Introduction-to-Computers/C2/Getting-to-know-computers/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:11, 20 March 2016 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Getting to know computers इति पाठार्थं भवद्भ्यः स्वागतम् (Spoken Tutorial)
00:06 अस्मिन् पाठे वयं,
00:09 सङ्गणकस्य विविधघटकानां विषये ज्ञास्यामः।
00:11 वयं विविधघटकानां परस्परसंयोजनम् अपि ज्ञास्यामः।
00:15 सामान्यतः सङ्गणकेषु विधद्वयमस्ति -
00:18 डेस्क्टाप अथवा पर्सनल कंप्यूटर तथा च ल्यापटाप।
00:23 अद्यत्वे, Tabs इति आख्यातानि Tablet PC अपि प्रसिद्धानि सन्ति।
00:31 सङ्गणकस्य कार्याणि -
00:33 सङ्गणकम् स्वाकारनिरपेक्षतया पञ्च मुख्यकार्याणि करोति -
00:40 * तत् दत्तांशान् (Data) निर्देशान् (Instructions) वा निवेशद्वारा (Input) स्वीकरोति।
00:45 * दत्तांशान् उपयोक्तुः आनुकूल्यानुसारं परिष्करोति।
00:50 * दत्तांशान् सङ्गृह्णाति
00:52 * फलितरूपेण (Output) फलितांशं ददाति।
00:56 * सङ्घणकस्य अन्तस्थानि सर्वाणि कार्याणि नियन्त्रयति।
01:01 सङ्गणकस्य मूलभूतघटकाः अस्मिन् ब्लाक परिलेखे (Diagram) यथा दर्शितं तद्वत् वर्तते।
01:08 'Input unit',
01:09 'Central Processing unit' अपि च
01:11 'Output unit'.
01:14 निवेशघटकः (Input Unit),
01:16 दत्तांशान् संविधीः (program) च सङ्गणके व्यवस्थितरूपेण निवेष्टुं साहाय्यमाचरति।
01:23 कीलफलकम्, मौस, केमेरा, स्कैनर इत्यादीनि कतिचन निवेशसाधनानि सन्ति।
01:31 प्रधानसंसाधनाङ्गं (Central Processing unit),
01:33 अङ्कगणितीयान् अंशान् लाजिकल् क्रियाः च निर्वहति अपि च
01:38 दत्तांशान् निर्देशान् च सङ्गृह्णाति। (store)
01:41 सामान्यतया, प्रधानसंसाधनाङ्गम् (Central Processing Unit) अथवा 'CPU' एवं दृश्यते।
01:48 घटकस्य अग्रतः पृष्टतः च अनेके पोर्ट्स् सन्ति।
01:53 शीघ्रमेव वयं तेषां विषये ज्ञास्यामः।
01:57 एतानि दत्तांशान् निर्देशान् च स्वीकृत्य तानि परिष्कृत्य फलितं च ददाति।
02:05 एतानि कार्याचरणानि (operations) एव संसाधनमिति (Processing) कथ्यते।
02:11 अनन्तरं फलितं, दत्तांशैः निर्देशैः च सह सङ्गृहघटके (Storage Unit) सङ्गृहीतं भवति।
02:18 फलितघतकः (Output Unit) दत्तांशतः फलितानि उत्पादयति।
02:26 मानिटर अपि च प्रिंटर इत्येतानि कतिचन फलितसाधनानि सन्ति।
02:33 सामान्यतया डेस्क्टाप सङ्गणके चत्वारः मुख्यघटकाः भवन्ति। ते-
02:38 * 'Monitor' (मानिटर)
02:39 * 'CPU' (सि-पि-यु)
02:40 * 'Keyboard' (की बोर्ड) अपि च
02:41 * 'Mouse' (मौस).
02:43 'केमेरा, प्रिंटर, अथवा स्कैनर एतानि अपि सङ्गणकाय संयोक्तुं शक्यानि।
02:50 एतत् मानिटर अथवा सङ्गणकपटलं वर्तते।
02:55 एतत् दूरदर्शकपटलमिव दृश्यते।
02:57 एतत् सङ्गणकस्य विश्युवल डिस्प्ले यूनिट अस्ति।
03:02 एतत् सङ्गणकस्य यूसर इंटर्फेस दर्शयति।
03:05 वयं कीलफलकम् अपि च मौस इत्येतौ उपयुज्य विविधानि प्रोग्राम्स उद्घाटयितुं शक्नुमः अपि च सङगणकेन सह परस्परव्यवहारमपि कर्तुं शक्नुमः।
03:13 लेखाः अक्षराणि इत्येतादृशान् अन्यान् अपि आदेशान् सङ्गणके निवेष्टुं कीलफलकस्य आरचना कृता वर्तते।
03:21 एतत् सङ्गणकस्य मौस वर्तते।
03:24 सामान्यतया अस्मिन् नोत्तुं योग्ये द्वे कीले, तयोर्मध्ये किञ्चन स्क्रोल पिञ्जः अपि वर्तते।
03:31 मौस इत्यस्य वामकीलस्य नोदनेन अधिकतया सर्वाः अपि क्रियाः क्रियान्विताः भवन्ति।
03:35 तस्य दक्षिणकीलनोदनेन शार्टकट इत्येतादृशाः सामान्याः क्रियाः सक्रियाः भवन्ति।
03:43 स्क्रोल पिञ्जस्य सारणेन (scroll) उपरि अधः सारयितुं मौस चक्रस्य उपयोगः भवति।
03:49 कीलफलकमतिरिच्य सङ्गणकेन सह व्यवहर्तुं मौस इत्येतत् किञ्चन अपरं साधनं वर्तते।
03:57 अधुना, 'CPU' इत्यस्य विविधभागान् पश्यामः।
04:02 अत्र, 'CPU' इत्यस्य अग्रतः, किञ्चन मुख्यपिञ्जः वर्तते। सः 'POWER ON' पिञ्जः वर्तते।
04:08 सङ्गणकं चालयितुम् अस्य पिञ्जस्य नोदनम् अत्यावश्यकं वर्तते।
04:14 अत्र किञ्चन 'reset' इति पिञ्जः अपि अस्ति। आवश्यकतायां सत्यां सङ्गनकस्य पुनश्चालनाय पिञ्जोऽयं सहकरोति।
04:21 एवमेव, अग्रतः, द्वयम् अथवा अतोऽप्यधिकं 'USB पोर्ट दृष्टुं शक्नुमः। एतेन समं किञ्चन 'DVD/CD-ROM रीडर रैटर अपि दृष्टुं शक्नुमः ।
04:30 स्मृतिशलाकाः (Pen Drive) सङ्गणकाय योजयितुं 'USB पोर्ट उपयुज्यते।
04:35 अपि च 'CD' अथवा 'DVD' इत्यस्य पठनार्थं अथवा तस्मिन् मुद्रापयितुं 'DVD/CD-ROM रीडर रैटर इत्यस्य उपयोगः भवति।
04:43 अधुना वयं सङ्गणकस्य पृष्टतः पश्यामः।
04:48 'CPU' इत्येतत् सङ्गणकस्य इतरसाधनैः सह योजयितुं पृष्टतः विद्यमानानि पोर्ट्स उपयुज्यन्ते।
04:55 केबल इत्यस्य साहाय्येन कार्यमिदं भवति।
04:58 'CPU' इत्यस्य अन्तः अनेके घटकाः सन्ति।.
05:02 सङ्गणकं यदा सक्रियमस्ति तदा एते सर्वे अपि घटकाः कार्यं कुर्वन्ति अपि च उष्णमुत्पादयन्ति।
05:08 पृष्टतः विद्यमानानि व्यजनानि घटकान् शीतलीकर्तुं वायुसञ्चारं कल्पयति।
05:14 नो चेत्, अत्युष्णेन 'CPU' इत्येतत् नष्टं भविष्यति । एतेन दत्तांशानाम् अपि नाशः भविष्यति ।
05:21 एतत् केस कूलिंग फ्यान अस्ति।
05:23 एतत् 'CPU' इत्यस्य तापमानं सामान्यस्थितौ स्थापयति एतेन अत्युष्णता निवारिता भवति।
05:30 'PSU' इति कथ्यमानं पवर सप्लै यूनिट, सङ्गणकाय विद्युच्छक्तिं प्रवाहयति।
05:37 अधुना, 'CPU' इत्यनेन सह कथं विविधघटकाः योक्तव्याः इति ज्ञास्यामः।
05:42 अत्र यथा दर्शितं, सर्वान् अपि घटकान् उत्पीठिकायाः उपरि स्थापयामः।
05:46 अथ च सर्वाणि अपि केबल्स उत्पीठिकायाः उपरि स्थापयामः।
05:51 प्रथमतया, वयं मानिटर इत्येतत् 'CPU' इत्येतेन समं योजयामः।
05:55 यथा अत्र दर्शितं, पवर केबल इत्येतत् मानिटर इत्येतेन समं योजयन्तु।
06:00 अधुना, अपरध्रुवं पवर सप्लै साकेट इत्यनेन समं योजयन्तु।
06:04 एतत् CPU इत्यस्य पवर केबल वर्तते।
06:08 अत्र यथा दर्शितं, एतत् CPU इत्यनेन समं योजयन्तु।
06:11 अनन्तरम्, एतत् पवर सप्लै साकेट इत्यनेन समं योजयन्तु।
06:14 अनन्तरं यथा अत्र दर्शितं, कीलफलकस्त्य केबल इत्येतत् 'CPU' कृते योजयन्तु।
06:19 कीलफलकाय यत् पोर्ट अस्ति तत् सामान्यतया (purple) वर्णेन भवति।
06:23 मौस इत्येतत् हरितवर्णस्य पोर्ट इत्यनेन योक्तुं शक्नुमः।
06:28 पर्यायरूपेण, 'USB कीलफलकस्य मौस इत्यस्य च योजनं कस्मिन् अपि 'USB पोर्ट मध्ये कर्तुं शक्नोति।
06:35 अवशिष्टानि 'USB पोर्ट इत्येतानि स्मृतिशलाकां हार्ड डिस्क इत्यादीनां योजनाय उपयोक्तंम शक्नुमः।
06:42 एतत् ‘LAN केबल अस्ति।
06:44 अपि च एतत् LAN पोर्ट अस्ति।
06:46 एतत्, सङ्गणकं केनचन जालाकृतिना संयोक्तुं विद्यमानः तन्त्रिसम्पर्कः वर्तते।
06:52 ‘LAN केबल इत्यस्य अपरध्रुवं मोडेम अथवा ‘wi-fi रौटर इत्यनेन समं योजितं वर्तते।
06:58 भवन्तः ‘wi-fi सम्पर्काणां संरचनाविषये पाठान्तरे ज्ञास्यन्ति।
07:03 ‘LAN पोर्ट यदा सक्रियं भवति तदा तत्रत्यं ‘LED दीपः ज्वलति।
07:10 ‘CPU’ इत्यत्र अन्यानि सीरियल पोर्ट भवन्तः दृष्टुं शक्नुवन्ति।
07:15 ‘PDA इत्येतानि मोडेम अथवा अन्यानि सीरियल उपकरनानि संयोक्तुम् उपयुज्यन्ते।
07:21 ‘CPU’ इत्यत्र कतिचन प्यारलल पोर्ट अपि द्रूष्टुं शक्नुमः।
07:25 प्रिण्टर, स्कैनर इत्यादीनि साधनानि अत्र युज्यन्ते।
07:31 अधुना, आडियो जाक इत्येतत् पश्यामः।
07:34 मैक्रो फोन इत्यस्य संयोजनाय pink वर्णस्य पोर्ट उपयुज्यते।
07:38 लैन-इन इत्यस्य अर्थात्, रेडियो अथवा टेप प्लेयर इत्यस्य संयोजनाय नेलवर्णस्य पोर्ट उपयुज्यते।
07:45 हेड फोन / स्पीकर अथवा लैन-औट इत्येतेषां संयोजनाय हरितवर्णस्य पोर्ट उपयुज्यते।
07:51 अधुना वयं अस्माकं सर्वान् अपि घटकान् योजितवन्तः स्मः इत्यतः सङ्गणकं चालयामः।
07:57 प्रथमतया मानिटर अपि च ‘CPU’ इत्यस्य पवर सप्लै पिञ्जौ नुदन्तु।
08:03 अधुना, मानिटर इत्यस्य उपरि विद्यमानं ‘POWER ON’ पिञ्जं नुदन्तु।
08:07 अनन्तरं, ‘CPU’ इत्यस्य अग्रतः विद्यमानं ‘POWER ON’ पिञ्जं नुदन्तु।
08:12 सामान्यतया, सङ्गणकं यदा प्रथमवारं ON भवति तदा कृष्णपटलस्य उपरि पदानां किञ्चन स्ट्रिंग पश्यन्ति।
08:18 एतत् किञ्चन BIOS व्यवस्था अस्ति या च,
08:22 सङ्गणकस्य मुख्यसंसाधनाङ्गस्य (CPU) विषये सूचनाः,
08:25 सङ्गणके कियती स्मृतिः अस्ति इत्यस्य सूचना,
08:28 अपि च हार्ड डिस्क ड्रैव इत्येतेषां फ्लापि डिस्क ड्रैव इत्येतेषां च विषये सूचनाः ददाति।
08:33 'BIOS' इत्येतत्, सङ्गणकं यदा सक्रियं भवति तदा, ‘CPU’ इत्यस्मै तस्य प्राथमिकनिर्देशान् दातुं विद्यमानः तन्त्रांशः वर्तते।
08:41 आपरेटिंग सिस्टम इत्येत् सम्भरणस्य प्रक्रियां सङ्गणकस्य बूटिंग् इति कथयन्ति।
08:48 आवश्यकाः सर्वाः अपि परीक्षाः यदा समाप्यते तदा आपरेटिंग सिस्टम इत्यस्य इंटर्फेस भवन्तः पश्यन्ति।
08:54 यदि भवन्तः उबंटु लैनक्स इत्यस्य उपयोगं कुर्वन्तः सन्ति तर्हि पटलमिदं पश्यन्ति।
08:58 यदि भवन्तः विंडोस इत्यस्य उपयोगं कुर्वन्तः सन्ति तर्हि इदं पटलं पश्यन्ति।
09:02 अधुना, वयं ल्याप्टाप पश्यामः।
09:06 एतानि, सुवाह्याः (Portable) सान्द्राः (Compact) च भवन्ति।
09:09 एतत् लघु भवति अपि च उपयोक्तुः जाह्नुनः उपरि स्थापयितुं शक्यते।
09:16 अतः एतत् ल्याप्टाप् इति कथ्यते।
09:18 एतस्मिन्नपि प्रायशः डेस्क्टाप सङ्गणके विद्यमानाः घटकाः एव वर्तन्ते।
09:23 एकं डिस्प्लै,
09:24 एकं कीलफलकम्,
09:25 इदं सूचितुं (pointing) अपि च नेविगेट् कर्तुं उपयुज्यमानं “टच्-पेड्” वर्तते ।
09:29 ‘CD/DVD रीडर-रैटर’ अपि च
09:32 मैक तथा स्पीकर एतानि एकस्मिन्नेव घटके स्थापितं वर्तते।
09:36 अत्रापि लान पोर्ट अपि च ‘USB पोर्ट सन्ति।
09:40 अत्र किञ्चन विडेयो पोर्ट अस्ति । एतेन प्रोजेक्टर इत्यस्य संयोजनं ल्याप्टप् इत्यनेन समं कर्तुं शक्यते।
09:46 आडियो जाक इत्येतानि मैक तथा हेडफोन इत्यस्य चित्रकेन सुलभतया ज्ञातुं शक्यन्ते।
09:53 एतत्, ल्यापटाप इत्यस्मिन् विद्यमानं अन्तस्थं व्यजनं वर्तते।
09:57 यन्त्रस्य उष्णतां एतत् निवारयति।
10:01 ‘AC अडाप्टर द्वारा ल्याप्टाप कृते विद्युच्छक्तेः प्रवाहः भवति अपि च अस्मिन् रीचार्ज कर्तुं योग्यं विद्युत्कोशम् अपि अस्ति।
10:09 अतः एतत् सुवाह्यम् अस्ति अपि च एतत् विद्युन्मूलात् दूरे स्थापयितुं शक्यम्।
10:16 सङ्क्षेपेण – अस्मिन् पाठे वयं,
10:20 डेस्क्टाप् अपि च ल्याप्टाप् इत्येतेषां विविधघटकानां विषये,
10:23 डेस्क्टाप मध्ये विविधघटकानां योजनस्य विषये च ज्ञातवन्तः।
10:28 अधो निर्दिष्टे लिङ्क मध्ये उपलभ्यमानं वीडियो पश्यन्तु।
10:31 इदं स्पोकन ट्युटोरियल प्रकल्पस्य सारांशं वदति।
10:34 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:37 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
10:42 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
10:46 अधिकविवरणार्थम् अधो विद्यमाने अणुसङ्केते सम्पृच्यताम्।

contact @spoken-tutorial.org

10:52 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:56 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
11:01 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु -

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

11:06 अस्मै पाठाय अनिमेशन अपि च 3D मोडेलिंग इतीदं श्रीमती आरती कृतवती अस्ति।
11:11 पाठस्यास्य अनुवादकः ऐ ऐ टी बांबेतः वासुदेवः प्रवाचकस्तु विद्वान् नवीनभट्टः उप्पिनपत्तनम् धन्यवादः।

}

Contributors and Content Editors

NaveenBhat, PoojaMoolya