Introduction-to-Computers/C2/Introduction-to-Gmail/Sanskrit
From Script | Spoken-Tutorial
Revision as of 12:51, 29 October 2017 by NaveenBhat (Talk | contribs)
|
|
00:01 | Introduction to Gmail इति पाठार्थं भवद्भ्यः स्वागतम्। |
00:06 | पाठेऽस्मिन् वयम् - |
00:09 | * किञ्चन नूतनं 'google' अकौंट कथमारचनीयम्, |
00:12 | * गूगल अकौंट इतीदमुपयुज्य 'gmail' मध्ये कथं सम्प्रवेष्टव्यम् (Login), |
00:16 | * 'email' कथं लेखनीयम्, |
00:18 | * ई-मैल कथं प्रेषणीयम्, |
00:20 | * ई-मैल कथं दृष्टव्यम् अपि च, |
00:22 | * जी-मैल् तः कथं निष्क्रमणीयम् (Log out) इत्यादिविषयान् ज्ञास्यामः। |
00:24 | वयं 'Inbox' इत्येतादृशान् विषयान् अपि ज्ञास्यामः। |
00:30 | पाठेऽस्मिन् भागं गृहीतुं, अन्तर्जालसम्पर्कः जालान्वेषकः (Web browser) च भवेताम् । |
00:37 | अहमत्र भवद्भ्यः दर्शयितुं ‘Firefox’ इति जालान्वेषकस्य उपयोगं कुर्वन् अस्मि। |
00:42 | अद्यत्वे, गूगल्, अधोनिर्दिष्टानां सर्वविधानां गूगल्-उत्पन्नानां कृते एकमेव अकौंट प्रयच्छति - |
00:48 | * Gmail |
00:49 | * YouTube |
00:50 | * Google Play |
00:51 | * Google Docs or Drive |
00:53 | * Google Calendar.... एवमादयः। |
00:57 | अतः, वयम् एकेनैव सम्प्रवेषेण उपर्युक्तानां कस्यचिदपि उत्पादनानाम् उपयोगं कर्तुं शक्नुमः। |
01:02 | किञ्चन नूतनं गूगल-अकौंट उत्पादनेन वयं पाठमिमम् आरभामहे। |
01:06 | भवतां जालान्वेषकम् उद्घाट्य तत्र एवं टङ्कयन्तु -
http colon slash slash gmail dot com (http://gmail.com). |
01:16 | अधुना किञ्चन पृष्टम् उद्घाटितं भवति। |
01:22 | वयमत्र, उपरि दक्षिणकोणे, 'Create an account ' अपि च 'Sign in' इति विकल्पद्वयं पश्यामः। |
01:25 | पृष्टमिदम् भवतां यन्त्रे ऐदम्प्राथम्येन यदि उद्घाटितं वर्तते तर्हि तद् एवं दृश्यते। |
01:31 | यदि इदं पृष्टं पूर्वमपि उद्घाटितं, तर्हि तत् पृष्टम् एवं दृश्यते। |
01:39 | एवं, भवन्तः भवतां ‘email इत्यस्य उपयोक्तृनाम कूटशब्दं च टङ्कयितुं केचित् पेटिके, अपि च |
01:46 | 'Sign In' इति किञ्चन बृहन्पिञ्जं च पश्यन्ति। |
01:50 | अस्याधः 'Create an account' इति कश्चन संयोगः (Link) दृश्यते। |
01:55 | 'Create an account' इत्यस्योपरि नुदामः। |
01:59 | अधुना वयं, 'Google Account' इयस्य संरचनायाः पृष्टे स्मः। |
02:03 | वयं दक्षिणपार्श्वे किञ्चन विवरणपत्रं दृष्टु शक्नुमः यत्र वयम् अस्माकं व्यक्तिगतं विवरणं पूरयितुं शक्नुमः। |
02:11 | वयम्, अस्माकं प्रथमम् अन्तिमं च नाम तत्त्तत्पेटिकायां पूरयामः। |
02:17 | अहं, मम नाम 'Rebecca Raymond' इति पूरयामि। |
02:23 | अनन्तरम्, वयम् अस्माकं 'username' (उपयोक्तृनम) चेत्तव्यम्। |
02:27 | उपयोक्तृनाम इत्यतेत् अपूर्वं (unique) भवेत् अपि च अक्षरैः अक्षरसङ्ख्यासंयोजनाभिः वा आरचितं भवेत्। |
02:37 | वयम् उपयोक्तृनाम "becky0808" इति दद्मः। |
02:43 | यदि, भवद्भिः दत्तम् उपयोकृनाम एतावता एव अन्यैः दत्तं वर्तते तर्हि अधः विद्यमानवत् सन्देशः दृश्यते - |
02:49 | “Someone already has that user name, Try another”. |
02:54 | अस्मद्दत्तविवरणानुगुणं 'Google' कतिचन उपयोक्तृनाम सूचयति। |
03:01 | वयम् अस्मदभीष्टं यत्किमपि उपयोक्तृनाम दातुं शक्नुमः, तस्य उपलब्धताम् अपि परिशीलयितुं शुक्नुमः। |
03:07 | अधुना, अहं 'username' इत्यत्र 'ray.becky.0808' इति टङ्कयामि। |
03:18 | इदम् उपयोक्तृनाम उपलभ्यते इति सूचितमस्ति। |
03:24 | अधुना वयम् अस्मै अकौंट कृते किञ्चन कूटशब्दम् (Password) आरचयाम। |
03:30 | वामभागस्था सूचनापेटिका, कूटशब्दः कियान् दीर्घः भवेत् इति सूचयति। |
03:36 | भवदभीष्टम् उचितं च कञ्चन कूटशब्दं टङ्कयन्तु। |
03:41 | अनन्तरम्, दृढीकरणाय तं कूटशब्दं पुनः टङ्कयन्तु। |
03:44 | एतदुत्तरं, 'Birthday' इति विकल्पः आयाति। |
03:48 | मासं पतत्सूचीतः (Drop Down) चिन्वन्तु। |
03:51 | अनन्तरम्, दिनाङ्कं वर्षं च तत्तत्लेखनपेटिकायां टङ्कयन्तु। |
03:57 | तदुत्तरम् अत्र लिङ्गसूचनापेटिका अस्ति। तत्र अहम् 'Female' इति चिनोमि। |
04:03 | अग्रिमं स्थानं 'Mobile phone' इति अस्ति। |
04:06 | अधुना अहम् एतत् त्यक्त्वा अग्रे सरामि। |
04:08 | एतदुत्तरम्, अस्माकं 'current email address' पृष्टुं काचित् लेखपेटिका अस्ति। |
04:14 | यदि भवतां समीपे रच्यमानम् अतिरिच्य अन्यत् 'email address' अस्ति तर्हि तदत्र टङ्कयन्तु। |
04:21 | नो चेत् परित्यजन्तु। |
04:23 | अधुना अवशिष्टविवरणानि पूरयामः। |
04:26 | “Prove you're not a robot” इति अग्रिमविकल्पे दृढीकरणस्तरद्वयं वर्तते। |
04:32 | * 'Phone verification' |
04:34 | * 'Puzzle verification' इति। |
04:36 | एतयोर्मध्ये, अन्यतरं विकल्पं चित्वा वयम् अग्रे सर्तुं शक्नुमः। |
04:40 | अहं 'puzzle verification' इतीदं चिनोमि। |
04:43 | चित्रे दर्शितं लेखं सङ्ख्यां वा, 'Type the text' इत्यस्यां पेटिकायां टङ्कयन्तु। |
04:49 | ‘Location’ इति पतत्सूच्याम् उत्सर्गतया (Default) भवतां देशः दर्शितः भवति। |
04:55 | अहं 'India' मध्ये वसामि। अतः 'India' इति मम 'Location' पतत्सूच्यां दर्शितं वर्तते। |
05:02 | अन्ते , 'I agree to the Google Terms of service and Privacy Policy' इति चयनपेटिकां चेतुं तस्योपरि नुदन्तु। |
05:10 | यदा पत्रस्थानि सर्वविधविवरणानि पूरयामः तदा वयं 'Next Step' इति पिञ्जस्योपरि नुदामः। |
05:17 | अधुना वयम् एवं न कुर्मः। |
05:20 | “Phone Verification” इति विकल्पं यदि वयं चिनुमः तर्हि किं करणीयं भवति इति पश्यामः। |
05:25 | “Skip this verification (Phone Verification may be required)” इति चयनपेटिकां नुदन्तु। |
05:32 | ‘Location’ इतीदं 'India (भारत)' इति चिन्वन्तु। |
05:35 | अनन्तरम्, 'I agree to the Google Terms and Privacy Policy' इति चयनपेटिकां नुदन्तु। |
05:41 | अन्ते च, 'Next Step' इत्यस्योपरि नुदन्तु। |
05:45 | 'Phone verification' इति पृष्टं पश्यामः। |
05:50 | पतत्सूचीतः देशस्य ध्वजं चिन्वन्तु। अहं 'India' इतीदं चिन्वन् अस्मि। |
05:55 | प्रदत्तलेखपेटिकायां भवतां दूरवाणीसङ्ख्यां टङ्कयन्तु। |
06:00 | 'Text message (SMS)' इति विकल्पं चिन्वन्तु। प्रायः एतत् उत्सर्गतया चितं भवति। |
06:07 | अनन्तरम्, 'Continue' इति पिञ्जस्योपरि नुदन्तु। |
06:10 | भवतां दूरवाण्यां किञ्चन 'SMS' प्राप्यते। |
06:13 | एतेन भवन्तः दृढीकरणस्य अग्रिमस्तरं गन्तुं शक्नुवन्ति। |
06:17 | भवन्तः गूगल द्वारा 'SMS' इत्यस्मात् प्राप्तं वेरिफिकेशन कोड इतीदं अत्रस्थलेखपेटिकायां टङ्कयन्तु। |
06:24 | 'Continue' इत्यस्योपरि नुदन्तु। |
06:27 | वयमधुना 'Create your public Google+ profile' इत्य्समिन् पृष्टे स्मः। |
06:32 | अत्र भवन्तः भवतां नाम दृष्टुं शक्नुवन्ति। |
06:35 | तस्याधः, अत्र, “Add a photo” इति कश्चन विकल्पः अस्ति। |
06:39 | भवन्तः भवतां गूगल प्रोफैल कृते किञ्चन भावचित्रं योजयितुम् अस्योपरि नोत्तुं शक्नुवन्ति। |
06:44 | अत्र “Create your profile” इत्याख्यः कश्चन पिञ्जः अपि वर्तते। |
06:48 | अधुना अहं एतान् स्तरान् परित्यज्य अग्रे सरामि। |
06:51 | तत्स्थाने, मदीये ईमैल अकौंट मध्ये अग्रे सर्तुं 'No Thanks' इत्यस्योपरि नुदामि। |
06:58 | अधुना वयं 'welcome पृष्टे स्मः। |
07:02 | मह्यमिदं, “ Welcome, Rebecca” इति वदत् अस्ति। |
07:06 | मम नूतनं ईमैल अड्रेस, ‘ray.becky.0808@gmail.com’ इतीदमपि दृश्यते। |
07:16 | अधुना, 'Continue to Gmail ' इति पिञ्जस्योपरि नुदन्तु। |
07:22 | एतेन, भवताम् ईमैल अकौंट इतीदं प्रारभ्यते। |
07:24 | भवताम् अन्तर्जालीयवेगानुसारं कश्चन समयः स्वीक्रियते। |
07:28 | यदि भवताम् अन्तर्जालः शनैः चलति तर्हि भवन्तः 'Load basic HTML' इत्यस्योपरि नोत्तुं शक्नुवन्ति। |
07:33 | दक्षिणपार्श्वे अधः एतत् उपलभ्यते। |
07:37 | एतेन, विना ग्राफिकल-दृश्यं 'gmail' उद्घटति। |
07:41 | पटलस्योपरि कतिचन सूचनापेटिकाः उद्भूयन्ते। |
07:46 | ताः पठन्तु अथवा 'Next' इति पिञ्जस्योपरि नुत्त्वा इतोऽप्यधिकं ज्ञास्यन्तु। अनन्तरं क्लोस कुर्वन्तु। |
07:53 | एतत् भवतां 'gmail' अकौंट इत्यस्य औत्सर्गिकदृश्यं वर्तते। |
07:58 | मध्यस्थे प्रदर्शनस्थाने वयम् अस्मदीयान् सर्वान् मैल-सन्देशान् दृष्टुं शक्नुमः। |
08:04 | अत्र ट्याब-त्रयम् अस्ति इति पश्यन्तु। तेषां विषये अग्रिमेषु पाठेषु वयं सविवरं ज्ञास्यामः। |
08:12 | वामभागे, वयं कतिचन सूचीः पश्यामः। |
08:16 | 'Inbox, Starred, Sent Mail, Drafts' अपि च 'More' । एताः, 'Gmail' इत्यस्य कतिचन मुख्याः मैल-पेटिकाः सन्ति। |
08:29 | उत्सर्गतया, 'Inbox' इति चितं वर्तते अपि च तस्मिन् विद्यमानाः सन्देशाः प्रदर्शनस्थाने दृश्यन्ते। |
08:36 | 'Inbox', इत्यत्र फक्किकायां '3 ' इति दृश्यमानम् अवलोकयन्तु। |
08:41 | भवद्भिः प्राप्तानां नूतनसन्देशानां सङ्ख्या एतेन सूचिता भवति। |
08:46 | यदा अस्माभिः नूतनं गूगल अकौंट अरच्यते तदा 'Gmail Team' तः कतिचन सन्देशान् प्राप्नुमः। |
08:52 | 'Gmail' इत्यस्य वैशिष्ट्यानाम् उपयोगविषये ज्ञातुं ते सन्देशाः पठितुं शक्यन्ते। |
08:58 | अधुना, किञ्चन ईमैल कथं लेखनीयमिति ज्ञास्यामः। |
09:02 | वामभागस्थं 'COMPOSE' इति पिञ्जं नुदन्तु। |
09:06 | 'New Message' इति कश्चन गवाक्षः उद्घट्यते। |
09:10 | अस्मिन् भागचतुष्टयं वर्तते। |
09:13 | 'To' – अत्र, वयं यस्मै सन्देशं प्रेषयितुमिच्छामः तस्य एमैल-सङ्केतं लिखामः। |
09:21 | अत्राहं सद्यः एव निर्मितं ईमैल-सङ्केतं अर्थात्, “ray.becky.0808@gmail.com” इतीदं टङ्कयामि। |
09:35 | अर्थात्, अहं मह्यमेव सन्देशं प्रेशयन् अस्मि इति। |
09:39 | अग्रिमः भागः 'Subject' इति अस्ति। |
09:42 | अत्र, वयम् अस्माकं सन्देशस्य सङ्क्षेपं लेखितुं शक्नुमः। |
09:46 | उदाहरणार्थं - “Welcome mail”. |
09:50 | अग्रिमं स्थानं विषयलेखनाय अस्ति। |
09:53 | तत्र वयम् अस्माभिः यः सन्देशः प्रेषणीयः तं लिखामः। |
09:57 | वयं, “Greetings to all from the Spoken Tutorial Project” इति टङ्कयामः। |
10:03 | अन्ते च, 'Send' इति नीलपिञ्जः वर्तते। |
10:08 | सन्देशं प्रेषयितुं तस्योपरि नुदन्तु। |
10:11 | 'Inbox' मध्ये विद्यमानसङ्ख्या अधुना 4 इति परिवर्तितमस्ति इति पश्यन्तु। |
10:16 | कञ्चन निर्दिष्टं सन्देशं पठितुं तस्योपरि मात्रं नुदन्तु। |
10:20 | मया प्रेषितः सन्देशः अत्र अस्ति। |
10:23 | वयम् एकवारं तत्पश्यामः। |
10:26 | 'Show details' इत्यस्य उपरि नुदन्तु। |
10:29 | अत्र, ईमैल-प्रेषितानां प्राप्तानां च ईमैल-सङ्केताः भवन्ति। |
10:34 | अत्र, ईमैल इत्यस्य प्रेषणदिनाङ्कसमयौ भवतः। |
10:39 | अत्र, ई मैल् इत्यस्य विषयपङ्क्तिः अस्ति। |
10:43 | अत्र च विवरणं भवति। |
10:47 | अधुना, 'Inbox' मध्ये अपठितसन्देशानां (unread email) सङ्ख्या 3 इति अस्ति। |
10:54 | अधुना, वयम् 'Gmail' तः बहिरागमनं (Sign out) कथमिति ज्ञास्यामः |
10:58 | उपरि दक्षिणभागे, भवन्तः भवतां 'email-id' इतीदं दृष्टुं शक्नुवन्ति। |
11:03 | अकौंट इत्यस्य आरचनाकाले यदि भवन्तः किञ्चन चित्रम् आयोजितवन्तः तर्हि अधुना तत्स्थाने तच्चित्रम् दृष्टुं शक्नुवन्ति । |
11:08 | तस्योपरि नुदन्तु। |
11:10 | एषः 'Sign Out' पिञ्जः अस्ति। बहिरागन्तुम् अस्योपरि नुदन्तु। |
11:17 | अधुना भवन्तः ‘Gmail’ तः यशस्विरूपेण बहिरागतवन्तः। |
11:21 | एतेन वयम् अस्य पाठस्य अन्तमागतवन्तः स्मः। |
11:25 | सङ्क्षेपेण, वयम् - |
11:28 | * नूतनं गूगल अकौंट इत्यस्य आरचनम्, |
11:31 | * गूगल अकौंट इतीदमुपयुज्य जीमैल मध्ये प्रवेशः, |
11:34 | * किञ्चन सन्देशस्य लेखनम्, |
11:36 | * सन्देशस्य प्रेषणम्, |
11:37 | * सन्देशस्य दर्शनम् अपि च |
11:39 | * जीमैल-तः बहिरागमनम्, इत्यादिविषयान् ज्ञातवन्तः स्मः। |
11:41 | अधो निर्दिष्टे लिंक मध्ये उपलभ्यमानं वीडियो पश्यन्तु। इदं स्पोकन ट्युटोरियल प्रकल्पस्य सारांशं दर्शयति । |
11:45 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
11:49 | spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति। अधिकविवरणार्थम् अधो विद्यमानं अणुसङ्केतं सम्पृच्यताम्। contact @spoken-tutorial.org |
11:58 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति। |
12:05 | अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु -
spoken hyphen tutorial dot org slash NMEICT hyphen Intro. |
12:10 | पाठस्यास्य लेखकः प्रवीणः, |
12:12 | अनुवादकः प्रवाचकश्च नवीनभट्टः उप्पिनपत्तनम् । धन्यवादः। |