Introduction-to-Computers/C2/Introduction-to-Gmail/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:51, 29 October 2017 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time
Narration
00:01 Introduction to Gmail इति पाठार्थं भवद्भ्यः स्वागतम्।
00:06 पाठेऽस्मिन् वयम् -
00:09 * किञ्चन नूतनं 'google' अकौंट कथमारचनीयम्,
00:12 * गूगल अकौंट इतीदमुपयुज्य 'gmail' मध्ये कथं सम्प्रवेष्टव्यम् (Login),
00:16 * 'email' कथं लेखनीयम्,
00:18 * ई-मैल कथं प्रेषणीयम्,
00:20 * ई-मैल कथं दृष्टव्यम् अपि च,
00:22 * जी-मैल् तः कथं निष्क्रमणीयम् (Log out) इत्यादिविषयान् ज्ञास्यामः।
00:24 वयं 'Inbox' इत्येतादृशान् विषयान् अपि ज्ञास्यामः।
00:30 पाठेऽस्मिन् भागं गृहीतुं, अन्तर्जालसम्पर्कः जालान्वेषकः (Web browser) च भवेताम् ।
00:37 अहमत्र भवद्भ्यः दर्शयितुं ‘Firefox’ इति जालान्वेषकस्य उपयोगं कुर्वन् अस्मि।
00:42 अद्यत्वे, गूगल्, अधोनिर्दिष्टानां सर्वविधानां गूगल्-उत्पन्नानां कृते एकमेव अकौंट प्रयच्छति -
00:48 * Gmail
00:49 * YouTube
00:50 * Google Play
00:51 * Google Docs or Drive
00:53 * Google Calendar.... एवमादयः।
00:57 अतः, वयम् एकेनैव सम्प्रवेषेण उपर्युक्तानां कस्यचिदपि उत्पादनानाम् उपयोगं कर्तुं शक्नुमः।
01:02 किञ्चन नूतनं गूगल-अकौंट उत्पादनेन वयं पाठमिमम् आरभामहे।
01:06 भवतां जालान्वेषकम् उद्घाट्य तत्र एवं टङ्कयन्तु -

http colon slash slash gmail dot com (http://gmail.com).

01:16 अधुना किञ्चन पृष्टम् उद्घाटितं भवति।
01:22 वयमत्र, उपरि दक्षिणकोणे, 'Create an account ' अपि च 'Sign in' इति विकल्पद्वयं पश्यामः।
01:25 पृष्टमिदम् भवतां यन्त्रे ऐदम्प्राथम्येन यदि उद्घाटितं वर्तते तर्हि तद् एवं दृश्यते।
01:31 यदि इदं पृष्टं पूर्वमपि उद्घाटितं, तर्हि तत् पृष्टम् एवं दृश्यते।
01:39 एवं, भवन्तः भवतां ‘email इत्यस्य उपयोक्तृनाम कूटशब्दं च टङ्कयितुं केचित् पेटिके, अपि च
01:46 'Sign In' इति किञ्चन बृहन्पिञ्जं च पश्यन्ति।
01:50 अस्याधः 'Create an account' इति कश्चन संयोगः (Link) दृश्यते।
01:55 'Create an account' इत्यस्योपरि नुदामः।
01:59 अधुना वयं, 'Google Account' इयस्य संरचनायाः पृष्टे स्मः।
02:03 वयं दक्षिणपार्श्वे किञ्चन विवरणपत्रं दृष्टु शक्नुमः यत्र वयम् अस्माकं व्यक्तिगतं विवरणं पूरयितुं शक्नुमः।
02:11 वयम्, अस्माकं प्रथमम् अन्तिमं च नाम तत्त्तत्पेटिकायां पूरयामः।
02:17 अहं, मम नाम 'Rebecca Raymond' इति पूरयामि।
02:23 अनन्तरम्, वयम् अस्माकं 'username' (उपयोक्तृनम) चेत्तव्यम्।
02:27 उपयोक्तृनाम इत्यतेत् अपूर्वं (unique) भवेत् अपि च अक्षरैः अक्षरसङ्ख्यासंयोजनाभिः वा आरचितं भवेत्।
02:37 वयम् उपयोक्तृनाम "becky0808" इति दद्मः।
02:43 यदि, भवद्भिः दत्तम् उपयोकृनाम एतावता एव अन्यैः दत्तं वर्तते तर्हि अधः विद्यमानवत् सन्देशः दृश्यते -
02:49 “Someone already has that user name, Try another”.
02:54 अस्मद्दत्तविवरणानुगुणं 'Google' कतिचन उपयोक्तृनाम सूचयति।
03:01 वयम् अस्मदभीष्टं यत्किमपि उपयोक्तृनाम दातुं शक्नुमः, तस्य उपलब्धताम् अपि परिशीलयितुं शुक्नुमः।
03:07 अधुना, अहं 'username' इत्यत्र 'ray.becky.0808' इति टङ्कयामि।
03:18 इदम् उपयोक्तृनाम उपलभ्यते इति सूचितमस्ति।
03:24 अधुना वयम् अस्मै अकौंट कृते किञ्चन कूटशब्दम् (Password) आरचयाम।
03:30 वामभागस्था सूचनापेटिका, कूटशब्दः कियान् दीर्घः भवेत् इति सूचयति।
03:36 भवदभीष्टम् उचितं च कञ्चन कूटशब्दं टङ्कयन्तु।
03:41 अनन्तरम्, दृढीकरणाय तं कूटशब्दं पुनः टङ्कयन्तु।
03:44 एतदुत्तरं, 'Birthday' इति विकल्पः आयाति।
03:48 मासं पतत्सूचीतः (Drop Down) चिन्वन्तु।
03:51 अनन्तरम्, दिनाङ्कं वर्षं च तत्तत्लेखनपेटिकायां टङ्कयन्तु।
03:57 तदुत्तरम् अत्र लिङ्गसूचनापेटिका अस्ति। तत्र अहम् 'Female' इति चिनोमि।
04:03 अग्रिमं स्थानं 'Mobile phone' इति अस्ति।
04:06 अधुना अहम् एतत् त्यक्त्वा अग्रे सरामि।
04:08 एतदुत्तरम्, अस्माकं 'current email address' पृष्टुं काचित् लेखपेटिका अस्ति।
04:14 यदि भवतां समीपे रच्यमानम् अतिरिच्य अन्यत् 'email address' अस्ति तर्हि तदत्र टङ्कयन्तु।
04:21 नो चेत् परित्यजन्तु।
04:23 अधुना अवशिष्टविवरणानि पूरयामः।
04:26 “Prove you're not a robot” इति अग्रिमविकल्पे दृढीकरणस्तरद्वयं वर्तते।
04:32 * 'Phone verification'
04:34 * 'Puzzle verification' इति।
04:36 एतयोर्मध्ये, अन्यतरं विकल्पं चित्वा वयम् अग्रे सर्तुं शक्नुमः।
04:40 अहं 'puzzle verification' इतीदं चिनोमि।
04:43 चित्रे दर्शितं लेखं सङ्ख्यां वा, 'Type the text' इत्यस्यां पेटिकायां टङ्कयन्तु।
04:49 ‘Location’ इति पतत्सूच्याम् उत्सर्गतया (Default) भवतां देशः दर्शितः भवति।
04:55 अहं 'India' मध्ये वसामि। अतः 'India' इति मम 'Location' पतत्सूच्यां दर्शितं वर्तते।
05:02 अन्ते , 'I agree to the Google Terms of service and Privacy Policy' इति चयनपेटिकां चेतुं तस्योपरि नुदन्तु।
05:10 यदा पत्रस्थानि सर्वविधविवरणानि पूरयामः तदा वयं 'Next Step' इति पिञ्जस्योपरि नुदामः।
05:17 अधुना वयम् एवं न कुर्मः।
05:20 “Phone Verification” इति विकल्पं यदि वयं चिनुमः तर्हि किं करणीयं भवति इति पश्यामः।
05:25 “Skip this verification (Phone Verification may be required)” इति चयनपेटिकां नुदन्तु।
05:32 ‘Location’ इतीदं 'India (भारत)' इति चिन्वन्तु।
05:35 अनन्तरम्, 'I agree to the Google Terms and Privacy Policy' इति चयनपेटिकां नुदन्तु।
05:41 अन्ते च, 'Next Step' इत्यस्योपरि नुदन्तु।
05:45 'Phone verification' इति पृष्टं पश्यामः।
05:50 पतत्सूचीतः देशस्य ध्वजं चिन्वन्तु। अहं 'India' इतीदं चिन्वन् अस्मि।
05:55 प्रदत्तलेखपेटिकायां भवतां दूरवाणीसङ्ख्यां टङ्कयन्तु।
06:00 'Text message (SMS)' इति विकल्पं चिन्वन्तु। प्रायः एतत् उत्सर्गतया चितं भवति।
06:07 अनन्तरम्, 'Continue' इति पिञ्जस्योपरि नुदन्तु।
06:10 भवतां दूरवाण्यां किञ्चन 'SMS' प्राप्यते।
06:13 एतेन भवन्तः दृढीकरणस्य अग्रिमस्तरं गन्तुं शक्नुवन्ति।
06:17 भवन्तः गूगल द्वारा 'SMS' इत्यस्मात् प्राप्तं वेरिफिकेशन कोड इतीदं अत्रस्थलेखपेटिकायां टङ्कयन्तु।
06:24 'Continue' इत्यस्योपरि नुदन्तु।
06:27 वयमधुना 'Create your public Google+ profile' इत्य्समिन् पृष्टे स्मः।
06:32 अत्र भवन्तः भवतां नाम दृष्टुं शक्नुवन्ति।
06:35 तस्याधः, अत्र, “Add a photo” इति कश्चन विकल्पः अस्ति।
06:39 भवन्तः भवतां गूगल प्रोफैल कृते किञ्चन भावचित्रं योजयितुम् अस्योपरि नोत्तुं शक्नुवन्ति।
06:44 अत्र “Create your profile” इत्याख्यः कश्चन पिञ्जः अपि वर्तते।
06:48 अधुना अहं एतान् स्तरान् परित्यज्य अग्रे सरामि।
06:51 तत्स्थाने, मदीये ईमैल अकौंट मध्ये अग्रे सर्तुं 'No Thanks' इत्यस्योपरि नुदामि।
06:58 अधुना वयं 'welcome पृष्टे स्मः।
07:02 मह्यमिदं, “ Welcome, Rebecca” इति वदत् अस्ति।
07:06 मम नूतनं ईमैल अड्रेस, ‘ray.becky.0808@gmail.com’ इतीदमपि दृश्यते।
07:16 अधुना, 'Continue to Gmail ' इति पिञ्जस्योपरि नुदन्तु।
07:22 एतेन, भवताम् ईमैल अकौंट इतीदं प्रारभ्यते।
07:24 भवताम् अन्तर्जालीयवेगानुसारं कश्चन समयः स्वीक्रियते।
07:28 यदि भवताम् अन्तर्जालः शनैः चलति तर्हि भवन्तः 'Load basic HTML' इत्यस्योपरि नोत्तुं शक्नुवन्ति।
07:33 दक्षिणपार्श्वे अधः एतत् उपलभ्यते।
07:37 एतेन, विना ग्राफिकल-दृश्यं 'gmail' उद्घटति।
07:41 पटलस्योपरि कतिचन सूचनापेटिकाः उद्भूयन्ते।
07:46 ताः पठन्तु अथवा 'Next' इति पिञ्जस्योपरि नुत्त्वा इतोऽप्यधिकं ज्ञास्यन्तु। अनन्तरं क्लोस कुर्वन्तु।
07:53 एतत् भवतां 'gmail' अकौंट इत्यस्य औत्सर्गिकदृश्यं वर्तते।
07:58 मध्यस्थे प्रदर्शनस्थाने वयम् अस्मदीयान् सर्वान् मैल-सन्देशान् दृष्टुं शक्नुमः।
08:04 अत्र ट्याब-त्रयम् अस्ति इति पश्यन्तु। तेषां विषये अग्रिमेषु पाठेषु वयं सविवरं ज्ञास्यामः।
08:12 वामभागे, वयं कतिचन सूचीः पश्यामः।
08:16 'Inbox, Starred, Sent Mail, Drafts' अपि च 'More' । एताः, 'Gmail' इत्यस्य कतिचन मुख्याः मैल-पेटिकाः सन्ति।
08:29 उत्सर्गतया, 'Inbox' इति चितं वर्तते अपि च तस्मिन् विद्यमानाः सन्देशाः प्रदर्शनस्थाने दृश्यन्ते।
08:36 'Inbox', इत्यत्र फक्किकायां '3 ' इति दृश्यमानम् अवलोकयन्तु।
08:41 भवद्भिः प्राप्तानां नूतनसन्देशानां सङ्ख्या एतेन सूचिता भवति।
08:46 यदा अस्माभिः नूतनं गूगल अकौंट अरच्यते तदा 'Gmail Team' तः कतिचन सन्देशान् प्राप्नुमः।
08:52 'Gmail' इत्यस्य वैशिष्ट्यानाम् उपयोगविषये ज्ञातुं ते सन्देशाः पठितुं शक्यन्ते।
08:58 अधुना, किञ्चन ईमैल कथं लेखनीयमिति ज्ञास्यामः।
09:02 वामभागस्थं 'COMPOSE' इति पिञ्जं नुदन्तु।
09:06 'New Message' इति कश्चन गवाक्षः उद्घट्यते।
09:10 अस्मिन् भागचतुष्टयं वर्तते।
09:13 'To' – अत्र, वयं यस्मै सन्देशं प्रेषयितुमिच्छामः तस्य एमैल-सङ्केतं लिखामः।
09:21 अत्राहं सद्यः एव निर्मितं ईमैल-सङ्केतं अर्थात्, “ray.becky.0808@gmail.com” इतीदं टङ्कयामि।
09:35 अर्थात्, अहं मह्यमेव सन्देशं प्रेशयन् अस्मि इति।
09:39 अग्रिमः भागः 'Subject' इति अस्ति।
09:42 अत्र, वयम् अस्माकं सन्देशस्य सङ्क्षेपं लेखितुं शक्नुमः।
09:46 उदाहरणार्थं - “Welcome mail”.
09:50 अग्रिमं स्थानं विषयलेखनाय अस्ति।
09:53 तत्र वयम् अस्माभिः यः सन्देशः प्रेषणीयः तं लिखामः।
09:57 वयं, “Greetings to all from the Spoken Tutorial Project” इति टङ्कयामः।
10:03 अन्ते च, 'Send' इति नीलपिञ्जः वर्तते।
10:08 सन्देशं प्रेषयितुं तस्योपरि नुदन्तु।
10:11 'Inbox' मध्ये विद्यमानसङ्ख्या अधुना 4 इति परिवर्तितमस्ति इति पश्यन्तु।
10:16 कञ्चन निर्दिष्टं सन्देशं पठितुं तस्योपरि मात्रं नुदन्तु।
10:20 मया प्रेषितः सन्देशः अत्र अस्ति।
10:23 वयम् एकवारं तत्पश्यामः।
10:26 'Show details' इत्यस्य उपरि नुदन्तु।
10:29 अत्र, ईमैल-प्रेषितानां प्राप्तानां च ईमैल-सङ्केताः भवन्ति।
10:34 अत्र, ईमैल इत्यस्य प्रेषणदिनाङ्कसमयौ भवतः।
10:39 अत्र, ई मैल् इत्यस्य विषयपङ्क्तिः अस्ति।
10:43 अत्र च विवरणं भवति।
10:47 अधुना, 'Inbox' मध्ये अपठितसन्देशानां (unread email) सङ्ख्या 3 इति अस्ति।
10:54 अधुना, वयम् 'Gmail' तः बहिरागमनं (Sign out) कथमिति ज्ञास्यामः
10:58 उपरि दक्षिणभागे, भवन्तः भवतां 'email-id' इतीदं दृष्टुं शक्नुवन्ति।
11:03 अकौंट इत्यस्य आरचनाकाले यदि भवन्तः किञ्चन चित्रम् आयोजितवन्तः तर्हि अधुना तत्स्थाने तच्चित्रम् दृष्टुं शक्नुवन्ति ।
11:08 तस्योपरि नुदन्तु।
11:10 एषः 'Sign Out' पिञ्जः अस्ति। बहिरागन्तुम् अस्योपरि नुदन्तु।
11:17 अधुना भवन्तः ‘Gmail’ तः यशस्विरूपेण बहिरागतवन्तः।
11:21 एतेन वयम् अस्य पाठस्य अन्तमागतवन्तः स्मः।
11:25 सङ्क्षेपेण, वयम् -
11:28 * नूतनं गूगल अकौंट इत्यस्य आरचनम्,
11:31 * गूगल अकौंट इतीदमुपयुज्य जीमैल मध्ये प्रवेशः,
11:34 * किञ्चन सन्देशस्य लेखनम्,
11:36 * सन्देशस्य प्रेषणम्,
11:37 * सन्देशस्य दर्शनम् अपि च
11:39 * जीमैल-तः बहिरागमनम्, इत्यादिविषयान् ज्ञातवन्तः स्मः।
11:41 अधो निर्दिष्टे लिंक मध्ये उपलभ्यमानं वीडियो पश्यन्तु। इदं स्पोकन ट्युटोरियल प्रकल्पस्य सारांशं दर्शयति ।
11:45 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
11:49 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।

ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति। अधिकविवरणार्थम् अधो विद्यमानं अणुसङ्केतं सम्पृच्यताम्। contact @spoken-tutorial.org

11:58 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।

इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।

12:05 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु -

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

12:10 पाठस्यास्य लेखकः प्रवीणः,
12:12 अनुवादकः प्रवाचकश्च नवीनभट्टः उप्पिनपत्तनम् । धन्यवादः।

Contributors and Content Editors

NaveenBhat, PoojaMoolya