Avogadro/C4/File-Extensions/Sanskrit
From Script | Spoken-Tutorial
Revision as of 19:50, 20 December 2019 by NaveenBhat (Talk | contribs)
|
|
00:01 | File Extensions इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
00:05 | अस्मिन् पाठे वयं, सङ्गणीकृत-रसायनिक-संविधिभ्यःGAMESS (गेम्स्), Gaussian (गोसियन्), MOPAC (मो पेक्), NWChem (N W केम्) इत्यादिभ्यः इन्पुट्-फ़ैल् रचयितुम्, |
00:18 | अपि च GAMESS (गेम्स्) तथा Gaussian (गोसियन्) सोफ़्ट्वेर्स् द्वारा रचितानि औट्पुट् फ़ैल्स् उपयुज्य, 'मोलेक्युलार् आर्बिटल्स्' तथा गणितानि 'ऐ आर् स्पेक्ट्रम्' इतीमानि दृष्टुं ज्ञास्यामः । |
00:28 | वयमत्र, Ubuntu Linux OS 14.04 आवृत्तिः तथा Avogadro 1.1.1. आवृत्तिः इतीमे उपयुञ्ज्महे । |
00:38 | पाठस्यास्य अभ्यासाय भवद्भ्यः Avogadro इण्टर्फ़ेस् इत्यस्य ज्ञानमावश्यकम् । |
00:43 | न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु । |
00:49 | अस्मै पाठाय आवश्यकाः उदाहरणसञ्चिकाः, कोड् फ़ैल् रूपेण दत्ताः । |
00:55 | कृपया ताः अवचित्य डेस्क्टोप् मध्ये एकस्मिन् सञ्चये रक्षन्तु । |
01:00 | अहमत्र, अवोगोड्रो गवाक्षमुद्घाटितवानस्मि । |
01:04 | Build मेन्यू इत्यस्मात्, Insert fragment लैब्ररी उपयुज्य, एकं बेंज़ीन् अणुं लोड् कुर्वन्तु । |
01:12 | टूल् बार् मध्यस्थं Auto-optimization tool उपयुज्य, जोमेट्रि इतीदं ओप्टिमैस् कुर्वन्तु । |
01:20 | Extensions मेन्यू इत्यस्योपरि नुदन्तु । |
01:23 | अवोगोड्रो उपयुज्य , प्रसिद्धानि कोड्स्,
GAMESS (गेम्स्) Gaussian (गोशियन्) MOLPRO (मोल्प्रो) MOPAC (मो पेक्) Q-CHEM (क्यू-केम् ) इत्यादिभ्यः इन्पुट्-फ़ैल् रचना साध्या । |
01:36 | Gaussian विकल्पं नुदन्तु । एकं ग्राफ़िकल् डेटा इन्पुट् डैलाग् बोक्स् उद्घट्यते । |
01:43 | गोशियन् प्रोग्राम् इत्यस्मै, इन्पुट् फ़ैल् कथं रचितव्यमिति अहं दर्शयिष्यामि । |
01:49 | अस्माभिः डैलाग् बोक्स् मध्ये दर्शितानां आवश्यकानां सूच्यांशानां पूरणम् आवश्यकमस्ति । |
01:55 | 'अवोगोड्रो' इत्यनेन, स्वतः मोलेक्यूलार् आर्बिटल्स् इत्येतेषां गणनम् अशक्यम् । |
01:59 | अतः, बेंज़ीन् अणोः मोलेक्युलार् ओर्बिटल्स् दृष्टुं, वयमेकं इन्पुट्-फ़ैल् रचयाम । |
02:05 | Gaussian Input डैलाग्-बोक्स् मध्ये, Title इतीदं Benzene hyphen MO इति टङ्कयन्तु । |
02:11 | Calculation इति ड्रोप्-डौन् तः, Frequencies इतीदं चिन्वन्तु ।
Processors इतीदं 1 इति, Theory इतीदं B3LYP इति, Basis सेट् इतीदं 6-31G(d) इति, Charge इतीदं शून्यम् इति, Multiplicity इतीदं 1 इति, Output इतीदं Standard इति, Format इतीदं cartesian इति च सेट् कुर्वन्तु । checkpoint चेक् बोक्स् इतीदं चेक् क्रियताम् । |
02:40 | डैलाग्-बोक्स् इत्यस्याधः, इन्पुट् फ़ैल् इत्यस्य प्रीव्यू दृश्यते । |
02:45 | भवन्तः विकल्पान् परिवर्तयन्ति चेत्, इदम् अप्-डेट् जायते । |
02:49 | Generate गण्डस्योपरि नुदन्तु । |
02:52 | Save input Deck इति डैलाग् बोक्स् उद्घट्यते । |
02:56 | रचितं गोसियन् इन्पुट् फ़ैल् इतीदं, dot com एक्स्टेन्शन् (extension) इत्यनेन सह सेव् जायते । |
03:02 | फ़ैल् नेम् इतीदं Benzene इति टङ्कयित्वा तस्य लोकेशन् इतीदं Desktop इति चिन्वन्तु । Save गण्डस्योपरि नुदन्तु । |
03:10 | सञ्चिका, डेस्क्टोप् मध्ये Benzene.com इति रक्श्यते । इमां सञ्चिकां, gedit मध्ये उद्घाटयन्तु । |
03:18 | अधुना, सञ्चिकां Gaussian सोफ़्ट्वेर् प्रोग्राम् इत्यस्मै, इन्पुट् फ़ैल् इति उपयोक्तुं शक्नुमः । |
03:24 | Gaussian सोफ़्ट्वेर् विषयम् अधुना पश्याम । |
03:28 | Gaussian इतीदं, सङ्गणीकृतरसायनशास्त्रार्थं विद्यमानं कम्प्यूटर् प्रोग्राम् वर्तते । |
03:32 | इदं, Gaussian Inc इत्यस्मात्, लैसेन्स् प्राप्तं सोफ़्ट्वेर् वर्तते । अस्य विषये अधिकविवरणं http://www.gaussian.com/ लिङ्क् मध्ये वर्तते । |
03:41 | Avogadro विण्डो प्रति गच्छन्तु । संवादपेटिकायाः पिधानं कुर्वन्तु । |
03:46 | वयमधुना GAMESS प्रोग्राम् इत्यस्मै, इन्पुट् फ़ैल् रचना कथमिति जानाम । |
03:51 | एकं नूतनं गवाक्षम् उद्घाटयन्तु । Tools मेन्यू मध्ये New इत्यस्योपरि नुदन्तु । |
03:56 | Draw tool इतीदमुपयुज्य, जलस्य अणुं रचयन्तु । Element इतीदं Oxygen इति परिवर्तयन्तु । |
04:01 | पेनल् इत्यस्योपरि नुदन्तु । auto-optimization tool इतीदमुपयुज्य जोमिट्रि इत्यस्य ओप्टिमैसेशन् कुर्वन्तु । |
04:08 | Extensions मेन्यु इतीदं नुदन्तु । सब्-मेन्यू तः GAMESS >> Input generator इतीदं चिन्वन्तु । |
04:16 | GAMESS Input इति डैलाग् बोक्स् उद्घट्यते । अत्र, Basic setup अपि च Advanced setup इति द्वे टेब्स् स्तः । |
04:24 | गोसियन् इन्पुट् फ़ैल् इत्यस्मै यथा कृतं तथा, आवश्यकान् सूच्यांशान् पूरयन्तु । |
04:29 | Basic Setup इत्यस्याधः, Calculate फ़ील्ड् मध्ये वयं, Equilibrium Geometry (इक्विलिब्रियम् जोमेट्रि) इतीदं चिनुमः । |
04:36 | RHF, Restricted Hartee Fock (रिस्ट्रिक्टेड् हार्टी फ़ोक्) इतीदं, वेव्-फ़ङ्क्षन् इत्यस्यान्वेषणाय विद्यमानं सङ्ख्यात-विधानमस्ति । |
04:44 | जलस्याणुः लघुरस्तीत्यतः , वयं Basis सेट् इतीदं 6-31G(d,p) इति चिनुमः । |
04:52 | In मध्ये gas पेज्, पश्चात् singlet इतीदञ्च चिन्वन्तु । यतोऽहि सर्वाणि एलेक्ट्रोन्स् युग्मानि सन्ति । |
04:58 | जलमेकं तटस्थाणुरस्ति । अतः , charge इतीदं neutral इति परिवर्तयन्तु । |
05:02 | ओप्टिमैसेशन् इत्यस्य नियन्त्रणाय, इतोऽपि केचन पेरामीटर्स् संयोजयितुं, Advanced Setup इतीदं नुदन्तु । |
05:08 | भवद्भ्यः फ़ङ्क्षन्स् सेट् परिवर्तयितुं, Basis इत्यस्योपरि नुदन्तु । |
05:12 | Data इत्यस्योपरि नुदन्तु । |
05:14 | Title इतीदं, water-MO इति टङ्कयन्तु । |
05:18 | Point Group इतीदं CnV इति परिवर्तयन्तु । |
05:21 | Order of Principal Axis इतीदं 2 इति परिवर्तयन्तु । |
05:24 | सद्यः, डीफ़ोल्ट् पेरामीटर्स् इतीमानि तथैव स्थापयामः । |
05:29 | Generate इत्यस्योपरि नुदन्तु । Save Input deck इतीदमुद्घट्यते । |
05:34 | उत्सर्गतया, फ़ैल् एक्स्टेन्शन्(extension) dot inp वर्तते । |
05:38 | सञ्चिकानाम Water इति टङ्कयन्तु । |
05:42 | फ़ैल् लोकेशन् इतीदं Desktop इति चिन्वन्तु । Save button नुदन्तु । |
05:48 | GAMESS इन्पुट् फ़ैल्, डेस्क्टोप् उपरि Water.inp इति रक्षितम् । |
05:55 | अधुना GAMESS विषयं जानाम : |
05:57 | GAMESS इत्यस्य विस्तृतरूपम् : General Atomic and Molecular Electronic Structure System
(GAMESS) इतीदमेकम् अब् इनिशियो क्वाण्टम् केमिस्ट्रि पेकेज् वर्तते । |
06:08 | इदं शैक्षणिकोपयोक्तृभ्यः औद्यमिकोपयोक्तृभ्यः, निश्षुल्कम् उपलभ्यते । |
06:14 | अस्य इन्स्टालेशन् डौन्लोड् विषये अधिकविवरणम् अधस्तनपर्चन्याम् उपलभ्यते । http://www.msg.ameslab.gov/gamess/download.html |
06:20 | वयमधुना, GAMESS तथा Gaussian प्रोग्राम् इत्येतेभ्यः इन्पुट् फ़ैल्स् रचितवन्तः । |
06:26 | इमानि इन्पुट् फ़ैल्स्, तत्सम्बद्ध प्रोग्राम्स् मध्ये लोड् भवितुं सिद्धानि सन्ति । |
06:31 | कृपया अवलोक्यताम् : Gaussian एकं कमर्शियल् सोफ़्ट्वेर् वर्तते । अतः, इन्पुट् फ़ैल् लोड्कर्तुम् मया इण्टर्फ़ेस् दर्शयितुं न शक्यते । |
06:41 | पूर्वोक्तवत्, GAMESS निश्शुल्कं सोफ़्ट्वेर् वर्तते । |
06:45 | आसक्ताः, GAMESS सोफ़्ट्वेर् इत्यस्यावचयनं अधस्तन पर्चन्याः कर्तुमर्हन्ति । अपि च औट्पुट् फ़ैल् प्राप्तुं, इन्पुट्फ़ैल् लोड् कर्तुं शक्नुवन्ति । |
06:53 | मयि डेस्क्टोप् इत्यत्र, गोशियन् तथा गेम्स् इत्येतेषां औट्पुट् फ़ैल्स् विद्यन्ते । |
06:58 | अस्मिन् पाठेऽहं, इमानि फ़ैल्स्, कोड् फ़ैल् रूपेण दत्तवानस्मि । |
07:03 | वयमिमानि औट्पुट् फ़ैल्स्, अवगोड्रो मध्ये पश्याम । |
07:07 | एकं नूतनम् अवगोड्रो गवाक्षम् उद्घाटयन्तु । |
07:10 | टूल् बार् मध्ये, open ऐकान् नुदन्तु । |
07:13 | फ़ैल् लोकेशन् गत्वा, Benzene.log इतीदं चिन्वन्तु । |
07:18 | फ़ैल् उद्घट्यते । वयं बेंज़ीन् इत्यस्य रचनां पेनल् मध्ये पश्यामः । |
07:24 | Benzene.log इतीदं, Gaussian उपयुज्य रचितमासीत् । |
07:28 | इदं मोलेक्युलार् ओर्बिटल्स्, C-C अपि च C-H बोण्ड् इत्यस्य विकासितायाः विवरणं प्राप्तवदस्ति । |
07:36 | कदाचित्, लोग् फ़ैल् इतीदम्, ओर्बिटल् विवरणं न दर्शयति । |
07:40 | तादृशसन्दर्बे, कोड् फ़ैल्स् मध्ये दत्तां .fchk सञ्चिकाम् उद्घाटयन्तु । |
07:47 | ओर्बिटल्स् दृष्टुं, आवल्याम् orbital इत्यस्य नाम्नः उपरि नुदन्तु । |
07:54 | भवद्भिः ओर्बिटल् डिस्प्ले परिवर्तनीयञ्चेत्, Display types मध्ये Surfaces इति विकल्पस्य अग्रे विद्यमानं स्पेनर् चिह्नं नुदन्तु । |
08:02 | 'ओपेसिटि' इत्यस्य परिवर्तनाय, Surface Setting इति डैलाग् बोक्स् मध्ये विद्यमानं स्लैडर् इतीदं कर्षयित्वा, पेनल् अवलोक्यताम् । |
08:10 | Render इति ड्रोप्-डौन् मध्ये, fill, lines तथा points इति त्रयः विकल्पाः सन्ति । |
08:17 | उत्सर्गतया, ओर्बिटल्स् इतीमानि fill मध्ये निरूपितानि सन्ति । |
08:21 | लोब्स् इत्येतेषां वर्णान् परिवर्तयितुमपि अत्रैकः विकल्पः अस्ति । |
08:25 | positive अपि च negative विकल्पानाम् अग्रे विद्यमानं Color टेब् नुदन्तु । |
08:30 | Select Color इति डैलाग् बोक्स् उद्घट्यते । |
08:33 | यत्किमपि वर्णं चेतुं, तस्योपरि नुत्वा, OK गण्डं नुदन्तु । |
08:38 | पेनल् अवलोक्यताम् । ओर्बिटल्स् इत्येतेषां वर्णः परिवर्तितः । डैलाग् बोक्स् इतीदं क्लोस् कुर्वन्तु । |
08:45 | रचनायाः ओर्बिटल्स् निष्कासयितुं, Display Types मध्ये, Surfaces इति विकल्पम् अन्चेक् कुर्वन्तु । |
08:51 | 'वैब्रेशनल् फ़्रीक्वेन्सिस्' दृष्टुं, Vibrations इति टेब् नुदन्तु । |
08:56 | Vibration विण्डो मध्ये, लिस्ट् मध्ये यत्किमपि फ़्रीक्वेन्सि नुदन्तु । |
09:01 | विण्डो इत्यस्याधः Start Animation गण्डं नुदन्तु । |
09:06 | पेनल् अवलोक्यताम् । C-C तथा C-H बोण्ड्स् अनयोः विकासिता एनिमेट् जायते । |
09:13 | वयं रचनायाः IR स्पेक्ट्रम् इतीदमपि पश्यामः । |
09:17 | Show Spectra इत्यस्योपरि नुदन्तु । |
09:20 | Spectra Visualization (स्पेक्ट्रा विज़ुवलैसेशन्) विण्डो उद्घट्यते । इदं बेंज़ीन् इत्यस्य गणितं IR spectrum इतीदं दर्शयति । |
09:27 | एकं नूतनं गवाक्षम् उद्घाटयन्तु । जलस्याणवे, GAMESS प्रोग्राम् उपयुज्य रचितं लोग्-फ़ैल् उद्घाटयन्तु । |
09:35 | लोग् फ़ैल् इतीदं जलस्य रचनायाः, मोलेक्युलार् ओर्बिटल् इत्यस्य च विवरणेन सह उद्घट्यते । |
09:41 | आवल्यां आर्बिटल् नाम्नः उपरि नुदन्तु । पेनल् मध्ये ओर्बिटल् दृश्यते । |
09:47 | सङ्क्षेपेण, |
09:49 | अस्मिन् पाठे वयं , GAMESS तथा Gaussian सदृशेभ्यः कम्प्युटेशनल् केमिस्ट्रि प्रोग्राम् इत्येतेभ्यः इन्पुट् फ़ैल्स् रचयितुम्, |
09:58 | बेंज़ीन् तथा जलस्याणूनां मोलिक्युलार् ओर्बिटल्स् दृष्टुम्, |
10:04 | गोसि यन् इत्यनेन रचितानि लोग् फ़ैल्स् उपयुज्य, अणूनां गणयितं IR spectrum दृष्टुं ज्ञातवन्तः । |
10:11 | पाठनियोजनार्थम् : दत्तेभ्यः कोड् फ़ैल्स् इत्येतेभ्यः, बेंज़ीन् अणुभ्यः लोग्-फ़ैल् उद्घाटयन्तु । |
10:18 | आवल्याः यत्किमपि एकं Molecular Orbital दर्शयन्तु । |
10:22 | लोब्स् इत्येतेषां डिस्प्ले तथा वर्णञ्च परिवर्तयन्तु । इमेज् इतीदं JPEG फ़ोर्मेट् मध्ये रक्ष्यताम् । |
10:29 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् । |
10:35 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
10:42 | स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
10:48 | अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |