LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | LibreOffice Draw मध्ये Inserting Text in Drawings इत्याख्ये अनुशिक्षणे भवतां स्वागतम् । |
00:07 | अस्मिन् अनुशिक्षणे, वयम् : |
00:10 | * चित्रे पाठ्यस्य साकं कार्यनिर्वहणम् । |
00:12 | * चित्रे पाठ्यस्य फार्म्याट्-करणम् तथा |
00:15 | * टेक्स्ट्-बाक्स् साकं कार्यनिर्वहणं कथं कर्तव्यम् इति पठिष्यामः । |
00:17 | वयम्,
‘इण्डेन्ट्स्’ , ‘स्पेस्’ तथा ‘अलैन् टेक्स्ट्’ इत्येतेषां सेट्-करणम् |
00:22 | * ‘लैन् तथा ‘आरो (Arrow)' कृते पाठ्ययोजनम् तथा |
00:26 | * ‘काल् औट् मध्ये पाठ्यस्थापनम् इत्यादीनि पठिष्यामः । |
00:29 | पाठ्यम् उभयरीत्या योजयितुं शक्यते : |
00:31 | * चित्रित-आब्जेक्ट् मध्ये, |
00:35 | रेखाः तथा आरो (Arrow) इत्येतयोः उपरि अपि एतत् साक्षात् योजयितुं शक्यते । |
00:37 | * एकं स्वतन्त्रं 'Draw' आब्जेक्ट् टेक्स्ट्बाक्स् मध्ये अपि योजयितुं शक्यते । |
00:42 | अत्र वयम् : |
00:44 | * उबंटु लिनक्स् OS इत्यस्य 10.04 तमाम् आवृत्तिं तथा 'LibreOffice Suite' इत्याख्यस्य 3.3.4 तमाम् आवृत्तिम् उपयुञ्जानां स्मः । |
00:52 | वयं “Water Cycle” इति 'Draw' सञ्चिकाम् उद्घाटयामः तथा च एतस्याः कृते किञ्चन पाठ्यानि योजयामः । |
00:57 | सूर्यस्य पार्श्वे स्थितस्य श्वेतमेघद्वयस्य कृते वयं “Cloud Formation” इति पाठ्यं योजयामः । |
01:04 | श्वेतवर्णस्य समूहं चिन्वन्तु । |
01:06 | समूहस्य अन्तः गन्तुं तस्य उपरि वारद्वयं क्लिक् (Double-click) कुर्वन्तु । |
01:10 | वयं उपरितनस्य मेघस्य चयनं कुर्मः । |
01:13 | अधुना, 'Drawing' इति टूल्-बार् तः 'Text' इति टूल चयनं कुर्मः । |
01:17 | कर्सर्, एकं लघुः, दीर्घतमा, स्फुरिता रेखाम् इव परिवर्तिता इति भवन्तः पश्यन्ति वा ? |
01:23 | एतत् ‘टेक्स्ट् कर्सर्’ वर्तते । |
01:25 | “Cloud Formation” इति पाठ्यस्य टङ्कनं कुर्मः । |
01:29 | अधुना, पत्रस्य उपरि कुत्रचित् वा क्लिक् कुर्वन्तु । |
01:33 | वयम् अपरं श्वेतमेघं प्रति अपि एतदेव पाठ्यं लिखामः । |
01:37 | ग्रूप्-तः बहिः आगन्तुं पत्रस्य उपरि कुत्रचित् वा डबल्-क्लिक् कुर्वन्तु । |
01:42 | अधुना वयं सूर्यम् एतादृशरीत्या एव नामाङ्कनं कुर्मः । |
01:45 | आब्जेक्ट् मध्ये पाठ्यस्य लेखनम् एतदपेक्षया सुलभं न स्यात् ! |
01:50 | तदनन्तरं, वयं धूम्रवर्णस्य मेघस्य समूहं चिनुमः । |
01:53 | आदाविव, ग्रूप् अन्तः प्रवेष्टुं तस्य उपरि डबल्-क्लिक् कुर्वन्तु । |
01:57 | “Rain Cloud” इति प्रत्येकं मेघे अपि टैप् कुर्वन्तु । |
02:02 | धूम्रवर्णस्य मेघेषु पाठ्यं श्यामवर्णे अस्ति इत्यतः एतत् न दृश्यते । |
02:07 | अतः, वयं पाठ्यस्य वर्णं श्वेतवर्णेन परिवर्तयामः । |
02:11 | पाठ्यं चित्वा तथा ‘काण्टेक्स्ट् मेनु’ कृते रैट्-क्लिक् तथा “Character” इत्येतत् चिन्वन्तु । |
02:17 | “Character” इति डैलाग्-बाक्स् उद्घाट्यते । |
02:20 | “Font Effects” इति ट्याब् उपरि क्लिक् कुर्वन्तु । |
02:23 | 'Font color' फील्ड् मध्ये, स्क्रोल्-डौन् कृत्वा तथा “White” इत्येतत् चिन्वन्तु । |
02:28 | 'OK' क्लिक् कुर्वन्तु । |
02:30 | फाण्ट् कलर् श्वेतवर्णेरूपेण परिवर्त्यते । |
02:33 | एवं रीत्या, वयं द्वितीये मेघे स्थितस्य पाठ्यस्य वर्णम् अपि परिवर्तयामः । |
02:38 | पाठ्यं चित्वा रैट्-क्लिक् कृत्वा, तदनन्तरं 'Character' चिन्वन्तु । |
02:43 | 'Font color' मध्ये, “White” चिन्वन्तु । |
02:46 | समूहात् बहिः आगन्तुं पत्रे कुत्रचित् डबल्-क्लिक् कुर्वन्तु । |
02:50 | एवं, पर्वतस्य प्रतिनिधिभूते त्रिभुजे “Mountain” इति पदं टङ्कयामः । |
02:58 | भवन्तः पाठ्यस्य 'Character' इत्येतत् फार्म्याट् कर्तुं शक्नुवन्ति । |
02:59 | अर्थात्, फाण्ट्-स्टैल् इत्येतत् परिवर्तनम् तथा फाण्ट् कृते विशेषशैल्यः दातव्याः । |
03:05 | भवन्तः 'Paragraph' मध्ये अपि पाठ्यं फार्म्याट् कर्तुं शक्नुवन्ति, अर्थात् अलैन्-करणम्, ‘इण्डेण्ट्स्’ तथा ‘स्पेसिङ्ग्’ सेट् करणम्, तथा ट्याब्-स्थानानां सेट् करणम् इत्यादि । |
03:13 | भवन्तः एतानि डैलाग्-बाक्स्, |
03:16 | ’काण्टेक्स्ट् मेन्यू’ तः अथवा |
03:18 | 'Main मेन्यू' तः स्वीकर्तुं शक्नुवन्ति । |
03:21 | 'Main मेन्यू' तः 'Character' इति डैलाग्-बाक्स् प्रवेष्टुम्, 'Format' इति विकल्पं चित्वा तथा 'Character' चिन्वन्तु । |
03:28 | 'Main मेन्यू’ तः 'Paragraph' इति डैलाग्-बाक्स् प्रवेष्टुम्, 'Format' तथा 'Paragraph' चिन्वन्तु । |
03:36 | आयताकृतौ, अन्तर्जलस्य कुत्र पूरणं भवति इति दर्शयितुं, वयं स्थूलतमां कृष्णरेखां कर्षामः । |
03:43 | 'Drawing' टूल्-बार् तः, 'Line' चिन्वन्तु । |
03:46 | कर्सर् 'page' प्रति स्थलान्तरं कृत्वा, दक्षिणभागस्य मौस्-बटन् नोदयित्वा तथा वामतः दक्षिणं प्रति कर्षन्तु । |
03:54 | आयताकृतिः समभागद्वयेन विभक्तं यथा भवेत् तथा एकां तिर्याक् रेखां कर्षन्तु । |
04:01 | क्षितिः भागद्वयेन विभज्यते! |
04:04 | अधुना, वयं रेखायाः इतोऽपि विस्तारं कुर्मः । |
04:07 | रेखां चित्वा तथा च काण्टेक्स्ट्-मेनु कृते रैट्-क्लिक् कु्वन्तु । |
04:11 | 'Line' उपरि क्लिक् कुर्वन्तु । 'Line' इति डैलाग्-बाक्स् दृश्यते । |
04:16 | 'Style' फील्ड् मध्ये, ड्राप्-डौन् बाक्स् क्लिक् कुर्वन्तु । |
04:20 | 'Ultrafine 2 dots 3 dashes' चयनं कुर्वन्तु । |
04:24 | 'Width ' फील्ड् मध्ये, व्याल्यू पायिण्ट् इत्येतत् '.70' इति सेट् कुर्वन्तु । |
04:29 | 'OK' क्लिक् कुर्वन्तु । |
04:31 | वयं रेखां विस्तारितवन्तः । |
04:34 | आयतस्य अन्तः “Ground water table” इति पाठ्यं योजयामः । |
04:39 | आदौ, 'Text' इति टूल् चयनं कुर्मः । |
04:42 | एतेन 'Drawing' टूल् बार् इत्याख्यस्य उपरितनं बृहदक्षरं “T” इति चितं वर्तते । |
04:46 | 'Draw' पत्रं प्रति गच्छन्तु । |
04:49 | अधुना, कर्सर् एकं सङ्कलनचिह्नेन परिवर्तितम् । एतस्य अधः एकस्मिन् बृहदक्षरे 'I' अस्ति । |
04:55 | आयतस्य अन्तः क्लिक् कुर्वन्तु । |
04:57 | टेक्स्ट्-बाक्स् परिदृश्यते इति लक्षयन्तु । |
05:01 | अत्र, वयं “Ground water table” इति टङ्कनं कुर्मः । |
05:05 | पाठ्यं टेक्स्ट्-बाक्स् मध्ये अलैन् कर्तुम्, कर्सर् टेक्स्ट्-बाक्स् अन्तः स्थापयन्तु । |
05:12 | उपरितनं स्ट्याण्डर्ड् टूल्-बार् मध्यस्थस्य 'Centered' इति ऐकान् उपरि क्लिक् कुर्वन्तु । |
05:19 | एवं रीत्या, वयं त्रिभुजे |
05:22 | “Rain water flows from land into rivers and sea” इति पाठ्यं योजयामः । |
05:30 | गृहकार्यस्य निमित्तम् अनुशिक्षणस्य कृते विरामं (pause) प्रयच्छन्तु । |
05:33 | एकं समचतुरस्रं चित्रयन्तु । |
05:35 | एतस्मिन् पाठ्यं योजयतु : “This is a square |
05:38 | A square has four equal sides and four equal angles. Each angle in a square is ninety degrees. |
05:46 | The square is a quadrilateral" (क्वाड्रिल्याटरल्) |
05:50 | 'Text' इति डैलाग्-बाकस् मध्ये विकल्पान् उपयुज्य अस्य पाठ्यस्य फार्म्याट् कुर्वन्तु । |
05:54 | 'font, size, style' तथा 'alignment' इत्येतान् विकल्पान् पाठ्यस्य कृते अन्वयं करोतु (अप्लै कुर्वन्तु) |
06:00 | अधुना, वयं चित्रे स्थितान् बाणान् (‘आरो’) क्रमेण योजयामः । |
06:03 | एतत् ‘आरो’ भूमिः, सस्यानि तथा जलमूलेषु स्थितं जलं बाष्पीभूत्वा मेघः कथं भवति इति प्रदर्शयति । |
06:12 | वामभागस्य अन्तिमं ‘आरो’ चिनुमः । |
06:14 | अधुना, क्लिक् कृत्वा पर्वतस्य प्रति आकर्षन्तु । |
06:18 | वयं मध्ये स्थितं ‘आरो’ चिनुमः । |
06:21 | अधुना, क्लिक् कृत्वा वृक्षान् प्रति आकर्षन्तु । |
06:25 | तृतीयम् ‘आरो’, जलात् मेघानां प्रति जलस्य बाष्पीकरणं प्रदर्शयति । |
06:31 | पर्वतात् जलस्य अधः प्रवाहं प्रदर्शयतः काञ्चित् रेखां चित्रयितुम्, वयं 'Curve ' इति विकल्पस्य उपयोगं कुर्मः । |
06:37 | 'Drawing' टूल्-बार् तः, 'Curve' इत्यस्य उपरि क्लिक् कृत्वा तथा 'Freeform Line' चिन्वन्तु । |
06:43 | 'draw' इति पत्रस्य उपरि, पर्वतस्य पार्श्वे, कर्सर् स्थापयन्तु । |
06:47 | वामभागस्य मौस्-बटन् नोदयित्वा तथा अधः आकर्षन्तु । |
06:51 | भवन्तः एकां वक्ररेखां चित्रितवन्तः । |
06:53 | अधुना, वयम् प्रत्येकं ‘आरो’ कृते अपि विवरणं लिखामः । |
06:58 | दक्षिणभागे विद्यमानं प्रथमं ‘आरो’ चित्वा तथा एवं टङ्कनं कृत्वा : “Evaporation (इव्यापोरेषन्) from rivers and seas”. |
07:06 | पत्रे कुत्रचित् क्लिक् कुर्वन्तु । |
07:08 | रेखायाः उपरि पाठ्यं परिदृश्यते । |
07:12 | पाठ्यं समीचीनतया रेखायाः उपरि एव विद्यते इत्यतः तत् स्पष्टं नास्ति इति लक्षयन्तु । |
07:18 | पाठ्यं रेखायाः उपरिभागं प्रति नेतुं, रेखायाः उपरि क्लिक् कुर्वन्तु । |
07:22 | पाठ्यं तिर्यक् स्थापितं वर्तते । |
07:25 | कर्सर् पाठ्यस्य अन्ते संस्थाप्य तथा 'Enter' नुदन्तु । |
07:30 | 'page' उपरि क्लिक् कुर्वन्तु । |
07:32 | पाठ्यम् अलैन् अभवत् । |
07:35 | रेखायाः तथा आरो उपरि टङ्कनं कृतं पाठ्यं ‘काण्टेक्स्ट् मेन्यू’ मध्यस्थस्य विकल्पान् उपयुज्य अपि फार्म्याट् कर्तुं शक्यते । |
07:41 | ‘काण्टेक्स्ट् मेन्यू’ उपयुज्य फाण्ट्-सैज् फार्म्याट् कुर्मः । |
07:45 | एतस्य पाठ्यस्य उपरि क्लिक् कर्वन्तु । |
07:47 | “Evaporation from rivers and seas”. |
07:50 | पाठ्यम् इदानीं समतलम् अस्ति । |
07:53 | वयं पाठ्यस्य चयनं कुर्मः तथा ‘काण्टेक्स्ट् मेन्यू’ द्रष्टुं रैट्-क्लिक् कुर्मः । |
07:58 | 'Size' चयनं कृत्वा तथा २२ क्लिक् कुर्वन्तु । |
08:02 | फाण्ट् सैज् परिवर्तितम् । |
08:05 | अधुना, वयं अधस्तनं पाठ्यम् अवशिष्ट-सर्व ‘आरो’ कृते टङ्कनं कुर्मः । |
08:09 | "Evaporation from soil" । |
08:12 | "Evaporation from vegetation" । |
08:17 | "Run off water from the mountains" । |
08:22 | वयं धूम्रवर्णस्य मेघेभ्यः वर्षधारां प्रदर्शयामः । |
08:26 | वर्षां प्रदर्शयितुम्, मेघात् अधोमुखं कृतं dotted arrow चित्रयामः । |
08:32 | 'Drawing' टूल्-बार् तः, 'Line Ends with Arrow' चिनुमः । |
08:37 | तदनन्तरम्, वामभागे स्थितस्य आदिम-कृष्णमेघस्य उपरि कर्सर् स्थापयन्तु । |
08:42 | वामभागस्य मौस्-बटन् नोदयित्वा एतत् अधः कर्षन्तु । |
08:46 | ‘काण्टेक्स्ट् मेन्यू’ कृते रैट्-क्लिक् कृत्वा 'Line' क्लिक् कुर्वन्तु । |
08:50 | 'Line' इति डैलाग्-बाक्स् परिदृश्यते । |
08:53 | “Style” ड्राप्-डौन् लिस्ट् उपरि क्लिक् कुर्वन्तु तथा |
08:56 | '2 dots 1 dash' चयनं कुर्वन्तु । |
08:58 | 'OK' क्लिक् कु्र्वन्तु । |
09:00 | वयं एकं dotted arrow रचितवन्तः । |
09:02 | वयं मेघस्य कृते इतोऽपि द्वयं ‘आरो’ copy तथा paste कुर्मः । |
09:06 | अधुना वयं अपरस्य मेघस्य कृते ‘आरो’ copy तथा paste कुर्मः । |
09:12 | अधुना, वयं “Rain” इति पाठ्यं ‘डाटेड् आरो’ (dotted arrow) इत्येतेषां कृते योजयामः । |
09:21 | वयं “Evaporation to form the clouds” इति पाठ्यं एकं टेक्स्ट्-बाक्स् मध्ये 'Water' आब्जेक्ट् उपरि टङ्कनं कुर्मः । |
09:28 | 'Drawing ' टूल्-बार् तः, 'Text' टूल् चित्वा तथा पूर्वं प्रदर्शितरीत्या टेक्स्ट्-बाक्स् चित्रयन्तु । |
09:35 | एतस्मिन्, “Evaporation to form the clouds” इति टङ्कनं कुर्वन्तु । |
09:41 | 'Drawing' टूल्-बार् तः 'Text Tool' चिन्वन्तु । |
09:44 | तथा च कृष्णमेघानां पार्श्वे एकं टेक्स्ट्-बाक्स् रचयन्तु । |
09:48 | एतस्मिन् “Condensation to form rain” इति टङ्कनं कुर्वन्तु । |
09:53 | आदौ टेक्स्ट्-बाक्स् कोणस्य उपरि क्लिक् कृत्वा तस्य स्थानान्तरणं कुर्वन्तु । |
09:57 | अधुना एतम् अपेक्षितस्थाने ‘ड्र्याग् तथा ड्राप्’ कुर्वन्तु । |
10:02 | पूर्वतनानि सोपानानि अनुसृत्य, किञ्चन टेक्स्ट्-बाक्स् उपयुज्य, वयं “WaterCycle Diagram” इति शीर्षकं यच्छामः । |
10:07 | तथा च पाठ्यं 'Bold' इति फार्म्याट् कुर्मः । |
10:16 | 'Water Cycle' रेखाचित्रस्य रचनां वयं समापितवन्तः । |
10:20 | अधुना, वयं 'Callouts' (काल्-औट्स्) इत्येतानि पठामः । |
10:22 | 'Callouts' नाम किम्? |
10:24 | तानि विशिष्टानि टेक्स्ट्-बाक्स् सन्ति । तानि 'Draw' पत्रस्य |
10:29 | किञ्चन आब्जेक्ट् अथवा किञ्चन स्थानं प्रति भवताम् अवधानम् आकर्षति । |
10:33 | उदाहरणार्थम् - अधिकेषु कामिक्-पुस्तकेषु |
10:36 | पाठ्यं 'Callouts' इत्यस्मिन् स्थापितं वर्तते । |
10:39 | 'Draw' सञ्चिकायाः कृते नूतनं 'page' योजयामः । |
10:42 | 'Main' मेनुतः, 'Insert ' चित्वा तथा 'Slide' उपरि नुदन्तु । |
10:47 | नूतनमेकं 'page' योजितं वर्तते । |
10:50 | 'Callout' रचयितुम्, 'Drawing' टूल्-बार् प्रति गच्छन्तु । |
10:54 | 'Callout' ऐकान् पार्श्वे स्थितस्य लघुकृष्णवर्णस्य त्रिभुजस्य उपरि नुदन्तु । |
10:59 | केचित् 'Callouts' परिदृश्यन्ते । |
11:01 | 'Rectangular Callout' उपरि नुदन्तु । |
11:04 | 'page' प्रति कर्सर् नुदित्वा, दक्षिण-मौस्-बटन् कर्षयन्तु । |
11:10 | भवन्तः किञ्चन 'Callout' चित्रितवन्तः । |
11:12 | भवन्तः अन्येभ्यः वस्तुभ्यः कृतमिव 'Callout' अन्तः पाठ्यं लेखितुं प्रभवन्ति । |
11:18 | द्विर्नुदन्तु तथा Callout' अन्तः “This is an example” इति पाठ्यं टङ्कयन्तु । |
11:25 | एवं, वयं LibreOffice Draw इत्याख्यस्य अनुशिक्षणस्य अन्तिमं सोपानं प्रति आगतवन्तः । |
11:30 | अस्मिन् अनुशिक्षणे, भवन्तः |
11:33 | *चित्रेषु पाठ्येभ्यः कार्यं कथं करणीयम् |
11:35 | *चित्रेषु पाठ्यस्य फार्म्याट्-करणम् |
11:38 | *टेक्स्ट्-बाक्स् इत्यस्मात् कार्यनिर्वहणम् |
11:40 | *‘इण्डेण्ट्’, ‘स्पेसिङ्ग् तथा टेक्स्ट्-योजनं’ |
11:44 | * लैन् तथा Arrow इत्येभ्यः पाठ्यं योजयितुं |
11:46 | तथा ‘काल् औट्’ इत्यस्मिन् पाठ्यस्य स्थापनम् इत्येतानि पठितवन्तः । |
11:50 | एतत् गृहकार्यं भवन्तः स्वयं प्रयतन्ताम् । |
11:53 | एकं नोट्बुक् शीर्षकं तथा एकाम् आह्वानपत्रिकाम् अस्मिन् स्लैड् मध्ये प्रदर्शितरीत्या रचयन्तु । |
12:00 | एतस्यां पर्चन्याम् उपलभ्यमानानि चलच्चित्राणि पश्यन्तु । |
12:03 | एषा ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’ सारांशं बोधयति । |
12:06 | भवतां सविधे उत्तमरीत्या ब्याण्ड्-विड्त् नास्ति चेत्, भवन्तः डौन्-लोड् कृत्वा पश्यन्तु । |
12:11 | स्फोकन् ट्युटोरियल् प्राजेक्ट् गणः |
12:13 | * अनुशिक्षणाानि उपयुज्य कार्याशालाः चालयति । |
12:17 | * आन्-लैन् परीक्षायाम् उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रं प्रयच्छति । |
12:20 | |
12:27 | ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर् प्राजेक्ट्’ इत्येतस्य एकः भागः वर्तते । |
12:31 | एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन् तः समर्थितं वर्तते । |
12:39 | अस्याः संस्थायाः विषये अधिकविचाराः अस्यां पर्चन्यां लभ्यन्ते - http://spoken-tutorial.org/ |
12:50 | अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |