Java/C2/Creating-object/Sanskrit

From Script | Spoken-Tutorial
Revision as of 20:37, 19 February 2015 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 ओब्जेक्ट्-रचना-विषयस्य पाठे युष्माकं स्वागतम् ।
00:05 पाठेऽस्मिन् वयम्,
  • रेफरेन्स् वेरियेबल्
  • ओब्जेक्ट् इत्येतेषां रचना , अपि च
  • ओब्जेक्ट् इत्येतेभ्यः मेमोरि-वितरणम् ,

एतान् विषयान् ज्ञास्यामः ।

00:13 वयम्त्र
  • Ubuntu version 11.10 OS
  • Java Development kit 1.6
  • Eclipse 3.7.0

चोपयुञ्ज्महे ।

00:23 पाठमिदमनुसर्तुं यूयम् , एक्लिप्स् उपयुज्य क्लास्-रचनां जानीयात ।
00:29 न ज्ञातं चेत् अधोनिर्दिष्टं जालपुटं पश्यन्तु ।

spoken-tutorial.org.

00:38 वेरियेबल्, मेथड् च मिलित्वा क्लास् इत्यस्य मेम्बर् सम्भवन्तीति वयं ज्ञातवन्तः ।
00:43 क्लास् अस्य मेम्बर्स् इत्येतानि एक्सेस् कर्तुं अस्माभिः ओब्जेक्ट् रचना करणीया ।
00:48 वयमधुना किन्नाम ओब्जेक्ट् इति पश्याम ।
00:52 ओब्जेक्ट् तु क्लास् इत्यस्य इन्स्टेन्स् वर्तते ।
00:55 प्रत्येकमपि ओब्जेक्ट् स्वस्यैव स्थितिस्वभावाभ्यां युक्तं वर्तते ।
00:58 पूर्वतनपाठोक्तं मनुष्याणां क्लास् इत्युदाहरणं ज्ञापयतु ।
01:04 ओब्जेक्ट्स् स्वस्य स्थितिं फील्ड्स् अथवा वेरियेबल् मध्ये सङ्ग्रहं कुर्वन्ति ।
01:08 ते मेथड्स् द्वारा तेषां स्वभावं दर्शयन्ति ।
01:11 वयमधुना रेफरेन्स् वेरियेबल् विषयं ज्ञास्यामः ।
01:15 जावा-मध्ये वयम् अष्टसङ्ख्याकान् प्रिमिटिव्-डाटाटैप्-विषयान् ज्ञातवन्तः ।
01:19 अन्यान् सर्वान् ओब्जेक्ट् इति कथ्यन्ते ।
01:23 यत् वेरियेबल् ओब्जेक्ट् इतीदं सूचयति तत् रेफरेन्स् वेरियेबल् इति उच्यते ।
01:28 वयमधुना पूर्वतन ट्युटोरियल् मध्ये रचितं Student क्लास् इतीदं प्रति गच्छाम ।
01:37 आदौ क्लास्-इत्यस्मात् main मेथड् इदं निष्कासयाम ।
01:49 सञ्चिकां रक्षितुं Control अपि च S कीलके नुदतु ।
01:55 अधुना तस्मिन्नेव प्रकल्पे TestStudent इति अन्यदेकं क्लास् रचयतु ।
02:00 तदहं पूर्वे एव रचितवानस्मि ।
02:03 अस्मिन् क्लास् मध्येऽहं main मेथड्-इतीदं प्राप्तवानस्मि ।
02:06 अधुना main मेथड्-मध्ये Student क्लास्-इत्यस्य ओब्जेक्ट् एकं रचयाम ।
02:11 तदर्थं main मेथड् मध्ये ,,
02:17 Student स्पेस् stud1 समम् new स्पेस् Student इति टङ्कयित्वा ब्रेकेट् उद्घाट्य-पिधाय सेमिकोलन् नुदतु ।
02:34 एवं वयं Student क्लास्-इत्यस्य ओब्जेक्ट् एकं रचितवन्तः ।
02:37 अत्र Student इतीदं , रचितव्यस्य क्लास् अस्य नाम ।
02:47 stud1 इतीदं Student क्लास्-इत्यस्य ओब्जेक्ट्-इतीदं सूच्यमानः एकं रेफरेन्स्-वेरियेबल् अस्ति ।
02:53 अपि च new इति कीवर्ड् यदस्ति तत् , रचयमाणाय ओब्जेक्ट्-इयस्मै मेमोरि मध्ये स्थलं कल्पयति ।
02:59 स्मर्यतां यत्, stud1 इतीदं Student क्लास्-इत्यस्य ओब्जेक्ट् न इति ।
03:03 एतत्तु रचितस्य नूतनस्य ओब्जेक्ट् इत्यस्य रेफरेन्स्-इतीदं प्राप्तवदस्ति ।
03:09 अधुना stud1 इतीदं किं प्राप्तवदिति पश्याम।
03:13 तदर्थं अग्रिम पङ्क्तौ System डोट् out डोट् println ब्रेकेट्-मध्ये डबल्-कोट्स् अन्तः stud1 contains स्पेस् धनचिह्नं stud1 इति टङ्कयित्वा सेमिकोलन् नुदतु ।
03:44 अधुना सञ्चिकां TestStudent डोट् java इति रक्षित्वा रन् करोतु ।
03:53 एतानि फलितानि प्राप्नुमः ।
03:56 अत्र अतः Student इतीदं नूतन-ओब्जेक्ट्-युक्तस्य क्लास्-इत्यस्य नाम ।
04:03 द्वीतीयं तु , रचितस्य नूतन-ओब्जेक्ट् इत्यस्य मेमोरि-एड्रेस् वर्तते ।
04:08 stud1 इदमुपयुज्य Student क्लास्-इत्यस्य फील्ड्स्-मेथड्स् च एक्सेस् कर्तुं शक्नुमः ।
04:15 अगामी-पाठेषु इदं ज्ञास्यामः ।
04:18 अहमधुना Student क्लास्-इत्यस्य अन्यदेकं ओब्जेक्ट् रचयामि ।
04:24 तदर्थं Student स्पेस् stud2 समं new स्पेस् Student इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिधाय सेमिकोलन् नुदतु ।
04:47 System डोट् out डोट् println ब्रेकेट्-मध्ये डबल्-कोट्स् अन्तः stud2 contains स्पेस् समचिह्नं stud2 इति टङ्कयित्वा सेमिकोलन् नुदतु ।
05:19 रक्षित्वा रन् करोतु ।
05:25 वयमत्र stud1 अपि च stud2 अन्यदन्यत् ओब्जेक्ट्स् रेफर् कुर्वन्तीति दृष्टुं शक्नुमः ।
05:31 अर्थात् stud1 अपि च stud2 इतीमे अन्यान्ये विद्यार्थिनौ रेफर् कुरुतः ।
05:37 ते अन्यदन्यत् roll number अपि च name प्राप्तवती स्तः ।
05:44 अत्र सूक्षं परिवर्तनमेकं कुर्मः ।
05:51 Student stud2 समं stud1 इति टङ्कयतु ।
06:01 सञ्चिकां रक्षित्वा रन् करोतु ।
06:06 अधुना stud1 अपि च stud2 इतीमे एकमेव ओब्जेक्ट् रेफर् कुरुतः इत्यवगम्यते ।
06:12 अर्थात् stud1 अपि च stud2 इति द्वेऽपि एकमेव विद्यार्थिनं रेफर् कुरुतः ,तथा एकमेव roll number अपि च name प्राप्तवती स्तः ।
06:31 एवं पाठेऽस्मिन् वयम्,
06:34 रेफरेन्स् वेरियेबल् विषयम्,
06:35 new ओपरेटर् इत्यस्य उपयोगविधानम् ,
06:38 अपि च रेफरेन्स् इतीमानि असैन् कर्तुं च ज्ञातवन्तः ।
06:41 स्वाभ्यासार्थम्,,,
06:43 TestEmployee इति अन्यदेकं क्लास् रचयतु ।
06:46 TestEmployee क्लास्-इत्यस्मै emp1 इति रेफरेन्स् वेरियेबल्-युक्तं ओब्जेक्ट् एकं रचयतु ।
06:52 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
06:55 कृपया अधो विद्यमानं विडीयो पश्यन्तु।
[1]  
06:58 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
07:01 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
07:05 spoken tutorial team
07:07 पाठमिदमुपयुज्य कार्यशालां चालयति।
07:10 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
07:14 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07:20 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07:24 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
07:31 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
07:40 वयं पाठस्यान्तं प्राप्तवन्तः ।
07:43 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् ।
07:46 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya