Inkscape/C2/Create-and-Format-Text/Sanskrit
From Script | Spoken-Tutorial
Revision as of 20:38, 24 December 2017 by NaveenBhat (Talk | contribs)
Time | Narration |
00:01 | नमस्कारः, create and format text इति इङ्क्स्केप्-पाठार्थं स्वागतम् । |
00:06 | अस्मिन् पाठे वयं,
टेक्स्ट्-इतीदं योजयितुं टेक्स्ट्-इतीदं फोर्मेट्-कर्तुम्, अलैन्-कर्तुं, स्पेस्-दातुम् अपि च बुलेट्स् योजयितुं च ज्ञास्यामः । |
00:15 | अन्ते easy flier रचयितुं च ज्ञास्यामः । |
00:19 | पाठमिमं रेकोर्ड्-कर्तुं मया उबण्टु-लिनक्स् वर्शन् 12.04, अपि च इङ्क्स्केप् वर्शन् 0.48.4 च उपयुज्येते । |
00:29 | पाठे उपयुज्यमानेभ्यः टूल् इत्येतेभ्यः साहाय्यं भवेदित्याशास्य , गरिष्ठं रेसोल्युशन् उपयुज्य पाठस्य रेकोर्ड् कृतम् । |
00:38 | इङ्क्-स्केप् इतीदमुद्घाटयाम । |
00:40 | टूल्-बोक्स्-मध्ये विद्यमानानि टेक्स्ट्-टूल्स् उपयुज्य , अक्षराणि योजयाम । |
00:45 | विधद्वये टेक्स्ट् योजयितुं शक्नुमः । regular अपि च Flowed । |
00:50 | आदौ रेग्युलर् तेस्ट्-विषयं जानाम । टेक्स्ट्-टूल्-नुत्वा केन्वास् नुदन्तु । |
00:57 | spoken इति टङ्कयन्तु । अधिकाक्षराणां स्थानं कल्पयितुं टेक्स्ट्-बोक्स् इतीदं वर्धते । |
01:03 | लैन् ब्रेक् इतीदं अस्माभिरेव योजनीयमित्यतः अग्रिमां पङ्क्तिं गन्तुं ,Enter कीलकंनुदन्तु । tutorial इति टङ्कयन्तु । |
01:11 | पूर्वतनपङ्क्तौशब्दं योजयितुं, T इत्यस्य पृष्टतः कर्सर् स्थापयित्वा बेक्-स्पेस् नुत्वा , द्वयोः शब्दयोः मध्ये स्पेस् स्थापयन्तु । |
01:22 | एवमेव ,spoken tutorial इत्यस्याधः, नूतनपङ्क्तौ http://spoken-tutorial.org/ इति टङ्कयन्तु । |
01:33 | पश्चात् ,flowed text इतीदमुपयुज्य टेक्स्ट्-योजयितुं जानाम । |
01:38 | अधुना लेब्रे ओफिस् रैटर् मध्ये रक्षितानि अक्षराणि copy करोमि । |
01:45 | टेक्स्ट्स् चेतुं, Ctrl अपि च A कीलके नुत्वा, Ctrl अपि च C नोदनेन कोपि करोतु । |
01:52 | अधुना इङ्क्-स्केप् गत्वा , टेक्स्ट् तूल् चितं वेति परीक्ष्यताम् । |
01:58 | केन्वास् उपरि नुत्वा आयतं चतुरश्रं वा टेक्स्ट् एरिया रचयन्तु । |
02:03 | मौस् गण्डं परित्यज्य , केन्वास् इत्यस्योपरि नीलवर्णस्य आयताकारस्य मञ्जूषा रचितमिति पश्यन्तु । |
02:10 | अधुना, टेक्स्ट्-बोक्स् इत्यस्यान्तः, वामपार्श्वे, टेक्स्ट्-प्रोम्ट् इतीदं दीव्यतीति पश्यन्तु । |
02:17 | कोपि कृतं तेक्स्ट्-इतीदं पेस्ट् कर्तुं Ctrl अपि च V कीलके नुदन्तु । |
02:22 | टेक्स्ट्-बोक्स् इत्यस्य वर्णं रक्तमभवत् । |
02:25 | यतोऽहि, टेक्स्ट् इत्यस्य परिमितिः गरिष्ठमभवत् । |
02:31 | इदं, टेक्स्ट्-बोक्स् इत्यस्य दक्षिणपार्श्वे, हृस्वं डैमण्ड्-हेण्डल् इतीदमुपयुज्य सम्यक्कर्तुं साध्यम् । |
02:38 | इदं क्लिक् करोतु अपि च टेक्स्ट्-बोक्स् इत्यस्य वर्णे परिवर्तनं पश्यन्तु । |
02:44 | टेक्स्ट् इत्यस्य अन्तिमा पङ्क्तिः , आदिमया पङ्क्त्या सह योजितम् । |
02:48 | इदं पृथक्कर्तुं ,अन्तिमपङ्क्त्याः प्रारम्भे द्विवारं Enter कीलकं नुदन्तु । |
02:53 | पश्चात्, टेक्स्ट्-बोक्स् इतीदं फोर्मेट्-कर्तुं, नाना विकल्पान् ज्ञास्यामः । spoken tutorial इतीदं नुदन्तु । |
03:01 | मेन् मेन्यू मध्ये टेक्स्ट् इतीदं नुत्वा text and font विकल्पं चिनोतु । |
03:09 | font and text इति विकल्पद्वययुतमेकं डैलाग्-बोक्स् उद्घट्यते। font टेब् इत्यस्यान्तः नाना विकल्पाः सन्ति । |
03:17 | लभ्यानि सर्वाणि फोण्ट्स् ,font फैल्-मध्ये एव वर्तन्ते । युष्माकं अभीष्टानुसारेण , यत्किमपि फोण्ट् चेतुं शक्नुथ । |
03:25 | अत्र विद्यमाने preview बोक्स् मध्ये, अस्माभिः चितं फोण्ट् इत्यस्य प्रीव्यू दृष्टुं शक्नुमः । Bitstream Charter इतीदं मम चयनम् । |
03:33 | अस्माकम् आवश्यकतानुसारेण स्टैल् इतीदं चिनुमः। अहं bold इतीदं चिनोमि । |
03:46 | फोण्ट् सैज़् इतीदं परिवर्तितुं ड्रोप्-डौन्-एरो इतीदं नुत्वा size इतीदं चिनोतु । इदं टैल् वर्तते इत्यतः अहं बृहत् फोण्ट् अर्थात् 64 इतीदं चिनोमि । |
03:57 | पश्चात् लेयौट् । |
03:59 | अस्मै विकल्पाय प्रीव्यू न दृश्यते इत्यतः अस्य विषयं कशित्समयादनन्तरं पश्याम । |
04:04 | अधुना, font इत्यस्यानन्तरं विद्यमानस्य text tab इत्यस्योपरि नुदन्तु । अत्र टेक्स्ट्-युतं प्रीव्यू-विण्डो अस्ति । |
04:12 | टेक्स्ट्-इत्यस्मै आवश्यकं परिवर्तनमत्र कर्तुं शक्नुमः । |
04:16 | apply गण्डं नुत्वा डैलाग् बोक्स् इत्यस्य पिधानं करोतु । टेक्ट् अधुना परिवर्तितमिति पश्यन्तु । |
04:23 | अधोविद्यमानं कलर्-पेलेट् उपयुज्य , टेक्स्ट्-वर्णं परिवर्तितुं शक्नुमः । धूम्र-रक्तवर्णं चिनोमि । |
04:30 | पश्चात् यु आर् एल् टेक्स्ट् http://spoken-tutorial.org इतीदं चिन्वन्तु । |
04:40 | टूल् कण्ट्रोल् बार् मध्येऽपि टेक्स्ट्-फोर्मेट् कर्तुं शक्नुमः । |
04:44 | फोण्ट् इतीदं bitstream charter इति, फोण्ट्-सैज़् इतीदं 25 इति अपि च वर्णं नीलञ्चेति परिवर्तामहे । |
04:57 | अधुना, पेराग्राफ् टेक्स्ट् इदीदं चिनुमः । टेक्स्ट्-टूल् चितं वर्तते चेत्, टेक्स्ट् इत्यस्योपरि नुत्वा टेक्स्ट्-बोक्स् इत्यस्यान्तःगन्तुं शक्नुमः । |
05:04 | टेक्स्ट् इत्यस्य फोण्ट्-सैज़् इतीदं 25 करोतु । |
05:08 | टेक्स्ट् इतीदं केन्वास् इत्यस्यान्तः योजयितुं डैमण्ड् हेण्डल् नुत्वा कर्षयतु । |
05:15 | पश्चात् टेक्स्ट् इतीदं अलैन् कुर्मः । |
05:19 | टूल्-कण्ट्रोल्-बार् मध्ये , इटालिक् ऐकान् इत्यस्य पार्श्वे स्थितानि चत्वारि ऐकान्स् , टेक्स्ट् इतीदं टेक्स्ट्-बोक्स् इत्यस्य वामे मध्ये दक्षिणे च अलैन् कर्तुं साहाय्यमाचरन्ति । |
05:30 | चतुर्थः विकल्पः , टेक्स्ट् इतीदं टेक्स्ट्-बोक्स् इत्यस्य सीमायाः अन्तः जस्टिफै करोति । गमनात्पूर्वं लेफ्ट्-अलैन् नुदामि । |
05:39 | align and distribute विकल्पमुपयुज्यापि टेक्स्ट् अलैन् कर्तुं शक्नुमः । |
05:43 | main मेन्युमध्ये object मेन्यु नुत्वा align and distribute विकल्पं नुदन्तु । |
05:51 | अधुना spoken tutorial इतीदं केन्द्रं प्रति आनयामि । तन्नुदन्तु । |
05:57 | आदौ relative to इति पेरामीटर् page इति सेट् जातं वेति परीक्ष्यताम् । |
06:01 | अतः center on vertical axis इतीदं नुदन्तु । अधुना टेक्स्ट् केन्द्रे आनीतम् । |
06:10 | अधस्ताद्रिक्तस्थाने केचन टेक्स्ट् योजयाम । |
06:13 | FOSS Categories इति टङ्कयन्तु । अधुना center on vertical axis इतीदं नुत्वा इदं पृष्टस्य केन्द्रे स्थापयन्तु । |
06:25 | कानिचन फोस्-नेम्स् टङ्कयन्तु । उदाहरणार्थं - Linux,LaTeX, Scilab,Python । इमानि प्रत्येकतया टङ्कयित्वा केन्वास् मध्ये प्रसारं कुर्वन्तु । |
06:39 | अधुना, अक्षरानि एकैव पङ्क्तौ समानान्तरे अलैन् करवाम । |
06:44 | shift कीलकमुपयुज्य चत्वारि टेक्स्ट् चिन्वन्तु ।Align baseline of text अपि च Distribute baseline of text horizontally इतीमे च नुदन्तु । |
06:58 | पदानां मध्ये अन्तरम् असमानं वर्तते । |
07:02 | प्रथमपदस्य प्रथमाक्षरम् अपि च द्वितीयपदस्य प्रथमाक्षरं च समानान्तरे स्तः । किन्तु पदानि न । |
07:10 | वर्टिकल् टेक्स्ट् इत्यस्मायपि एवमेव कार्याणि सम्भवन्ति । |
07:15 | एते विकल्पाः केचन सन्दर्भेषु उपकुर्वन्ति । |
07:20 | पदानां मध्ये अन्तरं सम्यक्कुर्मः । |
07:23 | तदर्थं, distribute इत्यस्याधः , प्रथमपङ्क्तौ विद्यमानं चतुर्थं ऐकान् नुदन्तु । अधुना पदानामन्तरं सम्यक्कृतम् । |
07:32 | पश्चात् पेराग्राफ् टेक्स्ट् इत्यस्य पङ्क्तीनामन्तरं संयोजितुम् जानाम । |
07:38 | टेक्स्ट्-बोक्स् इत्यस्यान्तः गन्तुं पेरग्राफ टेक्स्ट् इत्यस्योपरि द्विवारं नुदन्तु । |
07:44 | टूल्-कण्ट्रोल् बार् मध्ये spacing between the lines ऐकान् , पङ्क्तीनां मध्ये अन्तरं परिवर्तितुं साहाय्यं करोति । |
07:50 | यदा अन्तरं परिवर्त्यते तदा किं भविष्यतीति पश्यन्तु । |
07:55 | लैन् स्पेसिङ्ग् इतीदं 1.50 करोतु । |
07:59 | आग्रिमम् ऐकान् अक्षराणां मध्ये अन्तरं व्यवस्थापितुं साहाय्यमाचरति । ऊर्ध्वस्य अधस्य एर्रो नुदन्तु । परिवर्तनं पश्यन्तु । |
08:07 | स्पेस् पेरामीटर् इतीदं शून्यं स्थापयन्तु । |
08:12 | केन्वास् इत्यस्य ऊर्ध्वाधर कोणेषु रिक्तस्थानमस्तीत्यवगच्छन्तु । तन्त्रमुपयुज्य इदं पूरयितुं साध्यमस्ति । |
08:19 | केन्वास् इत्यस्य बहिः यत्र कुत्रापि learn open source software for free इति टङ्कयन्तु । |
08:24 | font इतीदं Ubuntu इति font size इतीदं 22 इति परिवर्त्य bold कुर्वन्तु । |
08:34 | अधुना टूल् कण्ट्रोल् बार् मध्ये अन्तिमं ऐकान् vertical text इतीदं नुदन्तु । |
08:39 | टेक्स्ट् अधुना लम्बक्रमे स्थापितमिति पश्यन्तु । |
08:43 | सेलेक्टर् टूल् उपयुज्य तेक्स्ट् नुत्वा केन्वास् इत्यस्य वामाश्रौ स्थापयन्तु । |
08:49 | कोपि कर्तुं Ctrlअपि च D कीलके नुत्वा Ctrl कीलकमुपयुज्य अन्यत् पार्श्वे स्थापयन्तु । |
08:59 | अधुना पेराग्राफ् मध्ये टेक्स्ट् इत्येतेभ्यः बुलेट् पोइण्ट् संयोजयाम । |
09:03 | टेक्स्ट् इत्येतेभ्यः बुलेट्स् अथवा नम्बर् लिस्ट् इत्यस्य संयोजनम् इङ्क्स्केप् मध्ये नास्ति । इमानि अस्माभिरेव कर्तव्यानि । |
09:11 | ellipse टूल् नुत्वा रक्तवर्णस्य लघुवृत्तं रचयन्तु । |
09:17 | अधुना , बुलेट् इतीदं पेराग्राफ् इत्यस्य प्रथमपङ्क्तौ स्थापयन्तु । इदं कोपि कृत्वा प्रतिकृतिं अग्रिमपङ्क्तौ स्थापयन्तु । |
09:27 | स्र्वत्र एवमेव कुर्वन्तु । |
09:32 | अधुना अस्माकं आवश्यकतानुसारेण टेक्स्ट् वर्तते । |
09:36 | इदं प्लैयर् वत् ड्रुष्टव्यमित्यतः सौन्दर्यवर्धककार्याणि कुर्वन्तु । |
09:41 | इयमस्माकं सम्पूर्णा सञ्चिका । |
09:45 | अहं उपरि अधस्ताच्च बोर्डर्स् योजितवानस्मि । टेक्स्ट् इत्येतेभ्यः आयतं दीर्घवृत्तञ्च योजितवानस्मि । |
09:51 | अस्माकं प्लैयर् इत्यस्मै नाना विन्यासान् रचयितुं भवतां सृजनात्मकतां उपयोक्तुमर्हन्ति । |
09:57 | सारांशं पश्याम । |
09:59 | अस्मिन् ट्युटोरियल् मध्ये वयं
टेक्स्ट् योजयितुं, टेक्स्ट् इतीदं फोर्मेट् कर्तुं अलैन् कर्तुञ्च, बुलेट् लिस्ट् कर्तुं अन्तरं संस्थापितुं च ज्ञातवन्तः । |
10:06 | सामान्यं फ्लैयर् रचयितुञ्च ज्ञातवन्तः । |
10:09 | युष्माकमेकं पाठाभ्यासः वर्तते । |
10:11 | एवं एकं फ्लैयर् रचयित्वा टेक्स्ट् टूल् उपयुज्य अक्षराणि टङ्कयन्तु ।रेक्टाङ्गल् टूल् उपयुज्य बुलेट् अपि च बोक्स् रचयन्तु । |
10:19 | star टूल् उपयुज्य दशाश्रियुतं नक्षत्राकृतिं रचयन्तु ।कलर् पेलेट् अपि च fill and stroke उपयुज्य वर्णं परिवर्तयन्तु । align and distribute उपयुज्य टेक्स्ट् इतीदं अलैन् कुर्वन्तु । |
10:31 | लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति । उत्तमं बेण्ड्-विड्ट् नास्ति चेदवचित्य पश्यन्तु । |
10:39 | स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
. |
10:47 | अधिकविवरणार्थं अस्मै लिखन्तु contact@spoken-tutorial.org । इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते । |
10:57 | अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु । |
11:01 | वयं पाठस्यान्तमागतवन्तः । |
11:03 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः । |