Inkscape/C2/Basics-of-Bezier-Tool/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:33, 1 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Inkscape मध्ये “Basics of Bezier tool” इति पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयम्,
00:08 सरलरेखां , संवृताकृतिञ्च रचयितुम्,
00:11 वक्ररेकां चित्रितुं,
00:13 अपि च नोड् इतीमानि संयोजयितुं , एडिट् कर्तुं लुपयितुञ्च ज्ञास्यामः ।
00:15 पाठार्थमहं
00:18 Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्,
00:21 Inkscape वर्शन् 0.48.4 इतीमे उपयुनज्मि ।
00:24 पाठमिदमहं मेक्सिमम्-रेसोल्युशन्-मोड् उपयुज्य रेकोर्ड् करोमि ।
00:28 यतो हि टूल्स् दर्श्यितुमिदं साहाय्यं करोति ।
00:32 Inkscape इतीदमुद्घाटयाम ।
00:35 आदौ Bezier tool इतीदमुपयुज्य सरलरेखां रचयाम ।
00:39 Bezier tool इतीदं Pencil tool इत्यस्याधः वर्तते ।
00:42 तदुपरि नुदाम ।
00:44 उपरि वामपार्श्वे विद्यमाने Tool controls bar मध्ये चत्वारान् विकल्पान् पश्यन्तु ।
00:48 Bezier curve चित्रितुं चत्वारि विधानानि सन्ति ।
00:51 Create regular Bezier path विकल्पः डीफोल्ट् रूपेण सक्रियमस्ति ।
00:57 केन्वास् उपरि एकदा नुत्वा कर्सर् इतीदं अन्यत् पार्श्वं चालयन्तु ।
01:01 पुनः नुदन्तु । पश्यतां यत् चित्रिता रेखा हरिद्वर्णयुतास्ति ।
01:07 रेखां पूर्णां कर्तुं रैट्-क्लिक् करोतु ।
01:11 रेखायाः द्वौ समाप्तिबिन्दू nodes इति कथ्येते । अस्य विषयमग्रे जानाम ।
01:17 अधुना एकं त्रिकोणं रचयाम ।
01:21 आदौ एकां विनमितरेखां रचयन्तु । एकवारं नुत्वा कोणं यथा भवेत्तथा अन्यां रेखां रचयन्तु ।
01:27 अधुना त्रिकोणं पूर्णं कर्तुं पुनः नुत्वा तृतीयं रेखां चित्रयित्वा node इत्यस्मै संयुञ्जन्तु ।
01:34 पश्चात् Bezier tool इतीदमुपयुज्य वक्ररेखां रचयाम ।
01:38 केन्वास् उपरि नुत्वा सरलरेखां रचयित्वा , वक्ररेखां कर्तुं पुनः नुत्वा मूषकगण्डं नुत्वैव कर्षतु ।
01:46 समापयितुं रैट्-क्लिक् करोतु ।
01:48 एवमेव अन्याः काश्चन वक्राकृतीः केन्वास् इत्यस्योपरि रचयन्तु । .
01:55 सोपानानि स्मरन्तु - 1. नुत्वा सरलरेखायाः चित्रणम् ,
01:59 2. पुनः नुत्वा , मूषकगण्डं नुत्वैव कृष्ट्वा वक्ररेखायाः चित्रणम् ,
02:03 3. समापयितुं रैट्क्लिक् करणम् ।
02:06 गमनात् पूर्वं केन्वास् इतीदं रिक्तं कर्तुं Ctrl A नुदन्तु ।
02:11 अधुना वयं संवृतं वक्रपथं चित्रितुं जानाम ।
02:15 आदौ केन्वास् मध्ये वक्ररेखामेकां रचयतु ।
02:18 पश्चात् मूषकं त्यक्त्वा कर्सर् इतीदं वक्ररेखायाः नोड् इत्यस्मात् दूरं नयन्तु ।
02:23 वयं वक्रपथं रक्तवर्णयुतं पश्यामः ।
02:27 पुनः नुत्वा कर्सर् चालयामः चेत् ऋजुपथं रक्तवर्णयुतं पश्यामः । तद्वक्रं कर्तुं नुत्वा कर्षतु ।
02:36 पुनः नोड् इत्यत्र कर्सर् चालयमः चेत् रेखा परावर्तते ।
02:41 पुनः नुदन्तु ; वयं ऋजुपथं रक्तवर्णे पश्यामः । इदं वक्रं कर्तुं नुत्वा कर्षतु ।
02:50 पुनः नोड् इत्यत्र वयं कर्सर् चालयामश्चेत् रेखा परावर्तते । कर्सर् इतीदं आदिमं नोड्प्रति नयित्वा पथसंवर्तनं करोतु ।
02:59 Tool controls bar प्रति गत्वा , मोड् इत्यस्य द्वितीयस्य ऐकान् इत्यस्योपरि नुदन्तु ।
03:08 केचन वक्रपथान् चित्रयित्वा पथान् पूर्णान् करोतु ।
03:15 पश्यन्तु इदमेवं परिवर्तते । केन्वास् इतीदं रिक्तं करवाम ।
03:22 तृतीयं ऐकान् केवलं सरलरेखां रचयति । तदुपरि नुत्वा रेखाः चित्रयन्तु ।
03:29 पश्यन्तु अनेन वक्ररेखारचना असाध्या ।
03:32 वयं त्रिभुजान् बहुभुजान् च रचयितुं शक्नुमः ।
03:40 अन्तिमस्य ऐकान् इत्यस्योपरि नुत्वा केन्वास् उपरि चित्रयन्तु ।
03:44 अत्र वयं समानान्तररेखाः लम्बरेखाः च चित्रितुं शक्नुमः ।
03:52 अतः अस्य मोड् उपयोगेन चतुरश्रं आयतं च चित्रितुं शक्नुमः ।
03:58 सर्वाः आकृतीः निष्कासयाम ।
04:02 Shape विकल्पः रेखायाः परावर्तनस्य उपयोगेन आकृतिरचनायां उपकरोति ।
04:07 ड्रोप् डौन् गण्डस्योपरि नुदन्तु ।
04:09 अत्र - None, Triangle in, Triangle out, Ellipse, From clipboard. इति पञ्च विकल्पाः सन्ति ।
04:18 प्रथमविकल्पः None इतीदं यत्किमपि परिणामं न ददातीत्यतः Triangle in विकल्पं प्रति गच्छाम ।
04:25 तदुपरि नुत्वा केन्वास् इत्यस्योपरि रेखां चित्रयन्तु ।
04:28 रेखा अन्तर्मुखीभूत्वा त्रिकोणं भविष्यति ।
04:34 पश्चात् Triangle out इत्यस्योपरि नुत्वा केन्वास् इत्यस्योपरि रेखां चित्रयन्तु ।
04:39 अधुना त्रिकोणं बहिर्मुखत्वेन रचितम् ।
04:43 Ellipse इत्यस्योपरि नुत्वा केन्वास् इत्यस्योपरि रेखां रचयन्तु ।
04:47 रेखा अण्डाकृतौ वर्तते इति अवलोकयन्तु ।
04:50 अन्तिमविकल्पः From clipboard । अस्य विषयम् आगामिपाठे ज्ञास्याम ।
04:56 अधुना node इतीमानि संयोजितुं , निष्कासितुं , परिवर्तितुं च ज्ञास्याम ।
05:00 इदं Node tool उपयुज्य कर्तुं शक्नुमः ।
05:03 केन्वास् इत्यस्योपरि स्थिताः रेखाः निष्कासयन्तु ।
05:06 Tool controls bar गत्वा Mode इतीदं regular path इति, अपि च Shape इतीदं None. इति परिवर्तताम् ।
05:13 केन्वास् प्रति आगत्य मनुष्यहस्तं लिखन्तु ।
05:23 अधुना Node इत्यस्योपरि नुदन्तु ।
05:26 पश्यताम् यत्, अत्र सर्वाणि नोड्स् दृश्यन्ते ।
05:30 Tool Controls bar इतीदमवलोकयन्तु ।
05:33 अत्र आदिमानि षट् ऐकान्स् nodes अपि च paths इतीमानि संयोक्तुं निष्कासितुञ्च साहाय्यमाचरन्ति ।
05:38 अस्य विषयं ज्ञातुं टूल् टिप् अवलोकयन्तु ।
05:41 यत्र कुत्रापि नुदन्तु । पश्यन्तु यत् द्वेऽपि नोड्स् नीले अभवतामिति ।
05:48 पश्चात् Add node विकल्पस्योपरि नुदन्तु ।
05:52 चितयोः नोद्स् मध्ये अन्यत् नोड् समयुनक् ।
05:58 अधुना इदं लघुघटकं चित्वा अग्रिमानि पदानि पुनरावर्तताम् ।
06:04 लघुघटकस्य मध्ये नूतनं नोड् समयुनक् इत्यवलोकताम् ।
06:10 नूतनं नोड् चिनोतु ।
06:13 Delete node विकल्पं नुदन्तु । तन्निष्कासितम् ।
06:18 हस्तस्योपरि यत्किमपि नोड् नुदन्तु ।
06:21 Bezier handles इतीदं दृग्गोचरं कर्तुं Tool controls bar इत्यत्र अन्तिमात् पूर्वे स्थितम् ऐकान् नुदन्तु ।
06:27 अधुना चिते घटके Bezier handles दृश्यते ।
06:32 न चेत् तद्घटकस्योपरि नुत्वैव किञ्चित् कर्षतु ।
06:37 तद्घटकं परिभ्रमते अपि च Bezier handles दृश्यते ।
06:41 चितस्य नोड् इत्यस्य परिमाणं परिवर्तितुं handles उपरि नुदन्तु ।
06:45 एवमेव अन्यानि नोड्स् अपि परिवर्तताम् ।
07:04 अग्रिमं ऐकान् नोड्स् इतीमानि संयोक्तुं साहाय्यमाचरन्ति ।
07:07 तर्जन्याः पुरस्तात् अधिकं नोड् वर्तते ।
07:11 मध्यस्थं नोड् इतीदम् अपि च ऊर्ध्वस्थितं नोड् इतीदं , Shift' कीलकनोदनेन चिन्वन्तु ।
07:18 अधुना Join node ऐकान् इत्यस्योपरि नुदन्तु । द्वेपि नोड्स् संयुक्तम् वर्तेते ।
07:25 अग्रिमम् ऐकान् चितानां नोड्स् इत्येतेषां पथस्य त्रोटनार्थं साहाय्यं करोति ।
07:29 अधुनाहं अङ्गुष्ठतर्जन्योः संपर्कस्य त्रोटनं करोमि ।
07:33 अतः इमे यद् नोड् योजयति तद् नोड् चित्वा Break path ऐकान् उपरि नुदन्तु ।
07:40 नोड् इतीदं चित्वा किञ्चित् कर्षतु ।
07:46 पथः अग्रे अस्ति अपि च तद् नोड् पृथक् पृथक् अभवच्च ।
07:53 तत्संयोगं कर्तुं द्वेऽपि नोड् नुत्वा Tool controls bar मध्ये Join selected end-nodes ऐकान् उपरि नुदन्तु ।
08:03 द्वयोः नोड्स् मध्ये द्वौ नवीनपथौ रचिताविति पश्यन्तु ।
08:08 एकं पार्श्वम् अथवा पथं निष्कासितुं , अग्रिमस्य Delete segment ऐकान् इत्यस्योपरि नुदन्तु । अधुना पथः निष्कासितः ।
08:17 इमां क्रियां undo कर्तुं Ctrl Z नुदन्तु ।
08:20 इमं हस्तं हित्वा , पुनः Node tool उपरि नुदन्तु ।
08:26 अधुना Tool controls bar इत्यस्योत्तरे स्थितानि चत्वारि ऐकान्स् कथमुपयुज्यते इति जानाम ।
08:30 इमानि ऐकान्स् चितानि नोड्स् एडिट् कर्त्ं साहाय्यं कुर्वन्ति ।
08:34 Bezier tool इतीदमुपयुज्य तिर्यक् U आकृतिं चित्रयतु । Node टूल् उपरि नुत्वा त्रीणि नोड्स् पश्यन्तु ।
08:49 उपरिस्थितं नोड् चित्वा Tool controls bar मध्ये Make selected nodes corner ऐकान् उपरि नुदन्तु ।
08:55 तदिदं कोर्नर्-नोड् करोति ।
08:58 Bezier handless उपरि नुत्वा ऊर्ध्वं अधः च चालयित्वा परिवर्तनं पश्यन्तु ।
09:03 node इतीदं समस्थली-कर्तुं अग्रे स्थितस्य ऐकान् इत्यस्योपरि नुत्वा आकृतौ परिवर्तनं पश्यन्तु ।
09:11 नोड्स् इतीमानि सिमेट्रिक् कर्तुं अग्रे स्थितस्य ऐकान् इत्यस्योपरि नुदन्तु ।
09:16 नोड् इतीदं अटो-स्मूत् कर्तुं अग्रे स्थितस्य ऐकान् इत्यस्योपरि नुदन्तु ।
09:20 अग्रे स्थिते द्वे ऐकान्स् केवलं आकृत्याः एकस्मिन् पार्श्वे कार्यं कुरुतः । अतः U इत्यस्य वामपार्श्वं चित्वा प्रथमम् ऐकान् नुदन्तु ।
09:30 यथा टूल्-टिप् वदति तथा तत् पार्श्वं सरलरेखा अभवत् ।
09:35 Bezier handles उपरि नुत्वा कृष्टुं प्रयतताम् । तस्य परिभ्रमणमसाध्यम् ।
09:44 तत् पुनः वक्ररेखां कर्तुं अग्रिमं ऐकान् नुदन्तु ।
09:49 अधुना Bezier handles कृष्ट्वा तद् वक्रं कर्तुं साध्यम् ।
09:54 चितं वस्तु पथवत् कर्तुं अग्रिमं ऐकन् नुदन्तु ।
09:58 stroke इतीदं पथवत् कर्तुं अग्रिमं ऐकन् नुदन्तु ।
10:02 stroke इतीमानि दृग्गोचराणि कर्तुं नोड् नुत्वा कर्षतु ।
10:08 चितानि नोड्स् X तथा Y अक्षे चालयितुं अग्रिमे द्वे ऐकान्स् साहाय्यं कुरुतः ।
10:15 अप्-एरो डौन्-एरो च नुत्वा परिवर्तनानि पश्यन्तु ।
10:24 पथः क्लिपिङ्ग् तथा मास्किङ्ग् परिमाणयुतः चेत् अग्रिमे द्वे ऐकान्स् साहाय्यं कुरुतः ।
10:29 इमान् विकाल्पान् समभ्यासं कर्तुमर्हन्ति भवन्तः ।
10:33 पाठसारं पश्याम । पाठेऽस्मिन् वयं ,
10:37 सरलरेखां संवृताकृतिं च चित्रितुम्,
10:39 वक्ररेखां चित्रितुम्,
10:41 अपि च नोड्स् योजयितुं, परिवर्तितुं, निष्कासितुं च ज्ञातवन्तः ।
10:43 युष्माकं पाठाभ्यासः -
10:46 Bezier tool उपयुज्य पञ्चदलयुतं, पर्णद्वययुतं, एकशाखायुतं पुष्पं चित्रयन्तु ।
10:52 दलेभ्यः पाटलवर्णम्,
10:54 शाखायै पर्णाभ्यां हरिद्वर्णं पूरयन्तु ।
10:57 समाप्तौ तदेवं पश्येत् ।
11:00 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
11:05 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
11:12 विवरणार्थं अस्मै लिखन्तु ।
11:14 अयं प्रकल्पः नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
11:20 अधिकविवरणम् अत्रोपलभ्यते ।
11:24 वयं पाठस्य अन्ते स्मः ।
11:26 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat