Java/C2/Nested-if/Sanskrit
From Script | Spoken-Tutorial
Revision as of 17:36, 1 July 2018 by NaveenBhat (Talk | contribs)
Time | Narration |
00:02 | जावा-मध्ये “nested if” अपि च “ternary operator” इति विषयस्य स्पोकन्-ट्युटोरियल् प्रति स्वागतम् । |
00:07 | अस्य पाठस्य अध्ययनेन भवन्तः ,
“nested if” अपि च “ternary operator” इत्यनयोः विषये ज्ञानं प्राप्नुवन्ति । |
00:17 | पाठार्थं वयम्,
Ubuntu V-11.10 , JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे । |
00:27 | पाठमिदमनुसर्तुं भवन्तः, |
00:29 | “Relational” तथा “Logical Operator” |
00:33 | अपि च “if..else” “Control Flow” स्टेट्मेण्ट् विषयं च जानीयुः । |
00:36 | न चेत् , तत्सम्बद्धपाठार्थं अस्माकं जालपुटं पश्यन्तु । |
00:41 | Nested If Statement । If Statement इत्यस्यान्तः अन्यदेकं If Statement वर्तते चेत् तत् Nested If Statement इति कथ्यते । |
00:49 | वयमधुना Nested If Statement लेखनार्थं नियमान् अवलोकयाम । |
00:53 | अस्मिन् सन्दर्भे Condition1 सम्यग्वर्तते चेत् Condition2 परीक्ष्यते । |
00:59 | Condition2 इतीदं अन्यत् If स्टेट्मेण्ट् उपयुज्य दत्तं वर्तते । |
01:03 | Condition2 इतीदं सम्यग्वर्तते चेत् स्टेट्मेण्ट् अथवा प्रथमं-ब्लोक् एक्सिक्यूट् जायते । |
01:09 | अथवा तत् , स्टेट्मेण्ट् अथवा द्वितीयं-ब्लोक् इतीदं एक्सिक्यूट् करोति । |
01:13 | Condition1 इतीदं सम्यङ्नास्ति चेत् तदा संविधा Condition2 इत्यस्य परीक्षां न करोति । |
01:18 | |
01:24 | इदं सम्यग्रीत्या अवगन्तुं एकमुदाहरणं पश्याम । |
01:28 | वयमधुना “ Eclipse IDE” अपि च अन्येषां कोड्स् इत्येतेभ्यःस्केलिटन् प्राप्तवन्तः । |
01:32 | वयं “Nested If Demo” क्लास् इतीदं रचयित्वा तस्मै मेन् मेथड् योजितवन्तः । |
01:37 | वयमधुना दत्ता सङ्ख्या समा वा विषमा वा इति परीक्षामहै । |
01:42 | “Nested If” इत्यस्मिन् ऋणात्मकां सङ्ख्यामपि उपयोक्तुं शक्नुमः । |
01:46 | अतः मेन् मेथड् मध्ये - |
01:49 | int n equal to minus 5; इति टङ्कयन्तु । |
01:54 | ऋणात्मक सङ्ख्यानां सङ्ग्रहार्थं, वेरियेबल् “n” सिद्धमस्ति । |
01:58 | वयमधुना “If” कण्डीशन् लिखाम । |
02:01 | अग्रिमपङ्क्तौ - if (n < 0) इति टङ्कयन्तु । |
02:07 | फ्लवर्-ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु । |
02:10 | system dot out dot Println ब्रेकेट् मध्ये डबल्कोट्स् इत्यस्यान्तः Negative number सेमिकोलन् । |
02:22 | अस्माभिः आदौ सङ्ख्या ऋणात्मका वा इति परीक्षितव्या । |
02:25 | सत्यञ्चेत् वयं समा वा विषमा वा इति न परीक्षामहै । |
02:29 | सङ्ख्या न ऋणात्मका चेत् समसङ्ख्या वा विषमसङ्ख्या वा इति परीक्षामहै । |
02:34 | अग्रिमपङ्क्तौ ,“else” इति टङ्कयित्वा फ्लवर्ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु । |
02:42 | अधुना एक्सिक्यूशन् else विभागं प्रति आगतम् । |
02:45 | अस्यार्थः, सङ्ख्या ऋणात्मका न इति । |
02:48 | अतः वयं, else विभागस्यान्तः सङ्ख्यायाः समत्त्वं विषमत्वं वा परीक्षामहै । |
02:52 | एवं टङ्कयन्तु – if ब्रेकेट् मध्ये n modulus 2 double equal to 0 फ्लवर्ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु । |
03:03 | “system dot out dot println” ब्रेकेट् मध्ये डबल् कोट्स् इत्यस्यान्तः “even number” सेमिकोलन् । |
03:13 | पश्चात् else विभगमेवं टङ्कयन्तु – else फ्लवर् ब्रेकेत् उद्घाट्य एण्टर् नुदन्तु । |
03:18 | “system dot out dot println” ब्रेकेट् मध्ये डबल् कोट्स् इत्यस्यान्तः “odd number” सेमिकोलन् । |
03:29 | अस्माभिः समां विषमां वा सङ्ख्यां परीक्षितुं ऋणात्मकसङ्ख्या न परिगण्यते । |
03:34 | वयमधुना कोड् इत्यस्य प्रक्रियां पश्याम । |
03:37 | सञ्चिकां “save” कृत्वा “run” कुर्वन्तु । पश्यामः यत् Negative Number इति फलितं वर्तते । |
03:43 | वयमधुना धनात्मकां सङ्ख्यां परीक्षामहै । |
03:46 | n=-5 इतीदं n=5 इति परिवर्तताम् । |
03:53 | अधुना सञ्चिकां “save” कृत्वा “run” कुर्वन्तु । |
03:57 | अस्माकम् आकाङ्क्षानुसारेणैव फलितं Odd Number इति आगतम् । अधुना समसङ्ख्यां परीक्षामहै । |
04:04 | n=-5 इतीदं n=10 इति परिवर्तताम् । |
04:09 | अधुना सञ्चिकां “save” कृत्वा “run” कुर्वन्तु । |
04:12 | अस्माकम् आकाङ्क्षानुसारेणैव फलितं Even Number इति आगतम् । |
04:17 | If Statement इत्यस्यान्तः अन्यदेकं If Statement वर्तते चेत् तत् Nested If Statement इति कथ्यते । |
04:22 | नेस्टीङ्ग्-प्रक्रिया सीमातीता । |
04:25 | परन्तु , त्रिभ्यः स्तरेभ्यः अधिकं नेस्ट्-करणं न विहितम् । |
04:31 | वयमधुना “ternary operator” इतीदमवलोकयाम । |
04:33 | आदौ, “मैन् मेथड्” उद्घाटयाम । |
04:37 | वयमधुना द्वे इत्यनेन विभाजनीयायै सङ्ख्यायै संविधां लिखाम । |
04:40 | इदं हृस्वा संविधा वर्तते । परन्तु विषेशस्तु समसङ्ख्ययाः विभाजनम् । |
04:45 | 7 इतीदं 2 इत्यनेन विभज्यते चेत् 3 इतीदं प्राप्नुमः । |
04:48 | परन्तु शेषं विना फलितमावश्यकं चेत् किं करणीयम् ? । |
04:50 | अर्थात् 7 इतीदं 2 इत्यनेन विभज्यते चेत् 4 इतीदं प्राप्नुयात् न 3 इतीदम् । |
04:56 | अर्थात् अस्माभिः अग्रिमा सङ्ख्या अपेक्षिता । |
04:59 | एवं संविधालेखनं कथमिति जानाम । |
05:01 | मेन् मेथड् इत्यस्यान्तः int n, nHalf इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
05:08 | वयं सङ्ख्यां “n” इत्यस्मिन् , अर्धसङ्ख्यां “nHalf” इत्यस्मिन् च सङ्ग्रहं कुर्मः । |
05:13 | अग्रिमपङ्क्तौ : “n=5” इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
05:18 | अग्रिमपङ्क्तौ : “if” ब्रेकेट् मध्ये “n” modulus 2==0 इति टङ्कयिवा एण्टर् नुदन्तु । |
05:28 | “nHalf=n/2” इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
05:34 | “else” विभागे, फ्लवर्ब्रेकेट् मध्ये “nHalf” equal to ब्रेकेट्-मध्ये “n+1” व्होल् डिवैडेड् बै 2 सेमिकोलन् इति टङ्कयन्तु । |
05:50 | वयं सङ्ख्या समा वा विषमा वा इति परीक्ष्य, तदनुसृत्यैव विभागं कुर्मः । |
05:55 | संविधायाः फलितं दृष्टुं प्रिण्ट्-स्टेट्मेण्ट् संयोजयाम । |
05:59 | अतः, “system dot out dot println ब्रेकेट् मध्ये “nHalf” इति टङ्कयित्वा सेमिकोलन् नुदन्तु । |
06:11 | अधुना सञ्चिकां रक्षित्वा रन् कुर्वन्तु । |
06:14 | अस्माकं आशयः सम्पूर्णः जातः । वयं 3 इति फलितं प्राप्तवन्तः न 2इति । |
06:21 | वयं कण्डीशन् इत्यस्य सन्दर्भानुसारेण वेरियेबल् इत्यस्मै मूल्यं दद्मः । |
06:27 | अस्माकं संविधायां लोजिक् इत्यस्मादधिकाः नियमाः सन्ति । |
06:31 | एवं Ternary Operator इतीदं, कोडिङ्ग् इतीदं सरलं करोति । |
06:35 | Ternary Operator इतीदं Nested if वदेव फलितं दीयमानं एकं कण्डीशनल् ओपरेटर् वर्तते । |
06:40 | इदं प्रश्नार्थकचिह्नयुतं हृस्वं सिण्टॆक्स् ददाति । |
06:45 | इदम् एकवारं त्रीणि Operands स्वीकरोति । |
06:48 | वयमधुना Ternary Operators इत्येतेषां नियमान् जानाम । |
06:53 | expression इत्यस्य परीक्षार्थम् एकं कण्डीशन् वर्तते । |
06:56 | “Operand1” इतीदं वेरियेबल् इत्यस्य मूल्यं वर्तते । कण्डीशन् सम्यगस्ति चेदिदं फलितं भवति । |
07:03 | कण्डीशन् मिथ्या भवति चेत् “Operand2” इतीदमेकं मूल्यं भवति । |
07:09 | वयमधुना अस्माकं संविधायां इदम् उपयुञ्जाम । |
07:12 | वयमादौ, if else स्टेट्मेण्ट् निष्कासयाम । |
07:17 | nHalf equal to n modulus 2 double equal to 0 question mark n / 2 colon within the brackets n + 1 the whole divided by 2 semicolon इति टङ्कयन्तु । |
07:41 | स्टेट्मेण्ट् इत्यस्यार्थः एवमस्ति - |
07:43 | 'n' इतीदं समसङ्ख्या चेत्, 'nHalf' इतीदं 'n by 2' भवति । न चेदिदं 'n plus 1 by 2' भवति । |
07:50 | क्रियायामेव अधुना पश्याम । |
07:52 | सञ्चिकां रक्षित्वा रन् कर्तुं Ctrl S अपि च Ctrl F11 नुदन्तु । |
07:59 | अस्माकमभीष्टानुसारेण फलितं प्राप्तम् । |
08:02 | एवं ternary operator कोड् मध्ये संशयान् न्यूनं कृत्वा स्पष्टतां वर्धयति । |
08:09 | वयमधुना पाठस्यान्तमागतवन्तः । |
08:11 | पाठेऽस्मिन् वयम्, |
08:13 | Nested-If स्टेट्मेण्ट् अपि च Ternary Operator इत्यस्य विषयं तथा |
08:15 | जावा मध्ये Nested-If स्टेट्मेण्ट् अपि च Ternary Operator इत्यनयोः विनियोगः कथमिति च ज्ञातवतः । |
08:22 | अधुना पाठनियोजनम् । |
08:23 | अधोनिर्दिष्टानि जावाप्रोग्राम्स् लिखन्तु । |
08:28 | Nested-If इतीदमुपयुज्य दत्तासङ्ख्या समा वा अपि च 11 इत्यनेन विभज्यते वा इति परीक्षताम् । |
08:34 | Ternary Operator उपयुज्य द्वयोः सङ्ख्ययोः अधिकतमायाः अन्वेषणं कुर्वन्तु । |
08:40 | स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु । |
08:45 | इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति । |
08:52 | स्पोकन् ट्युटोरियल् टीम् |
08:54 | स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां कारयति । |
08:57 | जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति । अधिकविवरणार्थम् - contact एट् spoken हैफन् tutorial डोट् org. इत्यस्मै लिखन्तु । |
09:07 | स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते । |
09:11 | अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते । |
09:17 | अधिकविवरणं spoken हैफन् tutorial डोट् org स्लेश् NMEICT हैफन् Intro इत्यत्रोपलभ्यते । |
09:26 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |