LibreOffice-Suite-Calc/C3/Using-Charts-and-Graphs/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:42, 21 January 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Using Charts and graphs in Calc

Time Narration
00:00 लिब्रे आफीस् क्याल्क् मध्ये स्प्रेड् शीट् प्रति चित्रपटानि (Charts) योजनम् (Inserting) अभ्यस्तुं विद्यमानप्रशिक्षणं प्रति स्वागतम्।
00:07 अस्मिन् प्रशिक्षणे वयम्:
00:11 चित्रपटानां रचनं , समीकरणं, संरूपणं (फार्मेटिंग्)
00:14 चित्रपटानाम् आकृतेः समीकरणं चालनं च अभ्यसामः।
00:18 अत्र वयम् ‘उबंटु लिनक्स’ इत्यस्य 10.04 तमम् आवृत्तिं, किञ्च ‘लिब्रे आफिस्’ सूट् अस्य 3.3.4 तमम् आवृत्तिं उपयुञ्जामहे ।
00:27 लिब्रे आफिस् क्याल्क् मध्ये विद्यमानान् विविधविकल्पान् अभ्यसामः ।
00:32 चित्रपटम् इत्येतत् विचारान् अध्येतृभ्यः समर्थरूपेण बोधयितुं विद्यमानं किञ्चन साधनम्।
00:37 लिब्रे आफिस् क्याल्क् , भवतां दत्तांशान् अनुसृत्य विविधानि चित्रपटानि दापयति।
00:43 क्याल्क् उपयुज्य चित्रपटाणां वर्गीकरणमपि कर्तुं शक्यते।
00:48 'personal finance tracker.ods' इति पत्रम् उद्घाटयामः।
00:53 तस्मिन् पत्रे व्यवस्थापितरित्या एव प्रत्येकं विषयं प्रति उपयुक्तानि (spent) मौल्यानि ट्ङ्कयामः।
00:59 “E3” कोशं क्लिक् कृत्वा तत्र “6500” इति संख्यां टङ्कयामः।
01:06 तथैव “E4”,”E5”,”E6” ,“E7” कोशेषु क्रमशः “1000”,”625”,”310” “2700” इति संख्याः ट्ङ्कयामः।
01:26 इदानीं सर्वविषयसम्बध्दान् प्राप्तानि (received) मौल्यानि कोशेषु ट्ङ्कयामः।
01:31 “F3” कोशं क्लिक् कृत्वा तत्र “500” इति संख्यां टङ्कयामः ।
01:37 अनन्तरं “F4”,”F5”,”F6”,“F7” कोशेषु क्रमशः “200”,”75”,”10”, “700” इति संख्याः टङ्कयामः।
01:54 इमं कोष्टकं प्रति चित्रपटं निर्मातुम् अभ्यासं कुर्मः।
01:58 चित्रपटस्य निर्माणात् प्राक् चार्ट् मध्ये योज्यान् दत्तांशान् चिनुमः।
02:04 “SN” कोशं क्लिक् कृत्वा मौस्-कीलकम् अपरित्यज्य कर्सर् इत्येतत् “700” इति मौल्ययुक्त-अन्तिमकोषपर्यन्तं कर्षन्तु।
02:14 इदानीं मेनु बार् मध्ये विद्यमानं “Insert” विकल्पं क्लिक् कृत्वा अनन्तरं “Chart” विकल्पं क्लिक् कुर्मः।
02:21 विषयसहितमेव चित्रपटम् उत्सर्गतः(डीफाल्ट्) एव वर्क् शीट् मध्ये योजितमस्ति।
02:27 तेन सहैव "Chart Wizard" इति संवादपेटिका उद्घाटिता।
02:32 "Chart Wizard" भवातां कृते उत्सर्गतः(डिफाल्ट्) एव चित्रपटस्य चयनं दर्शयति।
02:36 Chart Wizard मध्ये कृतानि परिवर्तनानि भवते दर्शयितुम् उत्सर्गतः एव चित्रपटं नवीकृतं(अप् डेट्) भवति।
02:42 "Chart Wizard" संवादपेटिकायां विभागत्रयम् अस्ति। ते च - चित्रपटाणां निर्माणोपयोगीनि सोपानानि(steps), choice of chart types, प्रत्येकं चित्रपटं प्रति विविधविकल्पाः च।
02:55 “3D Look” विक्लपस्य चयनेन चित्रपटं त्रिषु आयामेषु (dimension) द्रष्टुं शक्यते।
03:03 विक्लपमिमं चित्वा परीक्षन्तु।
03:05 “Choose a chart type” क्षेत्रस्य अन्तः “Bar” विकल्पं क्लिक् कुर्वन्तु।
03:11 इदानीं चित्रपटे विद्यमानदत्तांशानां कोष्टकं “Bar” शैल्यां परिवर्तितम् अस्ति।
03:19 एवमेव “Pie”, <pause> “Area”, <pause> “Bubble” <pause> विकल्पान् क्लिक् कृत्वा द्रष्टुं शक्नुमः।
03:28 किञ्च “Choose a chart type” क्षेत्रस्य अधः विद्यमानान् विकल्पान् उपयुज्य अस्मदभीष्टरीत्या चित्रपटान् प्राप्तुं शक्नुमः।
03:35 “Steps” विक्ल्पस्य अधः, “Data Range” इति विकल्पान्तरं अस्ति।
03:40 एतं विकल्पम् उपयुज्य चित्रपटे प्रदर्शयितुं कृतकरूपेण ‘data range’ परिवर्तितुं शक्यम्।
03:48 “Data series in columns” इतीदं, सूच्यांशान् योजयितुं विद्यमानः औत्सर्गिकः(डीफाल्ट्) विकल्पः।
03:54 “Data series in rows” विकल्पमुपयुज्य वयम् अस्मदभीष्टरीत्या दत्तांशान् उपस्थापयितुं शक्नुमः।
04:02 भवन्तः चित्रपटे “Column” इति शैल्या यदि दत्तांशान् प्रदर्शयितुम् इच्छन्ति चेत् इदं भवताम् उपयोगाय भवति।
04:10 अन्तिमतः , “First row as label” इति विकल्पं
04:24 अथवा “First column as label” इति विकल्पं
04:28 अथवा विकल्पद्वयमपि चित्रपटस्य अक्षे (axes) labels रूपेण उपयोक्तुं शक्यते।
04:34 data series in column इत्येतत् पुनः क्लिक् कुर्वन्तु।
04:38 इदानीम्, अस्माकं चित्रपटे,“Received” इति शीर्षिकायाः अधः विद्यमानान् दत्तांशान् निष्कासयितुं यदि इच्छन्ति तर्हि “Data range” क्षेत्रस्य अन्तः क्लिक् कुर्वन्तु।
04:49 किञ्च “$A$1 is to $F$7” इति गणतः (range) “$A$1 is to $D$7” इति गणं प्रति परिवर्तयामः।
05:03 इदानीं “Received” इति शीर्षिकायाः अधोभागस्थाः दत्तांशाः चित्रपटे न दृश्यन्ते।
05:11 अग्रे, “Data Series” इत्यस्य कार्यं जानीमः।
05:15 अस्माकं स्प्रेड् शीट् मध्ये विद्यमानानां दत्तांशानां प्रातिनिध्यं कुर्वन्त्यः पञ्चपङ्क्तीः पश्यन्तु।
05:21 “Add” ,“Remove” कीलकानि चित्रपटे विद्यमानदत्तांशानां पङ्क्तीः योजयितुं निष्कासयितुं च उपयुक्तानि सन्ति।
05:29 “Up”,“Down” कीलकद्वयम् उपयुज्य दत्तांशानां क्रमं पुनः नवीकर्तुं शक्नुमः।
05:34 चित्रपटे विद्यमानदत्तांशानां प्रातिनिध्यं निर्णीय अनन्तरं “Finish” इति कीलकं नुदन्तु।
05:43 स्प्रेड् शीट् मध्ये चित्रपटं योजितमस्ति।
05:47 स्प्रेड् शीट् मध्ये चित्रपटस्य योजनं ज्ञात्वा
05:51 LibreOffice Calc मध्ये चित्रपटनां संरूपणम् (format) अभ्यसामः।
05:56 “Format” सूच्यां संरूपणं कर्तुं ,
06:00 चित्रपटस्य आकारं परिवर्तितुं च बहवः विकल्पाः सन्ति।
06:04 स्प्रेड् शीट् प्रति योजितं चित्रपटं निष्कासायामः।
06:08 चित्रपटस्य उपरि द्विवारं क्लिक् कुर्वन्तु, चित्रपटं धूमवर्णेन आवृतमस्ति।
06:13 एतेन, चित्रपटं “Edit” प्रति सिध्दमस्ति इति ज्ञायते।
06:18 मुख्यसूच्यां (मेन् मेनु) “Format” विक्लपं क्लिक् कुर्वन्तु।
06:22 ड्राप् डौन् सूच्यां “Format Selection”, “Position and Size”, “Arrangement”, “Chart Wall” , “Chart Area” इत्यादयः विकल्पाः सन्ति।
06:37 एते विकल्पाः चित्रपटान् निर्दिष्टस्थलेषु स्थापयितुं, चित्रपटस्य पृष्ठभूमिं (background) शीर्षिकां च व्यवस्थापयितुं नाशयितुं(डिलीट्) च उपयोक्तुं शक्यते।
06:44 वयमिदानीं क्रमेण प्रारूपण(फार्मेटिंग्)विकल्पस्य विषये जानीमः।
06:49 “Format Selection” इति विकल्पः “Chart Area” इति शीर्षिकासहित-संवादपेटिकया सह उद्घाटितः भवति।
06:56 तत्र “Borders”, “Area” , “Transparency” इति ट्याब् (tabs) त्रयम् अस्ति।
07:03 उत्सर्गतः(डिफाल्ट् तः) “Borders” ट्याब् चितं भवति।
07:07 चित्रपटस्य परिधेः वर्णं शैलीं च परिवर्तयामः।
07:11 तथा कर्तुं , “Style” इति क्षेत्रं क्लिक् कुर्वन्तु। अपि च “Continuous” चिन्वन्तु।
07:16 तथैव “Color” क्षेत्रे “Green” उपरि क्लिक् कुर्वन्तु।
07:21 “OK” कीलकं क्लिक् कुर्वन्तु।
07:26 परिधेः वर्णः शैली च परिवर्तिता अस्ति।
07:31 “Title” विकल्पः चित्रपटस्य शीर्षिकाम् अक्षं (axis) च प्रारूपयति (फार्मेट् करोति)।
07:36 “Axis” विकल्पः चित्रपटस्य रचनार्थम् आवश्यकाः रेखाः(lines),
07:41 X , Y अक्षेषु (axis) दृश्यमानस्य पठ्यस्य वर्णमुखं (font) च प्रारूपयति(फार्मेट् करोति)।
07:46 एतान् सर्वान् विकल्पान् भवन्तः एव अभ्यसन्तु।
07:53 chart area पृष्ठभूमिम् अपि परिवर्तितुं क्याल्क् भवद्भ्यः साहाय्यमाचरति।
07:58 chart area नाम मुख्यशीर्षिकया कीलकैः (key) च सहितः चित्रपटस्य चित्रणं परितः विद्यमानं क्षेत्रम्।
08:05 chart area प्रारूपयितुं (फार्मेट् कर्तुं) , “Format” विकल्पं क्लिक् कुर्वन्तु। तत्र “Chart Wall” चिन्वन्तु।
08:12 “Chart Wall” इति शीर्षिकया सह काचित् संवादपेटिका दृश्यते।
8:17 “Style” क्षेत्रे “Continuous” इति दृश्यते। तत् चिन्वन्तु।
08:22 “Color” क्षेत्रे, “Red” इति क्लिक् कुर्वन्तु।
08:26 वयं गात्रमपि “0.20”cm प्रति परिवर्तयामः।
08:31 “OK” कीलकं क्लिक् कुर्वन्तु।
08:35 ‘chart area’ एतस्य शैली वर्णः च परिवर्तितः अस्ति।
08:41 चित्रपटीय-अंशानां (elements) गात्रं समीकर्तुं (resize), चित्रपटं चालयितुम् अभ्यसामः।
08:46 गात्रं समीकर्तुं चित्रपटस्य उपरि क्लिक् कुर्वन्तु।
08:51 चित्रपटं परितः हरितवर्णीयं आवरणं दृश्यते।
08:54 चित्रपटस्य गात्रं वर्धयितुं न्यूनीकर्तुं वा, तस्य चतुर्षु अपि कोणेषु विद्यमानानि चिह्नानि आकर्षयन्तु(ड्र्याग्)।
09:03 चित्रपटं चालयितुं (move),तस्योपरि क्लिक् कुर्वन्तु।
09:07 चित्रपटस्योपरि अभिष्टस्थाने कर्सर् नयन्तु।
09:11 कर्सर् हस्तचिह्नरूपेण परिवर्तितः भवति।
09:14 तत् क्लिक् कुर्वन्तु। अनन्तरं चित्रपटम् अभीष्टस्थानं प्रति चालयित्वा मौस्-कीलकं त्यजन्तु।
09:20 चित्रपटं चालितमस्ति!
09:24 “Position and Size” संवादपेटिकाम् उपयुज्य चित्रपटस्य गात्रं परिवर्तितुं अभ्यसामः।
09:30 पुनरपि चित्रपटस्योपरि क्लिक् कुर्वन्तु।
09:33 इदानीं चित्रपटस्य उपरि मौस् इत्यस्य दक्षिणकीलकं क्लिक् कुर्वन्तु। अनन्तरं यद् कांटेस्ट् सूचिः दृश्यते, ततः “Position and Size” चिन्वन्तु।
09:40 “Position and Size” संवादपेटिका दृश्यते।
09:44 अस्याः संवेदपेटिकायाः विविधक्षेत्राणि चित्रपटस्य 'X' , 'Y' स्थानानि( positions) , तस्य औन्नत्यं (height) विस्तारं (width) च निर्धारयति।
09:52 इदानीं 'X' भुजं “1.00” इति 'Y' भुजं “0.83” इति च निश्चिनुमः।
10:02 “OK” कीलकं क्लिक् कुर्मः।
10:04 चित्रपटं , अस्माभिः निर्धारितमौल्यानि अनुसृत्य स्थानान्तरितमस्ति।
10:12 अत्र इदं प्रशिक्षणं समाप्तं भवति।
10:16 अत्र वयं चित्रपटं रचयितुं समीकर्तुं संरूपयितुं च अभ्यस्तवन्तः।
10:21 तेन सह स्प्रेड्शीट् अन्तः एव चित्रपटस्य गात्रं पुनरारचयितुमपि अभ्यासं कृतवन्तः।
10:27 भवताम् अभ्यासाय गृहकार्यं दत्तम्।
10:29 “practice.ods” इतीमं स्प्रेड् शीट् उद्घाटयन्तु।
10:34 तत् प्रति दत्तांशान् उपयुज्य "Pie chart" योजयन्तु।
10:37 तस्य गात्रं पुनरारचय्य (Resize) , ‘स्प्रेड् शीट्’ अधोभागस्य दक्षिणकोनं प्रति चालयन्तु।
10.42 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
10.46 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
10.50 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
10.56 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
11.00 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
10.04 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
11.11 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
11.15 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
11.23 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
11 .34 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal