Java-Business-Application/C2/Creating-a-Java-web-project/Sanskrit
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | Creating a Java web project इत्यस्मिन् प्रशिक्षणे भवतां स्वागतम् । |
| 00:06 | अस्मिन् प्रशिक्षणे वयं ज्ञास्यामः - |
| 00:09 | * Java वेब् प्रोजेक्ट् इत्यस्य निर्माणम्, |
| 00:12 | * Deployment Descriptor (डिप्लाय्मेण्ट् डिस्क्रिप्टर्) विषयं, |
| 00:15 | * web.xml फैल् विषयं च । |
| 00:19 | अत्र अस्माभिः, |
| 00:20 | * Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४) |
| 00:23 | * Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३) |
| 00:26 | * JDK 1.7 (जे.डि.के १.७) |
| 00:28 | *Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानम् अस्ति । |
| 00:32 | भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति । |
| 00:35 | एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय , एतेषां परिचयः भवतां भवेत् - |
| 00:39 | Netbeans IDE उपयुज्य Core Java इत्यस्य, |
| 00:42 | HTML इत्यस्य च । |
| 00:44 | नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु । |
| 00:50 | अधुना वयं NetBeans IDE उपयुज्य, किञ्चन सरलं Java वेब् प्रोजेक्ट् निर्माणं कथम् इति पश्याम । |
| 00:56 | एतदर्थं, वयं NetBeans IDE प्रति गच्छाम । |
| 01:01 | IDE इत्यस्य उपरि, वामकोणे, क्रमेण File इत्यत्र, New Project इत्यत्र च क्लिक् करोतु । |
| 01:08 | किञ्चन New Project विण्डो उद्घाटितं भवति । |
| 01:12 | Categories तः Java Web इत्येतत्, Projects तः Web Application इत्येतत् च चिनोतु । |
| 01:18 | पश्चात् Next इत्यत्र क्लिक् करोतु । |
| 01:20 | पश्चात् उद्घाटितं यत् विण्डो अस्ति, तत्र, |
| 01:23 | Project Name इत्यत्र MyFirstProject इति टङ्कयतु । |
| 01:27 | प्रोजेक्ट् लोकेशन्,( Project location) प्रोजेक्ट् फोल्डर् (Project Folder) च यथावत् रक्षतु । |
| 01:31 | पश्चात् Next इत्यत्र क्लिक् करोतु । |
| 01:35 | Server इत्यत्र GlassFish Server चिनोतु । |
| 01:39 | अवधानं दीयताम् यत् - MyFirstProject इति Context Path अस्ति यच्च Project नाम्ना सदृशम् अस्ति। |
| 01:47 | वयम् एतद्विषये विस्तरेण ज्ञास्यामः । |
| 01:50 | अधुना, Next इत्यत्र Finish इत्यत्र च क्रमेण क्लिक् करोतु । |
| 01:55 | Projects ट्याब् इत्यत्र क्लिक् करोतु । |
| 01:58 | अत्र बहूनि नोड्स् सन्ति, My First Project नामकं वेब् अप्लिकेशन् च निर्मितं वर्तते इति च वयं द्रष्टुं शक्नुमः । |
| 02:08 | अधुना, अस्माभिः एतेषां सर्वेषां नोड्स्- विषये अवधातव्यं नास्ति । |
| 02:11 | किन्तु अस्मिन् किम् अस्ति इति अहं क्लिक्- करणपूर्वकं भवद्भ्यः दर्शयामि । |
| 02:16 | अधुना, वयं डिप्लोय्मेण्ट् डिस्क्रिप्टर् ( Deployment Descriptor) विषये ज्ञास्यामः । |
| 02:21 | वेब् अप्लिकेशन् इत्यस्य डिप्लोय्मेण्ट् डिस्क्रिप्टर् विवृणोति यत् - |
| 02:25 | अप्लिकेशन् (application ) इत्यस्य, क्लासस्, रिसोर्सस्, कान्फिगरेशन् च, |
| 02:31 | वेब् रिक्वेस्ट्स् सर्व् - करणाय, वेब् सर्वर् एतेषाम् उपयोगं कथं करोति इति च । |
| 02:37 | अप्लिकेशन् -निमित्तं, वेब् सर्वर् request प्राप्नोति । |
| 02:42 | एतत् request इत्यस्य URL म्याप् करणाय डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत् उपयुङ्ते । |
| 02:48 | एतत् URL इत्येतम्, यत् कोड् रिक्वेस्ट् निर्वहति, तत्कोड्-पर्यन्तं म्याप् करोति । |
| 02:52 | डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत् web.xml नामकं फैल् अस्ति । |
| 02:57 | अधुना, वयं IDE प्रति पुनः आगच्छाम । |
| 03:00 | अत्र लभ्यमानेषु नोड्सु वयं web.xml नामकं फैल् अन्वेष्टुं न शक्नुमः |
| 03:07 | एतस्य अन्वेषणाय, IDE इत्यस्य उपरि वामभागे, File इत्यत्र क्लिक् करोतु । पश्चात् New File इत्यत्र क्लिक् करोतु च |
| 03:16 | Categories तः वेब्( Web) चिनोतु । |
| 03:19 | File Types, तः Standard Deployment Descriptor (web.xml) चिनोतु च । |
| 03:25 | पश्चात् Next इत्यत्र क्लिक् करोतु । |
| 03:27 | Finish इत्यत्र क्लिक् करोतु च । |
| 03:30 | IDE वामभागे विद्यमानस्य Files ट्याब् इत्यत्र क्लिक् करोतु । |
| 03:34 | 'Web' नोड् इत्यस्य, WEB-INF फोल्डर् अधोभागे दृश्यमानं web.xml परिशीलयतु । |
| 03:42 | अधुना भवन्तः source कोड् दृष्टुं शक्नुवन्ति । |
| 03:46 | अत्र एकं xml हेडर् वर्तते । |
| 03:50 | किञ्चन web-app नोड् अपि वर्तते । |
| 03:53 | अधुना वयम् अप्लिकेशन् रन् करणाय प्रयतामहे । |
| 03:57 | एतदर्थं, MyFirstProject इत्यत्र रैट् क्लिक् करोतु । |
| 04:02 | Clean and Build इत्यत्र क्लिक् करोतु । |
| 04:04 | एतत्, इतःपूर्वं सङ्कलिताः सञ्चिकाः, इतराणि बिल्ड् औट् - पुट्स् च डिलीट् करिष्यति । |
| 04:10 | एतत्, अप्लिकेशन् इत्यस्य पुनः सङ्कलनम् (री-कम्पैल्) अपि करिष्यति । |
| 04:14 | पुनः MyFirstProject इत्यत्र क्लिक् कृत्वा Run इत्यत्र क्लिक् करोतु । |
| 04:20 | एवं, सर्वर्, रन् जायमानम् अस्ति, अपि च अनेन My first Project इत्यस्य सज्जता अपि कृता अस्ति । |
| 04:27 | किञ्चन ब्रौसर् विण्डो उद्घाटितं भवति, Hello World दर्शयति च । |
| 04:32 | यतः यदा अस्माभिः प्रोजेक्ट् रन् क्रियते, तदा वेब् अप्लिकेशन् अत्र दर्शितं पृष्टं निरूपयति । |
| 04:39 | अधुना, अत्र येन पृष्टं (पेज्) प्रस्तुतीकृतं , तत् URL पश्याम । |
| 04:44 | एतत् localhost कोलन् 8080 स्ल्याष् MyFirstProject इति वर्तते । |
| 04:49 | अतः, यदा अस्माभिः MyFirstProject, रन् क्रियते, तदा डीफाल्ट् - रूपेण वयं JSP पेज् प्राप्नुमः- यच्च HelloWorld! इति वदति । |
| 04:57 | अधुना, वयं अस्माकं IDE प्रति पुनः आगच्छाम । |
| 05:00 | वयं दृष्टुं शक्नुमः यत् WEB-INF फोल्डर् अधोभागे index.jsp अस्ति इति । |
| 05:07 | index.jsp इत्यत्र डबल् क्लिक् करोतु । |
| 05:10 | अत्र वयं सोर्स् कोड् दृष्टुं शक्नुमः । |
| 05:12 | एतत् HTML ट्याग्- युक्तं किञ्चन सरलं JSP पेज् वर्तते । |
| 05:17 | अस्य टैटल् "JSP Page" इति अस्ति, हेड्डिङ्ग् च "Hello World" इति च अस्ति । |
| 05:24 | यदा अस्माभिः वेब् अप्लिकेशन् इत्येतत् रन् क्रियते, तदा सर्वर् डीफाल्ट् रूपेण index.jsp ददाति / व्यवस्थापयति
। |
| 05:30 | एतत् स्मरन्तु यत्- इतःपूर्वमेव अस्माभिः ContextPath दृष्टम् आसीत् इति । |
| 05:36 | अस्माभिः MyFirstProject रूपेण ContextPath सेट् कृतम् आसीत् । |
| 05:41 | अधुना, ब्रौसर् प्रति आगम्यताम् । |
| 05:44 | URL निमित्तं localhost colon 8080 (लोकल् होस्ट् कोलन् 8080) इति टङ्कयित्वा Enter नुदतु । |
| 05:50 | वयं पश्यामः यत् Glassfish Server इत्यस्य होम् पेज् दृश्यमानम् अस्ति इति । |
| 05:56 | अत्र, 8080 इत्येतत् डीफाल्ट् पोर्ट् वर्तते, तद्वारा सर्वर्, यन्त्रे रन् करोति । |
| 06:01 | एतस्य Glassfish Server इन्स्टन्स् इत्यस्य उपरि बहूनि अप्लिकेशन्स् “रन्” जायमानानि स्युः । |
| 06:08 | किञ्चन निर्दिष्टं अप्लिकेशन् इत्येतत् एक्सेस् - करणाय, URL इत्यत्र अप्लिकेशन् नाम टङ्कयतु । |
| 06:15 | अतः, अस्माभिः अवश्यं तत् निर्दिष्टम् अप्लिकेशन् ( application ) टङ्कनीयम्, यच्च तस्मिन् इन्स्टन्स्- मध्ये डिप्लोय् जातं वर्तते । |
| 06:21 | तस्मात्, वयं slash MyFirstProject इति टङ्कयामः । |
| 06:26 | Enter नुदामः च । |
| 06:27 | वयं पश्यामः यत् Hello World! प्रदर्शितम् अस्ति । |
| 06:31 | संक्षेपरूपेण, |
| 06:32 | अस्मिन् प्रशिक्षणे वयं ज्ञातवन्तः - |
| 06:35 | * सरलस्य Java वेब् प्रोजेक्ट् इत्यस्य निर्माणम्, |
| 06:38 | * वेब् प्रोजेक्ट् इत्यस्य एक्सिक्यूट् करणम् (निष्पादनम्), |
| 06:41 | * web.xml फैल् विषयं च । |
| 06:44 | स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकज्ञानाय, |
| 06:46 | अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु । |
| 06:50 | अयं, स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति । |
| 06:54 | यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति । |
| 06:58 | स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्): |
| 07:00 | * एतत् उपयुज्य कार्यशालाः चालयति । |
| 07:04 | * आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति । |
| 07:07 | अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु । |
| 07:13 | स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति । |
| 07:17 | एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति । |
| 07:23 | अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - |
| 07:27 | http://spoken-tutorial.org/NMEICT- Intro |
| 07:34 | Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति । |
| 07:44 | एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति । |
| 07:48 | अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च ______।
भागग्रहणाय धन्यवादाः । |