखां चित्रितवान् । यदि अहं चित्रे उपसर्पणं करोमि तर्हि भवान् प्रत्येकं चित्रकणः कृष्णः अथवा श्वेतः पश्यति ।
01:01 यदा अहं रेखां चित्रयितुं paint brush इत्यस्य चयनं करोमि, तदा मृदुधारायुतां रेखां प्राप्नोमि ।
01:08 अपि च पुनः यदा अहं सर्पकं प्रतिगच्छामि तदा अङ्कन्या चित्रितम् इव, भवान् दृग्गोचरां jaggies इत्यनेन सह तीक्ष्णरेखां पश्यति ।
01:17 यदा रङ्गसेचनकूर्चेन चित्रयामि तदा अहं मृदुरेखां प्राप्नोमि ।
01:29 अत्र अङ्कनीं प्रति पुनः गच्छतु ।
01:32 अग्र्येषु अङ्कनी अत्यन्तं तीक्ष्णा अस्ति अपि च रङ्गसेचनकूर्चः मृदुः इति भवान् पश्यति ।
01:40 किन्तु, भवान् अत्र jaggies इतीदं द्रष्टुं न शक्नोति ।
01:44 इदमेव नेत्रस्य युक्तिः इति उच्यते ।
01:47 यदा इदम् अहं विस्तारयामि तदा भवान् अत्र anti-aliased इतीदं पश्यति ।
01:53 अयमेव अङ्कनी-रङ्गसेचनकूर्चयोः मुख्यभेदः ।
01:59 अन्यथा तौ निकटतया तुल्यौ एव, तयोः विकल्पौ अपि ।
02:13 इदानीं, वयं रङ्गसेचनकूर्चेन आरम्भं कुर्मः ।
02:16 साधनपेटिकायां Paint brush इतीदं साधनं नुदतु । भवते तदर्थं विकल्पाः अपि प्राप्यन्ते ।
02:25 यथा अत्र अपि भवान् Multiply अथवा Overlay इत्यादीन् द्रष्टुं शक्नोति, तथा एव Modes इतीदं यथा स्तरदशायाम् इत्यत्र सन्ति तथा अत्र अपि अस्ति ।
02:40 Opacity इतीयम् अवसर्पिणी अस्ति, अपि च इमाम् उपयुज्य भवान् दृश्यत्वं (visibility), रेखायाः वर्णं च नियन्त्रयितुं शक्नोति ।
02:50 मूल्यं 25% प्रति अवनयामि, अपि च यदि अहं चित्रयामि तदा कृष्णापेक्षया पेलवधूसरवर्णीयां रेखां प्राप्नोमि ।
03:02 अपि च यदा अहम् अस्याः रेखायाः उपरि नूतनरेखया अतिक्रमणं करोमि तदा वर्णः गाढतमः भवति । किन्तु, इदं नूतनरेखया अतिक्रमणे सति केवलं सम्भवति ।
03:22 अहं स्थाने अस्मिन् अवसर्पणं कृत्वा बृहत् Brush इतीदं चिनोमि ।
03:26 अपि च अहम् इदानीं रेखां चित्रयामि चेत् सा धूसरे भवति ।
03:30 अहं द्वितीयरेखां चित्रयामि । अपि च, अनयोः द्वयोः रेखयोः संसर्गभागः गाढतमधूसरः भवति ।
03:36 अपि च इदानीम् अहं तृतीयरेखां तदुपरि चित्रयामि । संसर्गभागः इतोऽपि गाढतरधूसरः भवति । किन्तु, अहं यदि पुनः तया एव रेखया चित्रयामि तर्हि सः गाढतरः न भवति ।
03:48 अतः, केवलम् एकरेखाखण्डतः अन्यरेखाखण्डं (stroke) प्रति इदं कार्यं करोति । अपि च भवान् सुलभेन धूसरवर्णेन एकं स्थानं चित्रयितुं शक्नोति । अपि च अस्य पूरणसन्दर्भे सावधानेन निरीक्षणीयम् इति नास्ति ।
04:15 अत्र भवान् Incremental इतीदं विकल्पं द्रष्टुं शक्नोति ।
04.20 यदा भवान् Incremental इतीदं चिनोति तदा बहु-गाढतमपरिणामं प्राप्नोति ।
04:29 Brushes इतीदं विकल्पं प्रति गच्छामः । अपि च कूर्चस्य spacing इतीदं 20% प्रति व्यवस्थापितम् अस्ति इति भवान् अत्र द्रष्टुं शक्नोति ।
04:45 Brushes इतीदं मूलभूतेन मुद्रा अस्ति, इयं च समानप्रतिरूपं वारं वारं मुद्रयति ।
04:54 अपि च यदा अहम् उपसर्पणं करोमि तदा कूर्चस्य 20% इति परिमाणानन्तरमपि भवान् कूर्चस्य अग्रिमचिह्नम् अत्र अस्ति इति द्रष्टुं शक्नोति ।
05:07 अत्र प्रत्येकं कूर्चः स्वयम् उपलिम्पितं (overlays) करोति ।
05:19 यदा भवान् Incremental इतीदं विकल्पम् अपचिनोति तदा भवान् कूर्चस्य प्रत्येकं मुद्रां द्रष्टुं शक्नोति । किन्तु, तस्य उपरि चित्रणं न दृश्यते अपि च मया द्वितीयरेखा आरम्भणीया ।
05:34 अपि च यदा Incremental इतीदं चिनोमि तदा अहम् उपरि वारं वारं चित्रयितुं शक्नोमि ।
05:47 100% प्रति गच्छतु ।
05:53 अहं Opacity अपि च Incremental इति विकल्पद्वयं सविवरं समापितवान् ।
05:57 100% युक्तेन opacity इत्यनेन सह प्रतिगच्छामः । अपि च पुनः अहम् उत्कृष्टं कृष्णं चित्रयितुं शक्नोमि ।
06:07 यदा opacity इतीदं 100% इत्यपेक्षया न्यूनं भवति तदा Incremental इतीदम् अर्थपूर्णं भवति ।
06:15 Scale इति इयम् अवसर्पिणी pen इत्यस्य परिमाणं नियन्त्रयति । अपि च यदा अहम् 1 प्रति अवनयामि तदा भवान् लघुपरिमाणकं कूर्चं प्राप्नोति ।
06:31 यदा अहं 0.05 प्रति कूर्चम् अवनयामि तदा सूक्ष्मरेखां चित्रयितुं शक्नोमि । यदा अहं 2 प्रति अवसर्पिणीं व्यवस्थापयामि तदा विस्तृतरेखां प्राप्नोमि ।
06:48 Scale इतीदं मूलभूतेन कूर्चस्य व्यासं (diameter) नियन्त्रयति । अपि च कीलफलके (keyboard) 'square brackets' इत्यस्य साहाय्येन अपि भवान् तत् नियन्त्रयितुं शक्नोति ।
07:15 open square bracket इत्यस्य साहाय्येन अहं कूर्चस्य परिमाणं न्यूनीकृत्य close square bracket इत्यस्य साहाय्येन परिमाणं वर्धयितुं शक्नोमि ।
07:32 कूर्चः अदृश्यप्रायः इति भवान् द्रष्टुं शक्नोति ।
07:38 अतः, अहं रङ्गसेचनस्य स्थानम् अत्यक्त्वा एव कूर्चस्य परिमाणं व्यवस्थापयितुं शक्नोमि ।
07:51 यदि GIMP जनेषु कश्चन किमपि कर्तुम् इच्छति तर्हि अहं तादृशं कीलकम् इच्छामि, येन अवसर्पिणीं 1 प्रति नेतुं शक्यते ।
08:03 अतः, Scale इति विकल्पविवरणं समाप्तम् ।
08:06 अपि च कूर्चस्य विस्तृतविवरणम् अहम् अग्रिमपाठे करिष्यामि ।
08:12 अत्र Pressure sensitivity इत्ययं विकल्पः अस्ति । अपि च अहं चित्रस्य सम्पादने इदम् उपयोक्तुं शक्नोमि ।
08:30 अत्र Opacity इतीदम् वयं पश्यामः ।
08:35 इदानीं, यदा अहं भारं (pressure) विना चित्रयामि तदा भवान् धूसरवर्णीयां रेखां प्राप्नोति । यदा अहं भारं वर्धयामि तदा गाढतरवर्णं प्राप्नोमि । यदा अहं भारं न्यूनीकरोमि तदा पेलववर्णीयरेखां प्राप्नोमि ।
09:04 यदि भवान् वर्णिकायाः रङ्गसेचनं करोति तर्हि अयं विकल्पः उपयोगकरः वर्तते।
09:09 इदम् अतीव उपयोगकरम् अस्ति ।
09:17 Hardness इत्ययम् अग्रिमः विकल्पः अस्ति ।
09:20 यदा अहं भारं विना चित्रयामि तदा मृदुसीमां प्राप्नोमि । यदा अहं भारं वर्धयामि तदा रङ्गसेचनकूर्चः लेखनीवत् व्यवहरति ।
09:38 यदा अङ्कनीसाधनं चित्वा चित्रयामि तदा अहं तीक्ष्णसीमां प्राप्नोमि । अपि च यदि अहं यथार्थतया tablet इत्यस्य उपरि नुदामि तर्हि तीक्ष्णसीमां प्राप्नोमि ।
09:51 Pressure sensitivity इत्यस्य उपयोगेन अहं कूर्चस्य परिमाणं परिवर्तयितुं शक्नोमि ।
10:00 Pressure sensitivity इत्यस्य उपयोगेन अहं वर्णमपि परिवर्तयितुं शक्नोमि ।
10:05 अतः, background colour इत्यस्मात् अहम् अपरवर्णं चिनोमि । इदम् अत्र कथम् अस्ति ?
10:12 अतः, वयम् इमं रक्तवर्णं चिनुमः ।
10:15 अपि च foreground colour इत्यस्य कृते वयम् उत्तमहरितवर्णं चिनुमः ।
10:21 अपि च यदा अहम् अत्र चितवर्णैः न्यूनभारेण रङ्गसेचनम् आरभामि तदा हरितम् अपि च अधिकभारेण करोमि चेत् रक्तवर्णं प्राप्नोमि । यदि भारः न्यूनः तर्हि पुनः हरितम् अथवा हरितवर्णीयं किञ्चित् प्राप्नोति ।
10:41 अपि च हरित-रक्तयोः मध्ये वर्णः परिवर्त्यते ।
10:49 use colour from gradients इत्ययम् अन्तिमविकल्पः अस्ति ।
11:01 Gradients इतीदं चेतुं File, Dialogs अपि च Gradients इत्यत्र गच्छन्तु ।
11:18 Gradients इतीदम् अत्र अस्ति ।
11:20 अपि च इदानीं नूनं गवाक्षमिदं सङ्गृह्य एतावत् पर्यन्तम् अहं कर्षयामि । अहम् अत्र gradient इतीदं प्राप्तवान् ।
11:28 Gradients इत्यत्र बहु चयनविन्यासान् अहं प्राप्तवान् ।
11:33 इदं चित्वा वयम् इदानीम् अत्र प्रतिगच्छामः ।
11:42 इदानीं, यदा अहं रङ्गसेचनं करोमि, तदा वर्णः एतद्विन्यासद्वारा gradient इत्यस्य उपरि गच्छति ।
11:48 gradients इत्येतेन सह लेखनम् अथवा कार्यकरणम् अतीव विलक्षणम् अस्ति ।
12:02 इदं नालिकया कृतम् अथवा तद्वत् दृश्यमानम् अस्ति ।
12:07 इमे gradient इत्यस्य विकल्पाः आसन् ।
12:11 इमे विकल्पाः कूर्चस्य उपयोगं कुर्वतां सर्वेषां साधनानां सामान्यम् अस्ति ।
12:30 Pencil, Paint brush, Eraser अपि च Airbrush इत्येतानि अधिकतरविकल्पयुक्तानि सन्ति ।
12:50 Ink इत्यस्य कूर्चः नास्ति, किन्तु, अस्य बहवः अन्यविकल्पाः विद्यन्ते ।
12:55 Clone, Healing, Perspective clone इत्यादीनि अपि च Blur/sharpen अथवा dodge/burn इतीमानि साधनानि brushes इत्यस्य विकल्पाः विद्यन्ते ।
13:14 इदानीं Pencil अपि च Paint brush इतीमौ प्रति पुनः गच्छामः ।
13:21 नूनम् इदं पुनः मार्जयतु ।
13:24 केचन उपायाः सन्ति तान् अत्र भवान् उपयोक्तुं शक्नोति ।
13:29 प्रथमः उपायः रेखायाः चित्रणस्य विषये अस्ति ।
13:33 यदा अहं सरलरेखां रचयितुं प्रयत्नं कृतवान्, तदा इदं किञ्चित् कष्टम् अभवत् ।
13:39 किन्तु, नोदनेन सह यदा एकं बिन्दुं व्यवस्थाप्य shift इतीदं कीलकं नुदामि तदा अहं सरलरेखां प्राप्नोमि ।
13:48 अत्र अहं सरलरेखां प्राप्तवान् ।
13:51 अग्रिमोपायः नाम, नूनम् एकं बिन्दुं व्यवस्थाप्य Shift + Ctrl इतीदं नुदतु । इदानीं मम रेखायाः भ्रमणं 15 मात्रां (degree) प्रति उपरुद्धं (lock) भवति ।
14:05 अपि च अहं सुलभतया निश्चितकोणैः सह रेखाः रचयितुं शक्नोमि ।
14:20 अतः, उत्कृष्टा आकृतिः एव अत्र आगता ।
14:24 Shift इति कीलकेन अन्यत् अपि भवान् कर्तुं शक्नोति ।
14:29 तदर्थं, Gradient इतीदं साधनं चिनोतु ।
14:37 gradient इतीदं चित्वा रेखां रचयतु अपि च भवान् विभिन्नवर्णान् प्राप्नोति ।
14:45 अहं Brush इतीदं लघुकूर्चं चित्वा Gradient इतीदम् अपचिनोमि (de-select) । अपि च मम उत्कृष्टवर्णान् चिनोमि ।
14:55 इदानीं, यदा Ctrl इतीदं कीलकं नुदामि तदा मया रचितरेखया एव अहं वर्णं चेतुं शक्नोमि । अपि च foreground colour इतीदं नीलवर्णछायां प्रति परिवर्तितं द्रष्टुं शक्नुमः ।
15:09 अतः, अहं चित्रस्य कस्मात् अपि भागात् नूनम् उत्तमं वर्णं चेतुं शक्नोमि ।
15:17 अपि च यदि चित्रे रङ्गसेचनं कर्तव्यं तर्हि अस्मिन् अपेक्षितवर्णाः विद्यन्ते ।
15:25 नुनं Ctrl इतीदं गृहीत्वा तस्य उपरि नुदतु । अपि च भवतः pallet इत्यस्य उपरि निर्दिष्टवर्णः प्राप्यते ।
15:36 सः उत्तमः उपायः ।
15:39 मूलतः Eraser इतीदं साधनं pen अथवा Brush साधनवत् अस्ति यतोहि ताभ्याम् इदं विरुद्धम् अस्ति ।
15:52 Eraser इतीदम् अपि रङ्गसेचनं करोति परम् तु इदं पृष्ठदेशवर्णं ददाति ।
15:57 भवान् तद् अत्र द्रष्टुं शक्नोति ।
16:00 किन्तु तदर्थं, भवता Pressure sensitivity अपि च Opacity इत्यनयोः अपचयनं कर्तव्यम् ।
16:08 नूनं Foreground colour अपि च Background colour इतीदं कृष्णश्वेतयोः यदा अहं विपरिवर्तनं (Switch) करोमि अपि च श्वेतं पुरोदेशवर्णत्वेन विपरिवर्त्य Pen इतीदं चिनोमि तदा Eraser इत्यस्य परिणामम् एव प्राप्नोमि ।
16:25 वर्णस्य परिवर्तनानन्तरं मार्जितं कृष्णवर्णीयं भवति ।
16:41 X इति कीलकनोदनेन Foreground अपि च Background Colour इतीदं परिवर्तयितुं शक्नोति ।
16:50 अहं Pencil, Paint brush अपि च Eraser इत्यस्य अपि विस्तृतविवरणं कृतवान् ।
16:59 अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गत्वा यदि टिप्पणीं प्रेषयितुम् इच्छति तर्हि info@meetthegimp.org इत्यत्र प्रेषयतु । पुनः मिलामः ।
17:10 Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat