LibreOffice-Suite-Draw/C2/Create-simple-drawings/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:02 | लिबेर्-आफिस्-ड्रा मध्ये Create Simple Drawings इत्याख्ये अनुशिक्षणे भवतां स्वागतम् । |
00:08 | अस्मिन् अनुशि़क्षणे भवन्तः रेखा, बाणः तथा आयतवत् मूलाः आकाराः ; ज्यामितीयाः आकाराः, चिह्नानि, नक्षत्राणि, ब्यानर्स् इत्येतानि उपयुज्य सरलचित्राणां लेखनं पठिष्यन्ति । |
00:22 | भवन्तः वस्तूनां चयनं, स्थलपरिवर्तनं, निष्कासनं, ‘रूलर्’ उपयुज्य सीमायाः ज्ञानं तथा ‘’अलैन्"टूल्-बार् उपयुज्य वस्तूनां स्थानपरिवर्तनम् इत्यादीनि पठिष्यन्ति । |
00:33 | वयम् उबुण्टु लिनक्स् १०.०४ अपि लिबर्-आफीस् ३.३.४ अपि उपयुञ्ज्महे । |
00:42 | ‘आब्जेक्ट्’ अथवा वस्तुनः विवरणं कुर्मः । |
00:44 | ‘ड्रा’ मध्ये रेखाः चतुरस्राणि, बाणाः, गति-मानचित्रम् इत्याद्याकाराः अथवा आकाराणां समूहः ‘आब्जेक्ट्’ इति कथ्यते। |
00:55 | अस्मिन् स्लैड् मध्ये प्रदर्शिताः सर्वेऽपि आकाराः ‘आब्जेक्ट्’ सन्ति । |
00:59 | Desktop उपरि विद्यमानं ”WaterCycle” इति सञ्चिकाम् उद्घाटयामः। |
01:04 | आब्जेक्ट् कथं चयनं करणीयम् इति पश्यामः । |
01:08 | मेघस्य चयनं कर्तव्यम् चेत् तस्य उपरि क्लिक् कुर्वन्तु । |
01:13 | क्लिक्-करणानन्तरम् अष्ट ‘ह्याण्डल्स्’ दृश्यन्ते । |
01:16 | चितवस्तुनः अथवा आब्जेक्ट् पार्श्वे स्थितानां लघु नील-हरितवर्णयुक्तं चतुरस्रं ह्याण्डल् इति कथ्यते । |
01:22 | ह्याण्डल्स् तथा तेषाम् उपयोगस्य विषये अधिकां सूचनां अग्रिमेषु अनुशिक्षणेषु पश्यामः । |
01:27 | अस्माकं चित्रे इतोऽपि वस्तूनि योजयामः । |
01:30 | भूमेः प्रतिनिधित्वेन आयतमेकम् योजयामः । |
01:34 | ‘ड्रायिङ्ग् टूल्-बार्’ मध्ये ‘basic shapes’ उपरि क्लिक् कृत्वा, तदनन्तरं ‘rectangle’ उपरि क्लिक् कुर्वन्तु। |
01:39 | अधुना कर्सर् “page” उपरि नयन्तु । भवन्तः सङ्कलनस्य चिह्नम् किञ्चन बृहत् ‘I’ अक्षरेण सह द्रक्ष्यन्ति । |
01:45 | मौस् वामबटन् नोदयित्वा आयताकारस्य आगमनार्थम् आकर्षन्तु । |
01:50 | अधुना मौस् बटन् त्यजन्तु । |
01:52 | इतः परं वयं भूमेः मेघं प्रति जलस्य बाष्पीभवनक्रियां सूचयितुं केषाञ्चन बाणानां चित्रणं कुर्मः । |
02:00 | रेखाम् आक्रष्टुं “drawing toolbar” मध्ये “line” इति नुदन्तु । |
02:04 | कर्सर् “page” उपरि नयन्तु । |
02:06 | भवन्तः सङ्कलनचिह्नेन साकम् काञ्चित् वक्रां संयोजकरेखां पश्यन्ति । |
02:10 | मौस् वामबटन् नोदयित्वा उपरिष्टात् अधःपर्यन्तम् आकर्षन्तु । |
02:15 | भवन्तः काञ्चित् समरेखाम् आकर्षन्तु । |
02:17 | एका रेखा ह्याण्डल्-द्वययुक्ता भवति । |
02:20 | अधुना वयं बाणस्य अग्रं रेखया सह योजयामः । |
02:23 | रेखायाः चयनं कुर्मः । |
02:25 | मौस् बटन् नोदयित्वा काण्टेक्स्ट् मेनु प्रति गत्वा “line” नुदन्तु । |
02:30 | “line” इत्याख्यं डयलाग् बाक्स् भवन्तः पश्यन्ति । अधुना “arrow styles” इति विकल्पस्य उपरि क्लिक् कृत्वा “Arrow Style” इत्यस्य ड्राप्-डौन् उपरि क्लिक् कुर्वन्तु । |
02:39 | एतत् लभ्यमानं “Arrow Styles” अथवा बाणानां शैलीं प्रदर्शयति । |
02:43 | ”Arrow” इति नामङ्कितस्य प्रथमविकल्पस्य चयनं कुर्वन्तु । |
02:46 | ”OK” उपरि क्लिक् कुर्वन्तु । |
02:48 | चितस्य एतस्य बाणस्य अग्रं रेखायाः उभयपार्श्वे योजनं करोति । |
02:52 | किन्तु अस्मभ्यं रेखायाः एकस्मिन् भागे एव बाणस्य शिरः आवश्यकं भवति । |
02:57 | अतः वयम् आदौ Ctrl तथा Z इत्येतौ युगपत् नोदयित्वा कृतं कार्यं निवर्तयामः । |
03:02 | काण्टेक्स्ट् मेन्यु - इत्येतत् द्रष्टुं दक्षिणबटन् नुदन्तु । |
03:05 | इदानीं “Line” इति विकल्पस्य उपरि क्लिक् कुर्वन्तु । |
03:09 | ”Arrow styles” इति विकल्पस्य अधः “Style” इति विकल्पः दृश्यते । |
03:14 | भवन्तः रेखायाः उभयाग्रेषु ड्राप् डौन् बाक्स् पश्यन्ति । |
03:19 | वामपार्श्वस्य ड्राप् डौन् बाक्स् मध्ये “Arrow” इत्येतत् चिन्वन्तु । |
03:23 | दक्षिणपार्श्वस्य ड्राप् डौन् बाक्स् मध्ये “none” इति विकल्पं चिन्वन्तु । |
03:26 | ”OK” उपरि क्लिक् कु्र्वन्तु । |
03:28 | बाणस्य शिरः रेखायाः एकस्मिन् अग्रे योजितम् इति अवधारयन्तु । |
03:33 | वयं बाणं “Lines And Arrows” इति विकल्पात् अपि चित्रयितुं शक्नुमः । |
03:38 | इदानीम् अस्य बाणस्य पार्श्वे बाणद्वयं चित्रयामः । |
03:42 | ड्रायिंग् टूल्-बार् मध्ये “Lines and Arrows” इत्यस्य उपरि क्लिक् कृत्वा “Line starts with Arrow” इति चिन्वन्तु । |
03:48 | कर्सर् “Draw” इति पुटस्य उपरि नयन्तु । |
03:51 | मौस् वामबटन् नोदयित्वा उपरिष्टात् अधःपर्यन्तम् आकर्षन्तु । |
03:56 | बाणम् एवं रीत्या रचयितुं सरलं खलु? |
04:00 | एतदृशरीत्या अपरं बाणं रचयामः । |
04:06 | एतद् अनुशि़क्षणं स्थगयित्वा अस्य अभ्यासं कुर्वन्तु । |
04:09 | ”MyWaterCycle” इति सञ्चिकायां रेखामेकां रचयन्तु । |
04:13 | रेखां चित्वा “Line” इति डैलाग्-बाक्स् उद्घाटयन्तु । |
04:16 | ”Line Properties” इति विकल्पे, रेखानां “style, color, width तथा “transparency” इत्येतानि परिवर्तयन्तु । |
04:24 | ”Arrow Styles” इति विकल्पे बाणस्य शैलीं परिवर्तयन्तु । |
04:28 | अग्रे, वयं नक्षत्रमेकं चित्रयामः । |
04:31 | ड्रायिङ्ग् टूल्-बार् प्रति गत्वा “Stars” इति लिखितं लघु कृष्णत्रिकोणं चिन्वन्तु । |
04:37 | वयं “5 Point Star” इत्येतस्य चयनं कुर्मः । |
04:41 | अधुना कर्सर् मेघस्य पार्श्वे स्थापयन्तु । |
04:44 | मौस् -इत्यस्य वामबटन् नोदयित्वा दक्षिणपार्श्वे आकर्षयन्तु । |
04:48 | भवन्तः नक्षत्रं चित्रितवन्तः । |
04:50 | इदानीम् आब्जेक्ट् अथवा वस्तूनां स्थलपरिवर्तनं तथा अपमार्जनम्(Delete) इत्येतयोः विषये पठामः । |
04:54 | वस्तुनः स्थलपरिवर्तनं कर्तुं वस्तु चित्वा अपेक्षितस्थलं प्रति आकर्षन्तु । |
04:59 | अधुना मौस् बटन् त्यजन्तु । |
05:02 | वस्तु चालयितुं कीबोर्ड्-अन्तर्गत- "उपरि", “अधः", “दक्षिण"तथा "वाम"कीलकानि उपयोक्तुं शक्यन्ते । |
05:08 | वस्तूनि निर्वोढुं सरलं खलु । |
05:11 | वस्तु प्रच्छन्नं कर्तुं तत् चित्वा “Delete” बटन् उपरि क्लिक् कुर्वन्तु । |
05:17 | वस्तु मार्जितम् । सरलं वर्तते खलु? |
05:20 | इदानीं वयं “Ruler” तथा “Align” इति केचन मूलभूतविकल्पानां विषये पठिष्यामः । |
05:26 | ”Ruler” इत्येतत् पत्रस्य पार्श्वभागं समीकर्तुं तथा परिमाणस्य प्रमाणम् अथवा unit परिवर्तयितुम् उपयुञ्ज्मः । |
05:31 | ”Align” टूल्-बार् इति वस्तूनि स्थापयितुं उपयुज्यते । |
05:35 | ”Ruler” इति Draw इत्यस्य कार्यक्षेत्रस्य उपरिभागे तथा वामभागे दृश्यते । |
05:40 | परिमाणस्य प्रमाणं विनिर्दिष्टुम् “Ruler” इत्यस्य उपरि मौस् दक्षिणबटन् नुदन्तु । |
05:45 | भवन्तः परिमाण-प्रमाणस्य विविधनामानि पश्यन्ति । |
05:48 | ”Centimeter” इत्येतत् चिन्वन्तु । |
05:50 | उपरिस्थः रूलर् प्रति परिमाणप्रमाणं सेण्टिमीटर् इति चितं वर्तते । |
05:55 | तथैव वामभागस्य रूलर् प्रति अपि परिमाण-प्रमाणस्य चयनं कुर्मः । |
06:00 | वस्तूनां परिमाणस्य अनुगुणं लिखितं वा इति द्रढीकर्तुम् उभय-रूलर् प्रति एकमेव परिमाण-प्रमाणं चिन्वन्तु । |
06:08 | सक्रियं रूलर् श्वेतवर्णे अस्ति इति लक्षयन्तु । |
06:12 | रूलर् इत्यस्य अग्रभागः “Page Setup” विकल्पस्य द्वारा विनिर्दिष्टपत्रस्य प्रान्तं सूचयति । |
06:19 | रूलर् कथं वस्तुनः परिमाणं सूचयति इति पश्यामः । |
06:23 | मेघं चिन्वन्तु । |
06:25 | रूलर् इत्यस्य उपरि लघुः आरम्भः तथा अन्तिमं चिह्नं लक्षितवन्तः किम् ? |
06:29 | एते मेघस्य कोणभागान् सूचयन्ति । |
06:32 | भवद्भिः रूलर् मध्ये एतानि चिह्नानि चालितानि चेत् वस्तु अपि परिवर्तितं भवति इति लक्षयन्तु । |
06:38 | रूलर् इति “page” इत्यस्य उपरितनवस्तुनः गात्रं दर्शयति । |
06:42 | एतत् यत्किमपि वस्तु पुटस्य उपरि स्थापयितं अस्मान् सशक्तं करोति तथा च पत्रस्य सीमाम् अपि दर्शयति । |
06:49 | अधुना अग्रिमः सहायकविषयः - “Align” टूल्-बार् इत्यस्य विषये ज्ञास्यामः। |
06:53 | “Align” टूल्-बार्, चितं वस्तु वाम-दक्षिण-उपरि-अधः नेतुम् उपयोक्तुं शक्यते । |
07:01 | “Align” टूल्-बार् इत्येतस्य सक्रियतासम्पादनार्थं “Main Menu” प्रति गत्वा “View” उपरि क्लिक् कुर्वन्तु । |
07:07 | ”View” इति चित्वा “Toolbars” इत्यत्र नुदन्तु । |
07:11 | विविधाः टूल्-बार्-पट्टिकाः पश्यन्ति । |
07:13 | ”Align” नुदन्तु । |
07:15 | ”Align” टूल्-बार् प्रदर्शयिष्यति । |
07:18 | विविधानि अलैन् विकल्पान् उपयुज्य वस्तूनि कथं योजनीयाः इति पश्यामः । |
07:24 | मेघस्य चयनं कुर्मः । |
07:26 | ”Align” टूल्-बार् मध्ये “Left” इति चिन्वन्तु । |
07:29 | मेघः वामभागे योजितः । |
07:32 | अधुना “Centered” तथा “Centre” इति विकल्पानां व्यत्यासं ज्ञास्यामः । |
07:38 | वृत्तं “centre” इति विकल्पेन सह संयुज्य तदनन्तरं “Centered” विकल्पेन साकं योजयामः । |
07:43 | आदौ वृत्तं दक्षिणभागे योजयामः । |
07:47 | अधुना वृत्तं चित्वा “Align” टूल्-बार् मध्ये “Right” इति चिन्वन्तु । |
07:52 | इदानीं “Align” टूल्-बार् मध्ये “Centre” इति चिन्वन्तु । |
07:56 | अधुना वृत्तं मध्यभागे संयोजितम् । |
07:59 | ”Centre” विकल्पः वस्तु पत्रस्य उपरितनकोणस्य तथा अधस्तनकोणस्य मध्यबिन्दोः कृते स्थापयति । |
08:06 | एषः विकल्पः वस्तुनः स्थानं पत्रस्य विस्तारानुगुणं न परिवर्त्यते । |
08:10 | इदानीं “Align” टूल्-बार् मध्ये “Centered"चिन्वन्तु । |
08:15 | अधुना वृत्तं पत्रस्य मध्यभागे स्थापितम् । |
08:18 | ”Centered” विकल्पेन वृत्तं पत्रस्य मध्यभागे समीचीनतया संयोजितम् । |
08:23 | एषः विकल्पः वस्तु पत्रस्य उपरितनस्य अधोभागस्य च अन्तिमसीमायाः अनुगुणं पत्रस्य विस्तारानुगुणं स्थापयति । |
08:33 | अधुना, वयं वस्तूनि पूर्वमिव तेषां समीचीनं स्थानं प्रति आरोपयामः । |
08:40 | सञ्चिकायाः पिधानात् पूर्वं “save” कर्तुं स्मरन्तु । |
08:43 | भवते अन्यः अभ्यासः अत्र अस्ति । |
08:46 | ”MyWaterCycle” सञ्चिकायाम् अपरं पत्रं स्थापयन्तु । |
08:50 | एतत् आकारद्वयं चित्रयन्तु । |
08:53 | की-बोर्ड् दिक्सूचक-की द्वारा तेषां चालनं कुर्वन्तु । |
08:55 | भवद्भिः रचितं कञ्चिदपि वस्तु चित्वा मार्जयन्तु । |
08:59 | रूलर् उपयुज्य केषाञ्चन वस्तूनां मापनं कुर्वन्तु । |
09:04 | तदनन्तरं “Align” टूल्-बार् उपयुज्य वस्तूनि पत्रस्य मध्ये योजयन्तु । |
09:11 | एतेन वयं लिब्रे-आफीस् ड्रा-इत्यस्य अनुशि़क्षणस्य अन्त्यं प्रति आगतवन्तः । |
09:15 | अस्मिन् अनुशि़क्षणे भवन्तः रेखा, बाणः, आयतः तथा च मूलाः आकाराः, ज्यामितीयाकाराः, चिह्नानि, नक्षत्राणि, ब्यानर्स् च इत्येतानि उपयुज्य सरलचित्राणां लेखनकार्यं पठितवन्तः । |
09:29 | भवन्तः वस्तूनि चयनं कर्तुं निष्कासयितुं च तथा "रूलर्" “align” टूल्-बार् उपयुज्य वस्तूनि संयोजयितुं पठितवन्तः । |
09:37 | अस्यां पर्चन्यं विद्यमानं वीडियो पश्यन्तु : http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
09:41 | एतत् स्पोकन् ट्युटोरियल् योजनायाः विवरणं करोति । |
09:44 | भवतां समीपे उत्तमं ब्याण्ड्-विड्त् नास्ति चेत् वीडियो डौन्लोड् कृत्वा पश्यन्तु । |
09:48 | स्फोकन् ट्युटोरियल् गणः स्पोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयति । |
09:54 | * तथा च आन्लैन् परीक्षायां उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । |
09:58 | अधिका सूचनाय कृपया एतत् पर्चनीं प्रति लिखन्तु contact@spoken-tutorial.org |
10:04 | “स्पोकन् ट्युटोरियल्”प्रकल्पः "टाक् टु ए टीचर्"इति प्रकल्पस्य कश्चन भागः वर्तते । |
10:09 | एतत् ICT, MHRD द्वारा भारतसर्वकारस्य राष्ट्रियसाक्षरतामिशन् - एतस्य आधारं प्राप्तवती वर्तते । |
10:17 | अस्मिन् मिशन् अधिकृत्य अधिकाः सूचनाः अधोभागे निर्दिष्टः पर्चन्यां लभ्यते ।[1] |
10:27 | अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टनम् । धन्यवादः । |