Java/C2/Creating-class/Sanskrit
From Script | Spoken-Tutorial
Revision as of 17:00, 21 February 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:02 | जावा मध्ये Creating Classes इति विषयस्य पाठार्थं स्वागतम् । |
00:05 | पाठेऽस्मिन् वयं , |
00:08 | प्रापञ्चिकस्य class इत्यस्य परिकल्पना, |
00:10 | जावा इत्यस्य class इत्यस्य परिकल्पना, |
00:12 | Java class इत्यस्य रचना, |
00:14 | Java class इत्यस्य सिण्टेक्स् , |
00:16 | अपि च Java class इत्यस्योदाहरणानि च ज्ञास्यामः । |
00:19 | वयमत्र,
Ubuntu version 11.10 OS, Java Development kit 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे । |
00:30 | पाठमिदमनुसर्तुं यूयं एक्लिप्स्-मध्ये जावा इत्यस्य सरलं प्रोग्रां लिखितुं , कंपैल् कर्तुं रन् कर्तुं च जानीयात । |
00:37 | न ज्ञातञ्चेत् तत्सम्बद्धपाठार्थं जालपुटमिदं पश्यन्तु । |
00:46 | अधुना प्रपञ्चे क्लास् इत्युक्ते किमित्यर्थः इति पश्याम । |
00:50 | यानि कानि अस्माभिः दृश्यन्ते तानि सर्वाणि वस्तूनीति कथ्यन्ते । |
00:54 | अपि च सर्वाणि वस्तूनि केचन गणेषु विभज्यन्ते । |
00:59 | एते गणाः एव क्लास् इति कथ्यन्ते । |
01:02 | उदाहरणार्थं मनुष्याः अपि एकं क्लास् इति वक्तुं शक्नुमः । |
01:05 | वयं सर्वेऽपि अस्मिन् क्लास् मध्ये ओब्जेक्ट्स् स्मः । |
01:08 | वयं सर्वे अन्यदन्यत् गुणान् प्राप्तवन्तः । उदाहरणार्थं अक्षिणी, पादौ, हस्तौ इत्यादयः । |
01:13 | एते सर्वे मनुष्य इति नाम्नः क्लास् मध्ये सामान्याः अंशाः । |
01:15 | पश्यन्ति, खादन्ति, गच्छन्ति इत्यादयः मनुष्य इति क्लास् मध्ये समान्याः गुणाः । |
01:22 | अधुना वयं जावा-मध्ये क्लास् नाम किमिति पश्यामः । |
01:26 | क्लास् नाम रचितस्य प्रत्येकस्य ओब्जेक्ट् इत्यस्य ब्ल्युप्रिण्ट् वर्तते । |
01:31 | जावा-क्लास् इत्यस्य स्वरूपम् एवमस्ति । |
01:35 | क्लास्-ओब्जेक्ट् इत्येकस्य गुणाः वेरियेबल्स् वर्तन्ते । |
01:37 | अपि च स्वभावाः मेथड्स् इतीदं निरूपयति । |
01:40 | वयमधुना क्लास् इतीदं डिक्लेर् कर्तुं सिण्टेक्स् पश्याम । |
01:44 | modifier – class –classname इतीमानि टैप् कृत्वा कर्लि-ब्रेकेट्-मध्ये वेरियेबल् ,कन्स्ट्रक्टर् अपि च मेथड्स् इतीमानि डिक्लेर् करणीयानि । |
01:52 | इमान् विषयान् आगामि पाठेषु अधिकं ज्ञास्यामः । |
01:58 | अधुना एक्लिप्स् उपयुज्य सरलं क्लास् एकं रचयाम । |
02:03 | अहं एक्लिप्स् उद्घाटितवानस्मि । |
02:09 | अधुना एकं प्रकल्पं रचयाम । |
02:11 | File इतीदं नुत्वा, New इतीदं प्रति गत्वा Java Project उपरि नुदतु । |
02:20 | 'New Project Wizard' मध्ये , Project name ' मध्ये 'ClassDemo इति टङ्कयतु । C अपि च D केपिटल् स्याताम् । |
02:34 | Finish उपरि नुदतु । |
02:38 | Project ClassDemo इतीदं रचितमिति पश्यन्तः स्मः । |
02:43 | वयमधुना Student इति नाम्नः जावा-क्लास् रचयाम । |
02:47 | ClassDemo उपरि रैट्-क्लिक् करोतु । New प्रति गत्वा Class इत्यस्योपरि नुदतु । |
02:56 | New Java Class wizard मध्ये Name मध्ये Student इति टङ्कयतु । |
03:03 | वयमत्र public इति modifier दृष्टुं शक्नुमः । |
03:07 | “इदं-क्लास् सर्वेषु क्लास् मध्येऽपि दृश्यते” इति अस्यार्थः । |
03:11 | यदि क्लास्, modifier इत्यनेन न युक्तं चेत् , default इतीदम् उपयुज्यते। अर्थात् तत् क्लास् केवलं तस्मिन् पेकेज् मध्ये एव दृश्यते । |
03:18 | पेकेज् विषयं आगामी-पाठेषु ज्ञास्यामः । |
03:23 | अहं public इतीदं स्वीकृतवानस्मि । |
03:26 | method stubs मध्ये public static void main इतीदं स्वीकरोतु । |
03:31 | तदनन्तरं Finish कीलकं नुदतु । |
03:36 | वयं Student इति नाम्नः क्लास् रचितमिति पश्यामः । |
03:40 | अधुना कमेण्ट्स् निष्कासयाम । |
03:51 | Student क्लास् इतीदम्, Name, Roll Number, Marks इत्यादिना युक्तं स्यात् । |
03:57 | अतः class Student अस्यान्तः अहं , Roll Number अपि च Name इति वेरियेबल्-द्वयं डिक्लेर् करोमि । |
04:04 | अतः int roll_number इति टङ्कयित्वा सेमिकोलन् नुदतु । |
04:14 | String name इति टङ्कयित्वा सेमिकोलन् नुदतु । |
04:19 | एवं मया वेरियेबल् द्वयं डिक्लेर् कृतम् । |
04:22 | क्लास् इतीदं मेथड्स् इत्यनेन च युक्तं वर्तते । |
04:25 | अतः StudentDetail इति मेथड् रचयाम । |
04:30 | इदं मेथड् प्रत्येकस्य विद्यार्थिनः विवरणं ददाति । |
04:34 | अतः void studentDetail इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिदधातु । कर्लि ब्रेकेट् उद्घाटयतु । |
04:49 | इदं मेथड् विद्यार्थिनः रोल्-नम्बर् अपि च नाम ददाति । |
04:53 | अतः System डोट् out डोट् println ब्रेकेट् मध्ये डबल् कोट्स् अन्तः The roll number is इति टङ्कयतु । वयं number is इत्यपि टैप् कर्तुं शक्नुमः ।डबल् कोट्स् पिधाय ,प्लस् roll_number इति टङ्कयित्वा सेमिकोलन् नुदतु । |
05:23 | अग्रिमपङ्क्तौ System डाट् out डाट् println, फक्किकायां डबल् कोट् मध्ये The name is प्लस् name इति टङ्कयित्वा सेमिकोलन् नुदतु। |
05:40 | मैन् मेथेड् मध्ये System डाट् out डाट् println फक्किकायां डबल् कोट् मध्ये We have created a class with two variables and 1 method. इति टङ्कयित्वा सेमिकोलन् स्थापयतु । |
06:10 | एवं वयं student इति क्लास् रचितवन्तः । |
06:20 | Control अपि च S कीलके एकधैव नुत्वा सेव् करोतु । |
06:26 | Control अपि च F11 कीलकनोदनेन् व्यवस्थां रन् करोतु । |
06:33 | वयम्, We have created a class with 2 variables and 1 method इति फलितं प्राप्तवन्तः । |
06:38 | मेन् मेथड् मध्ये यथा टैप्-कृतं तथैव फलितं प्राप्तवन्तः । |
06:46 | एवं क्लास् इतीदं यशस्वीरूपॆण वयं रचितवन्तः । |
06:50 | एवं वयं अस्मिन् ट्युटोरियल् मध्ये क्लास् विषयं अपि च जावामध्ये क्लास् रचयितुं ज्ञातवन्तः । |
06:59 | स्वाभ्यासार्थं , emp अण्डर्स्कोर् number अपि च emp अण्दर्स्कोर् name इति वेरितेबल्-द्वयात्मकं Employee इति क्लास् रचयतु । |
07:10 | अपि च कार्यकर्तॄणां विवराणानि दातुं printEmployee इति नाम्नः मेथड् रचयतु । |
07:16 | स्पोकन् ट्युटोरियल् विषयं ज्ञातुम्,, |
07:19 | चलच्चित्रार्थं च [1] इति जालपुटं पश्यन्तु । |
07:22 | एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
07:25 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
07:30 | spoken tutorial project team |
07:32 | पाठमिदमुपयुज्य कार्यशालां चालयति। |
07:35 | ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति । |
07:38 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
07:44 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
07:48 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
07:55 | अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। |
08:04 | वयं पाठस्यान्तं प्राप्तवन्तः । |
08:07 | धन्यवादाः । अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् । |