Linux-AWK/C2/Conditional-statements-in-awk/Sanskrit
From Script | Spoken-Tutorial
Revision as of 23:26, 19 August 2019 by Sandhya.np14 (Talk | contribs)
|
|
00:01 | Conditional statements in awk इति पाठार्थं भवद्भ्यः स्वागतम् । |
00:07 | पाठेऽस्मिन् वयम्, awk इत्यस्मिन् if, else, else if इत्येतेषां विषयं ज्ञास्यामः । |
00:15 | वयमिदं कैश्चन उदाहरणैः सह कुर्मः । |
00:19 | पाठमिदं रेकोर्ड् कर्तुमहं :
Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् अपि च, gedit टेक्स्ट् एडिटर् 3.20.1 इतीमे उपयुनज्मि । |
00:32 | भवतामभीष्टानुसारेण यत्किमपि टेक्स्ट् एडिटर् उपयोक्तुमर्हन्ति भवन्तः । |
00:36 | पाठस्यास्य अभ्यासाय भवन्तः, अस्माकं जालपुटस्थं पूर्वतन awk ट्युटोरियल् पश्येयुः । |
00:43 | भवद्भ्यः C अथवा C++ सदृशानां प्रोग्रामिङ्ग्-भाषा-ज्ञानमावश्यकम् । |
00:50 | नास्ति चेत्, कृपया अस्माकं जालपुटे विद्यमानान् पाठान् पश्यन्तु । |
00:56 | पाठेऽस्मिन् उपयुक्ताः सञ्चिकाः, अस्मिन्नेव पुटे Code Files लिङ्कमध्ये उपलभ्यन्ते ।
कृपया ताः अवचित्य एक्स्ट्रेक्ट् (extract) कुर्वन्तु । |
01:06 | 'कण्डीशनल् स्टेट्मेण्ट्' इतीदं, क्रियायाः करणात् प्राक्, सूचितानि कण्डीशन् परीक्षितुम्(check) अवकाशं कल्पयति । |
01:14 | awk मध्ये if, else, else-if सदृशानि कण्डीशनल् स्टेट्मेण्ट्स् कथं कार्याणि कुर्वन्ति इति ज्ञास्यामः । |
01:22 | कासाञ्चन प्रोग्रमिङ्ग्-भाषासु यथा वर्तते तथा, if -elseस्टेट्मेण्ट् इत्यस्य सिण्टेक्स् एवमस्ति - |
01:28 | if conditional-expression1 is true, then perform action1. |
01:34 | else if conditional-expression2 is true, then perform action 2. |
01:41 | अस्यानन्तरं, बहूनि else if स्टेट्मेण्ट्स् स्युः । |
01:46 | अन्ते, निर्दिष्टानि यत्किमपि conditional expressions true नास्ति चेत्, तदा action n इतीदं क्रियते । |
01:54 | else अपि च else-if विभागाः ऐच्छिकाः ।
वयमेकम् उदाहरणं पश्याम । |
02:02 | वयं पूर्वम् उपयुक्ताम् awkdemo.txt सञ्चिकां पुनः उपयुञ्ज्महे । |
02:10 | 8000 रूप्यकेभ्यः अदिकं स्टैपण्ड् ये विद्यार्थिनः प्राप्यन्ते तेभ्यः, तदस्माभिः 50% अधिकं करणीयमिति (increment) भावयन्तु । |
02:19 | तत् कण्डीशन् अर्थं, वयमेकं awk सञ्चिकां रचयाम । |
02:23 | अत्र यथा दर्शितं तथा, अधस्तन कोड् टेक्स्ट्-एडिटर्-मध्ये टङ्कयित्वा तत्, cond dot awk इति रक्षयन्तु ।
पूर्वमेवाहमिदं कृतवानस्मि । |
02:34 | इयमेव सञ्चिका Code Files लिङ्क्-मध्येऽपि उपलभ्यते । |
02:39 | अस्मिन् कोड्-मध्ये, वयं ‘कोलन्’ इतीदम्, 'औट्पुट् फील्ड् सपरेटर्' इति सेट् कृतवन्तः । |
02:45 | आदिमं print स्टेट्मेण्ट्, फील्ड्स् इयेतेषां शीर्षिकाः मुद्रापयति । |
02:50 | पश्चात् if स्टेट्मेण्ट्, षष्ठस्य फील्ड्-मध्ये मूल्यं 8000 इत्यस्मादधिकं वर्तते वा इति परीक्षते । |
02:58 | ‘सत्यम्’ अस्ति चेत्, द्वितीयं print स्टेट्मेण्ट् एक्सिक्यूट् जायते । |
03:03 | अस्मिन् print स्टेटमेण्ट् मध्ये $6 into 1.5 इतीदं, षष्ठस्य फील्ड्-इत्यस्य मूल्यं 1.5 इत्यतेन सङ्गुणयति । |
03:13 | वयमधुना कोड् एक्सिक्य़ूट् कुर्मः । |
03:16 | CTRL, ALT अपि च T कीलकानि नुत्त्वा 'टर्मिनल्' उद्घाटयन्तु । |
03:22 | cd कमाण्ड् उपयुज्य, Code Files अवचित्य, यस्मिन् फोल्डर् मध्ये एक्स्ट्रेक्ट्-कृतं (extract) तं फोल्डर् प्रति गच्छन्तु । |
03:29 | एवं टङ्कयन्तु : awk space hyphen capital F pipe symbol within double quotes space hyphen small f space cond dot awk space awkdemo dot txt.
Enter नुदन्तु । |
03:49 | कण्डीशन् यस्मिन् पूर्णमस्ति तादृशस्य एकस्य विद्यार्थिनः रेकोर्ड् इतीदं, परिवर्धितेन स्टैपण्ड्-इत्यनेन सह फलितं दृश्यते । |
03:57 | अधुना, नियमः परिवर्तितः इति भावयन्तु । 8000 रूप्यकेभ्यः अदिकं ये प्राप्नुवन्ति तेभ्यः 50% इन्क्रिमेण्ट् दातव्यम् । |
04:07 | न चेत् 30% इन्क्रिमेण्ट् (increment) दातव्यम् ।
तद्वयं कथं कुर्मः? |
04:13 | अस्माभिरेकं else ब्लोक् योजितव्यम् । |
04:16 | पुनः cond dot awk सञ्चिकां प्रत्यागच्छन्तु । |
04:21 | वयं अधस्तन-कोड्-पङ्क्तीः संयोजयाम ।
अन्तिमं, क्लोसिन्ग् 'कर्लि ब्रेस्' इत्यस्यादौ, Enter नुदन्तु । |
04:30 | else , Enter नुदन्तु । |
04:33 | print space dollar 2 comma dollar 6 comma dollar 6 into 1.3 |
04:42 | सञ्चिकां रक्षित्वा टर्मिनल् प्रति आगच्छन्तु । |
04:46 | पूर्वतन एक्सिक्यूटेड्-कमाण्ड्-प्राप्तुं , अप्-एरो (up arrow) कीलकं नुत्त्वा Enter नुदन्तु । |
04:53 | अधुना फलितम् अवलोकयन्तु ।
योजना चौधरि, पूर्वं 1000 प्रापयति स्म । अधुना तस्यै 1300 मिलति । |
05:04 | नियमान् परिवर्तयाम ।
8000 रूप्यकेभ्यः अधिकं ये विद्यार्थिनः प्राप्नुवन्ति तेभ्यः 50% इन्क्रिमेण्ट् । |
05:13 | 4000 रूप्यकेभ्यः अधिकं ये विद्यार्थिनः प्राप्नुवन्ति तेभ्यः 40% इन्क्रिमेण्ट्,
न चेत् 30% इन्क्रिमेण्ट् ददतु । |
05:23 | कोड्-प्रति आगत्य अत्र यथा दर्शितं तथा परिवर्तनं कुर्वन्तु । |
05:29 | सञ्चिकां रक्षित्वा टर्मिनल् आगच्छन्तु । |
05:33 | अहं टर्मिनल् रिक्तं करोमि । |
05:36 | अधुना, पूर्वतन एक्सिक्यूटेड् कमाण्ड् प्राप्तुं , अप् एरो (up arrow) कीलकं नुत्त्वा Enter नुदन्तु । |
05:44 | अस्मिन् सन्दर्भे, मीरा नायर् इति विद्यार्थिनी 40% अधिकं प्राप्तवतीत्यवलोकयन्तु । |
05:51 | अनेन वयं पाठस्यान्तमागतवन्तः । |
05:54 | सङ्क्षेपेण पाठेऽस्मिन् वयम्,
awk मध्ये if, else, else if सदृशानि कण्डीशनल्-स्टेट्मेण्ट्स् ज्ञातवन्तः । |
06:05 | एकं पाठनियोजनम्:
एतेषां नियमानुसारं ग्रेड् यच्छन्तु - mark 90 इत्यस्मात् अधिकं समं वा अस्ति चेत् ग्रेड् A भवेत् । |
06:15 | mark 80 इत्यस्मात् अधिकं समं वा भूत्वा, 90 इत्यस्मात् न्यूनम् अस्ति चेत् ग्रेड् B भवेत् । |
06:23 | mark 70 इत्यस्मात् अधिकं समं वा भूत्वा, 80 इत्यस्मात् न्यूनम् अस्ति चेत् ग्रेड् C भवेत् । |
06:30 | mark 60 इत्यस्मात् अधिकं समं वा भूत्वा, 70 इत्यस्मात् न्यूनम् अस्ति चेत् ग्रेड् D अपि च,
अन्यथा F ग्रेड् भवेत् । |
06:41 | पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु । |
06:49 | “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । |
06:58 | अधिकविवरणार्थम् अस्मभ्यं लिखन्तु । |
07:02 | अस्मिन् 'स्पोकन् ट्युटोरियल्' मध्ये प्रश्नाः सन्ति वा?
कृपया जालपुटं पश्यन्तु । |
07:08 | "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते । |
07:20 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |