Inkscape/C4/Special-effects-on-text/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:15, 3 February 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration'
00:01 Inkscape मध्ये Special Effects on Text इति विषयस्य पाठार्थं स्वागतम् ।
00:07 अस्मिन् पाठे वयम्, Reflected text, labeled text इत्यनयोः रचना तथा text case परिवर्तनञ्च ज्ञास्यामः ।
00:16 पाठमिदं रेकोर्ड् कर्तुमहं Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम् उपयुनज्मि ।
00:22 अस्मिन् परिक्रमे मया पाठाः इङ्क्स्केप् इत्यस्य 0.48.4 वर्शन् उपयुज्य रेकोर्ड् कृतमस्ति ।
00:28 अस्मात् पाठादारभ्य अहं 0.91आवृत्या रेकोर्ड् करोमि । इदं नूतनं वर्शन् वर्तते ।
00:35 Inkscape उद्घटामहै । वयं रेफ्लेक्टेड् टेक्स्ट् रचयितुं जानाम ।
00:41 Text चित्वा SPOKEN इति टङ्कयित्वा, तत् bold कुर्वन्तु ।
00:49 तत् टेक्स्ट् ज़ूम् करवाम । तदा डेमो स्पष्टतया दृश्यते ।
00:54 अधुना Object menu गत्वा Fill and Stroke विकल्पं चिन्वन्तु ।
00:59 पश्चात् Fill टेब् मध्ये Linear gradient उपरि नुदन्तु ।
01:03 ग्रेडियेण्ट् इत्यस्य handle उपरि नुत्वा , ग्रेडियेण्ट् वर्णं रक्तवर्णाय नीलवर्णाय च परिवर्तताम् ।
01:12 ग्रेडियेण्ट् इतीदं लम्बक्रमे अलैन् कुर्वन्तु । अतः अधुना यथा पटले दर्शितं तथा , रक्तवर्म् उपरि तथा नीलवर्णम् अधस्ताच्च आयाति ।
01:21 Selector tool उपरि नुत्वा वर्णानां प्रतिकृतिं कर्तुं Ctrl + D नुदन्तु ।
01:27 वर्णस्य प्रतिकृतिं फ्लिप् कर्तुं कीलफलकस्थं V कीलकं नुदन्तु ।
01:32 फ्लिप् कर्तुं Tool controls bar मध्ये लभमानं विकल्पमपि उपयोक्युं शक्नुमः ।
01:39 अस्माभिरधुना मूलाक्षराणामधस्तात् अक्षराणां प्रतिकृतिः दर्पणवत् स्थापनीया ।
01:46 अधुना Gradient tool चिन्वन्तु, ग्रेडियेण्ट्-हेण्डल् इत्यस्य अधोभागं नुदन्तु ।
01:52 Fill and Stroke डैलाग् बोक्स् प्रति आगच्छन्तु । वयमत्र Alpha मूल्यं 0 कुर्मः ।
01:59 अधस्तनं हेण्डल् अपि उपरि कर्षाम ।
02:05 Selector tool उपरि नुत्वा, Opacity इतीदं 80 कृत्वा, Enter नुदन्तु ।
02:12 अधुनास्माकं रेफ्लेक्टेड् टेक्स्ट् पूर्णमस्ति । सम्यक् दृष्टुं ज़ूम् कुर्वन्तु ।
02:20 पश्चात् लेबल्ड्-टेक्स्ट् रचयितुं जानाम ।
02:23 आदौ हरिद्वर्णेन आयतं रचयाम । Alpha मूल्यं शून्यमस्तीत्यतः तन्न दृश्यते ।
02:32 तत् 255 कृत्वा Enter नुदन्तु ।
02:36 अधुना आयते “SPOKEN TUTORIAL” इति टङ्कयन्तु ।
02:43 Selector टूल् उपरि नुत्वा आयतस्य परिमाणं अक्षरान्यनुसृत्य परिवर्तताम् ।
02:48 पश्चात् टेक्स्ट्स् चिन्वन्तु । तस्य प्रतिकृतिं कर्तुं Ctrl + D नुदन्तु ।
02:54 प्रतिकृतिः मूलाक्षराणामुपरि स्यात् ।
02:58 टेक्स्ट् वर्णं श्वेतं कुर्वन्तु । पश्चात् Path menu गत्वा Object to path विकल्पं नुदन्तु ।
03:07 अधुना Object menu इत्यस्योपरि नुत्वा Ungroup विकल्पं नुदन्तु ।
03:12 तथा Path menu गत्वा Union विकल्पं नुदन्तु ।
03:17 Tool controls bar मध्ये Lower selection one step ऐकान् उपरि नुदन्तु ।
03:23 पुनः, Path मेन्यु गत्वा Linked offset विकल्पं नुदन्तु ।
03:30 तेक्स्ट् उपरि विद्यमानं हेण्डल् नुदन्तु । औट्-लैन् इतीदं बृहत् कर्तुं तत् ड्रेग् कुर्वन्तु ।
03:37 Selector टूल् उपरि नुत्वा, टेक्स्ट् उपरि नुदन्तु तथा तत् अधः चालयन्तु ।
03:43 तत्र अन्यत् टेक्स्ट् रचितमित्यवलोकयन्तु । टेक्स्ट् चित्वा डिलीट् कुर्वन्तु ।
03:49 अधुना औट्लैन् चित्वा Nodes टूल् उपरि नुदन्तु ।
03:53 Tool controls bar मध्ये Convert selected object to path टूल् नुदन्तु ।
03:58 अधुना औट्लैन् उपरि नोड् दृष्टुं शक्नुमः । मध्ये स्थितं अनावश्यकं नोड् निष्कासयन्तु ।
04:09 पुनः Selector tool नुत्वा टेक्स्ट् इतीदं तस्य स्थानाय कर्षन्तु ।
04:14 टेक्स्ट् इतीदं हरिद्वर्णं कुर्वन्तु ।
04:18 औट्लैन् चिन्वन्तु । तस्य प्रतिकृतिं कर्तुं Ctrl + D नुदन्तु । स्मर्यतां यत् औट्लैन् इत्यस्य प्रतिकृतिः मूलप्रतेरुपरि वर्तते ।
04:28 तं कृष्णवर्णं कुर्वन्तु ।
04:31 पश्चात् Tool controls bar मध्ये Lower selection one step ऐकान् उपरि त्रिवारं नुदन्तु ।
04:38 अन्ते Fill and stroke डैलाग् बोक्स् मध्ये , ओपासिटि इतीदं 60 कृत्वा , ब्लर् इतीदं 7 कुर्वन्तु ।
04:47 अस्यानन्तरम् अस्माभिः लेबल् इत्यस्मै हेङ्गर् रचनीयम् ।
04:50 अतः Ellipse टूल् उपरि नुत्वा Ctrl key नुदन् , आयतस्य वामभागे उपरि , लेबल् इत्यस्मै रन्ध्रं कर्तुं वृत्तं रचयन्तु ।
05:00 वृत्तस्य प्रतिकृतिं कर्तुं Ctrl + D नुदन्तु । वृत्तम् आयतस्य अन्यत् पार्श्वं नयन्तु ।
05:06 पश्चात् Bezier tool इत्यस्योपरि नुत्वा , अत्र यथा दर्शितं तथा वक्ररेखां रचयन्तु ।
05:13 सा रेखा हेङ्गर् इव दृश्यताम् ।
05:16 Fill and stroke डैलाग् बोक्स् मध्ये , Stroke style इत्यस्यादः width इतीदं 5 कुर्वन्तु ।
05:22 अधुनास्माकं लेबल्ड् टेक्स्ट् सिद्धमस्ति ।ज़ूम् करवाम । अधुना सम्यगस्ति ।
05:30 पश्चात् Inkscape मध्ये टेक्स्ट् इत्यस्य केस् कथं परिवर्तनीयमिति जानाम ।
05:34 Text टूल् उपरि नुत्वा canvas उपरि वर्णमालां लिखन्तु । अक्षराणि लोवर् केस् मध्ये सन्ति ।
05:43 अधुना Extensions menu गत्वा Text विकल्पं नुत्वा पश्चात् Change Case विकल्पं नुदन्तु । भवन्तः काञ्चन विकल्पान् पश्यन्ति ।
05:52 UPPERCASE विकल्पं नुदन्तु । वर्णमालायाः केस् अप्पर् केस् अभवत् ।
05:59 अधुना पुनः टेक्स्ट् नुत्वा Extensions menu गत्वा Text उपरि नुदन्तु । अन्ते Change Case उपरि नुदन्तु ।
06:07 अधुना Random Case विकल्पं नुदन्तु । अधुना टेक्स्ट् इत्यस्य केस् मध्ये परिवर्तनम् अवलोकयन्तु ।
06:13 भवन्तः शिष्टान् विकल्पान् उपयोक्तुमर्हन्ति ।
06:16 अनेन वयं पाठस्यान्तमागतवन्तः ।
06:19 पाठसारं पश्याम । पाठेऽस्मिन् वयं reflected text, labeled text रचयितुं तथा टेक्स्ट् इत्यस्य केस् इतीदं lowercase इत्यस्मात् uppercase तथा random-case इत्याभ्यां परिवर्तनं कर्तुं च ज्ञातवन्तः ।
06:31 युष्माकं पाठनियोजनम् । INKSCAPE इति टेक्स्ट् रचयित्वा सर्फ़ेस् उपरि रिफ़्लेक्ट् कुर्वन्तु ।
06:37 Inkscape इति टेक्स्ट् रचयित्वा , टेक्स्ट् इत्यस्य केस् इतीदं Flip case इत्यस्मै परिवर्तताम् ।
06:42 समाप्त्यनन्तरं तदेवं दृश्यताम् ।
06:45 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
06:51 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
06:58 अधिकविवरणार्थं अस्मै लिखन्तु ।
07:01 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते । ।
07:06 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
07:10 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat