C-and-Cpp/C2/Logical-Operators/Sanskrit
From Script | Spoken-Tutorial
Revision as of 20:14, 12 April 2020 by NaveenBhat (Talk | contribs)
Time | Narration |
00:02 | Logical operators in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:08 | अस्मिन् पाठे वयं लोजिकल् ओपरेटर्स् विषयम् ज्ञास्यामः । तद्यथा : Logical AND तद्यथा expression1 && expression2 |
00:16 | Logical OR तद्यथा expression1 OR expression2 |
00:21 | Logical NOT तद्यथा not (Expression1) |
00:25 | उदाहरणैः सह तत्कुर्मः । |
00:28 | पाठस्यास्य ध्वन्यङ्कनायाहं, Ubuntu 11.10 इतीदम् ओपरेटिङ्ग् सिस्टम् रूपेण, |
00:33 | तथाUbuntu इत्यस्योपरि gcc तथा g++ Compiler इत्यनयोः 4.6.1 तमा आवृत्तिः एतेषामुपयोगं करोमि । |
00:39 | logical operators इत्येतेषां पीठिकया सह प्रारम्भं कुर्मः । |
00:43 | C तथा C++ मध्ये true इतीदं 0 इत्यस्माद् भिन्नं मूल्यं वर्तते । |
00:48 | शून्यं नास्ति चेत् true इति । |
00:50 | अपि च शून्यम् इत्युक्ते false वर्तते । |
00:53 | लोजिकल् ओपरेटर्स् उपयुज्य एक्स्प्रेश्शन्स् इतीमानि, 1 इतीदं true इत्यस्मै तथा 0 इतीदं false इत्यस्मै प्रत्यर्पयति । |
00:58 | अधुनाहं एकेन उदाहरणेन सह लोजिकल् ओपरेटर्स् विषयं विवृणोमि । |
01:03 | C मध्ये लोजिकल् ओपरेटर्स् विषयस्य विवरणाय अत्रैकं प्रोग्राम् वर्तते । |
01:08 | main ब्लोक् इत्यस्यान्तः, |
01:10 | इदं स्टेट्मेण्ट् a,b तथा c इतीमानि वेरियेबल्स्, इण्टीजर् रूपेण डिक्लेर् करोति । |
01:16 | printf स्टेट्मेण्ट् इतीदं, उपयोक्तारं a,b तथा c इत्येतेषां मूल्यानि दातुम् आज्ञापयति । |
01:21 | scanf स्टेट्मेण्ट् इतीदं a,b तथा c वेरिबेल्स् इत्येतेभ्यः उपयोक्तृणा इन्पुट् प्राप्नोति । |
01:28 | वयमत्र, a,b तथा c इत्येतेषां मूल्यानां तुलनां कृत्वा, अधिकतमं परिजानाम । |
01:33 | युगपत् तोलयितुं वयंlogical AND ओपरेटर् उपयुञ्ज्महे । |
01:38 | अत्र सर्वाणि कण्डीशन्स् सत्यं भविष्यन्ति चेत्, logical AND इतीदं true इति मूल्यं यच्छति । |
01:43 | यदि कण्डीशन् फ़ाल्स् जायते तर्हि एक्स्प्रेश्शन् अग्रे न परीक्ष्यते । |
01:49 | अतः (a>c) एक्स्पेश्शन् इतीदं, (a>b) इतीदं ट्र्यु वर्तते चेदेव परीक्ष्यते । |
01:56 | यदि a इतीदं b इत्यस्मान्न्य़ूनं वर्तते तर्हि, एक्स्प्रेश्शन् इतीदं अग्रे न परीक्ष्यते । |
02:02 | पूर्वतन-स्टेट्मेण्ट् सत्यमस्ति चेदेव इदं स्टेट्मेण्ट् परीक्ष्यते । |
02:07 | पश्चात् (b>c) इतीदं परीक्ष्यते । |
02:10 | यदि कण्डीशन् ट्र्यु जायते तर्हि, b is greatest इति पटले प्रदर्श्यते । |
02:16 | न चेत् c is greatest इति प्रदर्श्यते पटले । |
02:21 | वयमधुना logical OR ओपरेटर् प्रति आगतवन्तः । |
02:24 | अत्र कण्डीशन्स् मध्ये एकं सत्यं भवेदेव, न चेत् logical OR इतीदं ट्र्यु वेल्यू न प्रत्यर्पयति । |
02:30 | ट्र्यु-कण्डीशन् इत्यस्य अनागमने एक्स्प्रेशन् अग्रे न परीक्ष्यते । |
02:35 | अतः यदि a == zero तर्हि, शिष्टे द्वे एक्स्प्रेश्शन्स् इवेल्युएट् न जायेते । |
02:43 | इदं printf स्टेट्मेण्ट्, यदा a, b अथवा c इतेष्वेकं 0 अस्ति तदा एक्सिक्यूट् जायते । |
02:49 | प्रोग्राम् इत्यस्य अन्तम् आगते सति, return 0 अपि च कर्लि ब्रेकेट् इत्यनेन सह समापनम् । |
02:54 | अधुना प्रोग्राम् इतीदं save कुर्वन्तु । |
02:57 | .c (dot c) एक्स्टेन्शन् इत्यनेन सह Save कुर्वन्तु । |
03:00 | अहं मम सञ्चिकां logical.c इति रक्षितवानस्मि । |
03:03 | Ctrl, Alt तथा T कीलकानि युगपन्नोदनेन टर्मिनल् उद्घाटयन्तु । |
03:08 | कम्पैल् कर्तुं gcc space logical dot c space minus o space log इति टङ्कयित्वा Enter नुदन्तु । |
03:23 | एक्सिक्यूट् कर्तुम् ./log (dot slash log) इति टङ्कयित्वा, |
03:27 | Enter नुदन्तु । |
03:29 | वयं मूल्यानि एवं दद्मः : 0, 34, 567 |
03:39 | औट्पुट् एवं आयातम् : |
03:42 | c is greatest. |
03:45 | The product of a, b and c is zero. |
03:50 | भवन्तः नाना इन्पुट्स् दत्वा अस्य प्रोग्राम्-इत्यस्य एक्सिक्यूट् कृत्वा प्रयतन्ताम् । |
03:55 | अधुना इदमेव प्रोग्राम् C++ मध्ये लिखामः । |
03:59 | अहं प्रोग्राम् इतीदं पूर्वमेव रचितवानस्मि । भवन्तं तत्र नयामि । |
04:03 | अत्र C++ मध्ये कोड् वर्तते । |
04:06 | तदेव प्रोग्राम् C++ मध्ये कर्तुम्, अस्माभिः परिवर्तनानि कार्याणि । |
04:11 | अत्र हेडर् फ़ैल् मध्ये परिवर्तनम् आवश्यकम् । |
04:14 | using स्टेट्मेण्ट् उपयुक्तम् अत्र , |
04:18 | अपि चात्र इन्पुट् तथा औट्पुट् स्टेट्मेण्ट्स् मध्ये भेदः वर्तते । |
04:21 | ओपरेटर्स् इतीमानि C मध्ये यथा तथैव प्रवर्तन्ते । |
04:25 | Save उपरि नुदन्तु । |
04:27 | दृढीकुर्वन्तु यत्, सञ्चिका .cpp (dot cpp) एक्स्टेन्शन् युता सेव् जाता इति । |
04:31 | Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु । |
04:36 | प्रोग्राम् इतीदं कम्पैल् कर्तुं g++ logical.cpp space minus o space log1 इति टङ्कयित्वा Enter नुदन्तु । |
04:49 | एक्सिक्यूट् कर्तुं ./log1 (dot slash log1) इति टङ्कयन्तु । |
04:53 | Enter नुदन्तु । |
04:56 | वयं मूल्यानि : 0, 34, 567 इति दद्मः । |
05:02 | पश्यामः यत् C प्रोग्राम् इव् औट्पुट् मिलितम् । |
05:05 | नाना इन्पुट्स् समूहेन प्रोग्राम् इतीदम् एक्सिक्यूट् कृत्वा प्रयत्नः भवेदस्माभिः । |
05:10 | वयमधुना आगमिष्यमाणानि एरर्स् पश्यामः । |
05:12 | एडिटर् प्रति गमिष्यामः । |
05:16 | यदि वयं ब्रेकेट् स्थापितुं विस्मृतवन्तः । |
05:20 | इदं डिलीट् कुर्वन्तु । |
05:26 | किं भविष्यतीति पश्याम । प्रोग्राम् इतीदं save कुर्वन्तु । |
05:30 | टर्मिनल् प्रति आगच्छन्तु । |
05:32 | कम्पैल् तथा एक्सिक्य़ूट् कुर्वन्तु । |
05:38 | एरर् पश्यामः : |
05:41 | Expected identifier before '(' token. |
05:45 | यतो हि वयं द्वे एक्स्पेश्शन्स् प्राप्तवन्तः । |
05:48 | अस्माभिः ते AND ओपरेटर् द्वारा, एकैव एक्स्प्रेश्शन् इव परीक्षणीये । |
05:53 | अधुना वयं अस्माकं प्रोग्राम् प्रति गत्वा दोषपरिमार्जनं कुर्मः । |
05:57 | अतः ब्रेकेट्स् इतीमानि अत्र तथा अत्र स्थापयामः । |
06:04 | Save नुदन्तु । |
06:06 | टर्मिनल् प्रति आगच्छन्तु । |
06:09 | पूर्ववत् कम्पैल् तथा एक्सिक्यूट् कुर्वन्तु । |
06:14 | अतः इदं कार्यं करोति । |
06:22 | पाठसारं अवलोकमहै । |
06:24 | अस्मिन् पाठे वयं इमान् ज्ञातवन्तः * Logical AND, तद्यथा ((a > b) && (a > c)) |
06:32 | Logical OR
तद्यथा (a == 0 || b == 0 || c == 0) |
06:39 | पाठनियोजनम् - |
06:41 | यूसर् द्वारा द्वे नम्बर्स् इन्पुट् प्राप्तुम् एकं प्रोग्राम् लिखन्तु । |
06:44 | NOT ओपरेटर् उपयुज्य द्वे नम्बर्स् समे वा इति परीक्ष्यताम् । सूचना (a != b) |
06:54 | अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु । |
06:57 | इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति । |
06:59 | उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु । |
07:03 | स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति । |
07:07 | ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति । |
07:11 | अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु । |
07:18 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति । |
07:21 | इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति । |
07:27 | अधिकविवरणम् |
07:30 | spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते । |
07:37 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |