Avogadro/C3/General-Features-in-Avogadro/Sanskrit
From Script | Spoken-Tutorial
Revision as of 08:37, 22 December 2019 by NaveenBhat (Talk | contribs)
Time | Narration |
00:01 | General Features in Avogadro इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् । |
00:08 | पाठेऽस्मिन् वयं, pH मूल्यानि परिवर्त्य, संयुक्तवस्तुषु प्रोटान् स्थानान्तरकरणम्, |
00:16 | क्रिस्टल् रचनायाः लोड् करणम्, |
00:19 | नाना Miller plane इत्येतेषां प्रदर्शनम्, |
00:22 | सूपर् सेल् इत्यस्य रचना, |
00:24 | 'को-ओर्डिनेशन् कम्पौण्ड्' (coordination compounds) इत्येतेषु ज्यामित्याः प्रदर्शनम् अपि च नेनो ट्यूब् इत्यस्य रचनां च ज्ञास्यामः । |
00:31 | अहमत्र, Ubuntu Linux OS, इत्यस्य 14.04 आवृत्तिः, |
00:37 | Avogadro इत्यस्य 1.1.1. अवृत्तिः अनयोरुपयोगं करोमि । |
00:41 | पाठस्यास्य अनुसरणाय भवद्भ्यः, Avogadro इण्टर्फ़ेस् इत्यस्य सम्यग् ज्ञानमावश्यकम् । |
00:47 | न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु । |
00:52 | ट्युटोरियल् मध्ये उपयुक्तानाम् उदाहरणानां सञ्चिकाः कोड् फ़ैल्स् रूपेण दत्ताः । |
00:58 | अहमेकं नूतनं Avogadro विण्डो उद्घाटितवानस्मि । |
01:01 | अहं pH value इतीमानि परिवर्त्य संयुक्तेषु प्रोटान् इत्यस्य स्थानान्तरं विवृणोमि । |
01:07 | तदर्थं, Fragment library इत्यस्मात् एमिनो एसिड्स् लोड् करोमि । |
01:12 | Build मेन्यू उपयुज्य, Fragment library प्रति गच्छन्तु । |
01:16 | Fragment library मध्ये, Amino acids इति सञ्चयं द्विवारं नुदन्तु । |
01:21 | D-alanine.cml (डि-अलनैन् डोट् सि एम् एल्) इतीदं चिन्वन्तु तथा Insert इत्यस्योपरि नुदन्तु । |
01:26 | Insert Fragment डैलाग्-बोक्स् इत्यस्य पिधानं कुर्वन्तु । |
01:30 | रचनां डी-सेलेक्ट् कर्तुं, CTRL, SHIFT तथा A कीलकानि युगपन्नुदन्तु । |
01:34 | रचनां सम्यक्कर्तुं, Navigation टूल् उपयुज्य तद् भ्रामयन्तु । |
01:39 | अहं pH इतीदमुपयुज्य, एमिनो एसिड्स् मध्ये प्रोटोन्स् इत्येतेषां स्थानान्तरं दर्शयामि । |
01:46 | Build मेन्यू गत्वा Add Hydrogens for pH विकल्पं नुदन्तु । |
01:51 | Add Hydrogens for pH इति टेक्स्ट् बोक्स् उद्घट्यते । अत्र, औत्सर्गिकमूल्यं,7.4 वर्तते । |
01:57 | अस्मिन् टेक्स्ट् बोक्स् मध्ये, pH value मूल्यं 7.0 इति परिवर्त्य OK नुदन्तु । |
02:04 | रचना अवलोक्यताम् । कार्बोक्सिलिक् ग्रुप् (COOH), कोर्बोक्सिलेट् अयान् रूपेण परिवर्तितम् । |
02:11 | अमिनो ग्रुप् (NH2), 'प्रोटोनेट्' (NH3+) वर्तते । |
02:15 | Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं चिन्वन्तु । |
02:20 | टेक्स्ट् बोक्स् मध्ये, pH इतीदं 2.0 इति परिवर्तयित्वा, Ok इतीदं नुदन्तु । |
02:26 | कोर्बोक्सिलेट् अयान्, कोर्बोक्सिलिक् ग्रुप् भूत्वा परिवर्तितम् । |
02:31 | Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं चिन्वन्तु । |
02:35 | टेक्स्ट् बोक्स् मध्ये, pH इतीदं 10.0 इति परिवर्तयन्तु । Ok नुदन्तु च । |
02:41 | कोर्बोक्सिलिक् ग्रुप्, कोर्बोक्सिलेट् अयान् भूत्वा परिवर्तितम् । |
02:46 | 'अमिनो ग्रुप्' (NH2), 'डि प्रोटोनेट्' वर्तते । |
02:49 | रचनां निष्कासितुं , Delete कीलकं नुदन्तु । |
02:52 | अधुनाहं, pH इतीदं परिवर्त्य, अमैन्स् मध्ये प्रोटोन्स् इत्येतेषां परिवर्तनं दर्शयामि । |
02:58 | तदर्थमहं Fragment library इत्यस्मात् ethylamine (ईथैलमैन्) रचनां लोड् करोमि । |
03:05 | Insert Fragment संवादपेटिकां निष्कासयन्तु । |
03:09 | रचनां डीसेलेक्ट् कर्तुं, CTRL, SHIFT तथा A कीलकानि युगपन्नुदन्तु । |
03:13 | रचनां सम्यक्कर्तुं , Navigation टूल् इतीदमुपयुज्य तद्भ्रामयन्तु । |
03:18 | Build मेन्यू गत्वा Add Hydrogens for pH इतीदं नुदन्तु । |
03:23 | Add Hydrogens for pH टेक्स्ट्-बोक्स् उद्घट्यते । |
03:27 | टेक्स्ट् बोक्स् मध्ये, pH मूल्यं 7.0 इति परिवर्त्य, OK इतीदं नुदन्तु । |
03:34 | रचना अवलोक्यताम् । 'अमिनो ग्रुप्' इतीदं, 'प्रोटोनेट्' अभवत् । |
03:39 | Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं नुदन्तु । |
03:43 | टेक्स्ट् बोक्स् मध्ये, pH इतीदं 2.0 इति परिवर्त्य OK नुदन्तु । |
03:49 | वयमत्र रचनायां यत्किमपि परिवर्तनं न पश्यामः । |
03:53 | ईथैलमैन्, केवलं प्रत्याम्लमाध्यमे प्रोटोन् स्थानान्तरं दर्शयति । |
03:59 | Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं नुदन्तु । |
04:03 | टेक्स्ट् बोक्स् मध्ये, pH इतीदं 10.0 इति परिवर्त्य OK नुदन्तु । |
04:09 | 'अमिनो ग्रुप्' इतीदं, 'डि प्रोटोनेट्' अभवत् । |
04:12 | अहमधुना Crystal Library इत्यस्मात् क्रिस्टल् रचनायाः लोड् करणम् अपि च कानिचन क्रिस्टल्स्-लक्षणानि दर्शयामि । |
04:20 | एकं नूतनं गवाक्षम् उद्घाटयितुं, टूल् बार् मध्ये New ऐकान् नुदन्तु । |
04:25 | क्रमेण File मेन्यू >> Import >> Crystal गत्वा, Crystal इतीदं चिन्वन्तु । |
04:30 | Insert Crystal इति संवादपेटिका उद्घट्यते । |
04:34 | वयमत्र नाना सञ्चयान् पश्यामः । |
04:37 | halides (हेलैड्स्) सञ्चयं डबल् क्लिक् कुर्वन्तु । |
04:40 | NaCl-Halite.cif (एन् ए सि एल् हेलैड् डोट् सि ऐ एफ़्) सञ्चिकां चित्वा Insert उपरि नुदन्तु । |
04:47 | Insert Crystal संवादपेटिकायाः पिधानं कुर्वन्तु । |
04:51 | सम्यग् दृष्टुम् अत्र Tool Settings अपि च Display Settings इतीमानि क्लोस् कुर्वन्तु । |
04:58 | सोडियम् क्लोरैड् इत्यस्य क्रिस्टल् रचना, पेनल् उपरि दर्शिता । |
05:02 | रचनया सह, तस्याः सेल् पेरामीटर्स् च दर्श्यते । |
05:07 | पेनल् इत्यस्य उपरि वामपार्श्वे भवन्तः, सोडियम् क्लोरैड् क्रिस्टल् इत्यस्य :
Lattice Type (लेटिस् टैप्), Spacegroup (स्पेस् ग्रुप्) तथा Unit cell volume इतीमानि दृष्टुं शक्नुवन्ति । |
05:18 | अधुना क्रिस्टल् इत्यस्यार्थं Miller plane इतीमानि विवृणोमि । |
05:22 | तत्पूर्वं, मिल्लर् ईण्डसिस् विषयं सङ्क्षेपेण विवृणोमि । |
05:28 | Miller Indices, सङ्ख्यात्रयस्य एकः समाहारः (hkl) वर्तते । |
05:34 | क्रिस्टल् सिस्टम् मध्ये दिशः तथा अन्तस्थानि प्लेन्स् सूचनार्थम् इदमुपयुज्यते । |
05:41 | अधुना सोडियम् क्लोरैड् क्रिस्टल् मध्ये मिल्लर् प्लेन्स् पश्याम । |
05:45 | View मेन्यू गत्वा, Crystal View Options इतीदं नुदन्तु । |
05:51 | Crystal View Options मेन्यू, दक्षिणपार्श्वे लोड् जायते । |
05:56 | Miller Indices इति रेडियो बटन् नुदन्तु । |
06:00 | अहं 'h', 'k', 'l' इत्येतेषां मूल्यानि, 2, 3, 2 इति परिवर्तयामि । |
06:07 | क्रिस्टल् मध्ये प्लेन्स् इत्येतेषु, परमाणूनां स्थानेषु च परिवर्तनं पश्यन्तु । |
06:13 | अधुना सूपर् सेल् इत्यस्य रचना कथमिति विवृणोमि । |
06:17 | Build मेन्यू गत्वा, Super Cell Builder इतीदं चिन्वन्तु । |
06:22 | Super Cell Parameters इति डैलाग् बोक्स् उद्घट्यते । |
06:26 | Super Cell Option इत्येतेषु, यूनिट् सेल् पेरामीटर्स् इतीमानि 'A', 'B' तथा 'C' च वयं परिवर्तयितुं शक्नुमः । |
06:34 | अहं 'A', 'B' अपि च 'C' फ़ील्ड्स् इत्येतेषां मूल्यानि '2', '2', '2' इति परिवर्तयामि । |
06:43 | पश्चात् Generate cell इतीदं नुदन्तु । संवादपेटिकायाः पिधानाय Close इतीदं नुदन्तु । |
06:50 | सम्यग् दृष्टुं रचनां ज़ूम् कुर्वन्तु । |
06:55 | पेनल् मध्ये, क्रिस्टल् लेटिस् इतीदं दर्शितम् । |
06:59 | अहमधुना Miller Indices इतीदं 3, 2, 3 इति परिवर्तयामि । |
07:05 | Navigation टूल् उपयुज्य सेल् इतीदं परिभ्रामयन्तु । |
07:09 | अत्र बिन्दुभिः रचिता आकृतिः, प्लेन् इतीदं दर्शयति । |
07:13 | भवन्तः 'h', 'k', 'l' इत्यस्य मूल्यानि परिवर्तयित्वा नाना प्लेन्स् दृष्टुं शक्नुवन्ति । |
07:20 | अहमधुना हेक्सामैन् कोबाल्ट् थ्री इत्यस्मै, ओक्टाहैड्रल् रेखाचित्रं रचयामि । |
07:26 | एकं नूतनं गवाक्षम् उद्घाटयितुं, टूल् बार् मध्ये New ऐकान् नुदन्तु । |
07:31 | हेक्सामैन् कोबोल्ट् थ्री इतीदं रचयितुं, Draw Tool ऐकान् नुदन्तु । |
07:37 | Element इति ड्रोप् डौन् मध्ये, Other इतीदं चिन्वन्तु । |
07:41 | Periodic table विण्डो उद्घट्यते । |
07:44 | टेबल् मध्ये Cobalt इतीदं चिन्वन्तु । |
07:47 | Periodic table विण्डो इत्यस्य पिधानं कुर्वन्तु । |
07:50 | पेनल् इत्यस्योपरि नुदन्तु । Element ड्रोप डौन् तः, Nitrogen इतीदं चिन्वन्तु । |
07:56 | कोबाल्ट् परमाणोरुपरि, षट् बोण्ड्स् रचयितुं क्लिक् कृत्वा कर्षयन्तु । |
08:03 | प्रत्येकस्मै नैट्रोजन् इत्यस्मै, द्वे हैड्रोजन्स् आश्लिष्यतः इति ज्ञायते । |
08:08 | 'हेक्सामैन् कोबाल्ट् थ्री' रचनायां, प्रत्येकस्मै नैट्रोजन् इत्यस्मै, त्रीणि हैड्रोजन्स् आश्लिष्यन्ति । |
08:15 | Element ड्रोप् डौन् तः, Hydrogen इतीदं चिन्वन्तु । |
08:19 | सर्वेषां नैट्रोजन् परमाणूनाम् उपरि नुत्वा कर्षयन्तु । |
08:25 | पेनल् इत्यस्योपरि, 'हेक्सामैन् कोबोल्ट् थ्री' रचना सिद्धा अस्ति । |
08:29 | Display Settings मेन्यू उद्घाटयितुं, Display Settings गण्डस्योपरि नुदन्तु । |
08:36 | अहमधुना 'हेक्सामैन् कोबाल्ट् थ्री' रचनां, ओक्टाहैड्रल् रेखाचित्रं दर्शयामि । |
08:42 | तदर्थमहं Polygon Display Type इतीदमुपयुञ्जे । |
08:46 | Polygon Display Type इतीदं सक्रियं नास्ति चेत्, Add गण्डं नुदन्तु । |
08:52 | Polygon Display Type चेक् बोक्स् नुदन्तु । |
08:56 | ओप्टिमैस् कर्तुम्, टूल्-बार् मध्ये Auto Optimization Tool इतीदं चिन्वन्तु । |
09:01 | Force Field ड्रोप् डौन् मध्ये, UFF इतीदं चिन्वन्तु । |
09:06 | ओप्टिमैज़् कर्तुम्, Start गण्डं नुदन्तु । |
09:11 | Auto optimization क्रियायै विरामं दातुं, Stop नुदन्तु । |
09:16 | ओक्टाहैड्रल् रेखाचित्रं दृष्टुं , Navigation टूल् उपयुज्य रचनां भ्रामयन्तु । |
09:22 | एवमेवेदम्, 'अयोडिन् हेप्टाफ़्लोरैड्' इत्यस्य, 'पेण्टागोनल् बै पिरामिडल्' रेखाचित्रमस्ति । |
09:29 | वयमधुना Build मेन्यू मध्ये, Nanotube builder इत्येकम् अन्यं विशेषं पश्यामः । |
09:35 | 'नेनो ट्यूब्' इतीदं, 'नेनो मीटर् स्केल् ट्यूब्' सदृशा रचना वर्तते । |
09:40 | Boron carbon nitrogen , Boron carbon अपि च Carbon इमानि नाना नेनो-ट्यूब्स् इत्येतेषाम् उदाहरणानि सन्ति । |
09:50 | कार्बन् नेनो ट्यूब् इतीदं, दण्डगोलाकारस्य, कार्बन् रचनायाः एकं लघुप्रतिरूपमस्ति । इदम् अश्रौ षड्भुजाकारस्य ग्राफ़ैट् अणुं प्राप्तवदस्ति । |
10:01 | एकं नूतनं गवाक्षमुद्घाटयितुं, टूल्-बार् मध्ये New ऐकान् नुदन्तु । |
10:06 | नेनो ट्यूब् सम्यग् दृष्टुं, अहं बेक्-ग्रौण्ड् इतीदं नीलवर्णाय परिवर्तयामि । |
10:12 | View प्रति, पश्चात् Set Background Color प्रति गच्छन्तु । |
10:17 | Select Color इति डैलाग् बोक्स् उद्घट्यते । |
10:21 | मञ्जूषायां, नीलवर्णं विनोतु । Ok इतीदं नुदन्तु । |
10:26 | Build मेन्यू गत्वा, Nanotube Builder इतीदं चिन्वन्तु । |
10:30 | पेनल् इत्यस्याधः, Nanotube Builder मेन्यू उद्घट्यते । |
10:35 | Nanotube Builder मेन्यू दृष्टुमहम्, Avogadro गवाक्षं रीसैस् करोमि । |
10:40 | नेनो ट्यूब् इत्यस्य प्रकारान् अभिज्ञातुं, भवन्तः 'कैरालिटि इण्डेक्स्' n, m इतीमानि संयोजितुम् अर्हन्ति । |
10:47 | अहम् इण्डेक्स् मूल्यम् n तथा m इतीमानि, 4 तथा 4 इति ददामि । |
10:53 | Length इतीदं 4.00 इत्यस्मै परिवर्तयन्तु ।(four point zero and zero). |
10:57 | Unit फ़ील्ड् इतीदं, Periodic units इति सेट् कुर्वन्तु । |
11:01 | नेनो ट्यूब् मध्ये, डबल् बोण्ड्स् दर्शयितुं, Find double bonds इति चेक्बोक्स् नुदन्तु । |
11:08 | पश्चात् Build इत्यस्योपरि नुदन्तु । |
11:10 | रचनां डीसेलेक्ट् कर्तुं, CTRL + SHIFT + A कीलकानि युगपन्नुदन्तु । |
11:15 | सम्यग् दृष्टुं , Navigation टूल् उपयुज्य नेनो ट्यूब् इतीदं भ्रामयित्वा ज़ूम् कुर्वन्तु । |
11:21 | पश्चात्, 6,6 इण्डेक्स् मूल्ययुतम् एकं नेनो-ट्यूब् रचयामि । |
11:27 | Build मेन्यू गत्वा, Nanotube Builder इतीदं चिन्वन्तु । |
11:31 | n तथा m मूल्यानि 6 तथा 6 इति परिवर्तयन्तु । पश्चात् Build इत्यस्योपरि नुदन्तु । |
11:40 | एकस्योपरि अन्यम् विद्यमाने द्वे नेनो ट्यूब्स् अवलोक्येताम् । |
11:44 | नेनो ट्यूब्स् ओप्टिमैस् कर्तुम् , Auto Optimization Tool इतीदं नुदन्तु । |
11:50 | Force Field ड्रोप् डौन् मध्ये, MMFF94 इतीदं चिन्वन्तु । |
11:56 | ओप्टिमैस् कर्तुम्, Start गण्डं नुदन्तु । |
12:02 | auto optimization क्रियायै विरामं दातुम्, Stop इतीदं नुदन्तु । |
12:07 | रचनां डीसेलेक्ट् कर्तुम्, CTRL + SHIFT + A कीलकानि युगपन्नुदन्तु । |
12:11 | पेनल् इत्यस्योपरि, भित्तिद्वययुतम् एकं नेनो ट्यूब् दर्शितम् । |
12:16 | सम्यग् दृष्टुं, Navigation tool इतीदमुपयुज्य नेनो ट्यूब् भ्रामयन्तु । |
12:21 | अधुना नेनो ट्यूब् मध्ये, कोर्बन् हेक्सोगोन् रिङ्ग्स् दर्शयामि । |
12:26 | Display Types मेन्यू मध्ये, Ring चेक् बोक्स् चिन्वन्तु । |
12:31 | 'कोर्बन् हेक्सागोन्स्' दृष्टुं, Navigation टूल् उपयुज्य 'नेनो ट्यूब्' इतीदं भ्रामयन्तु । |
12:38 | सङ्क्षेपेण, |
12:40 | पाठेऽस्मिन् वयं : |
12:43 | pH मूल्यानि परिवर्त्य, संयुक्तवस्तुषु प्रोटोन् स्थानान्तरकरणम्, |
12:48 | 'क्रिस्टल् लैब्ररि' तः क्रिस्टल् रचनाः लोड् कर्तुम्, |
12:51 | नाना मिल्लर् प्लेन्स् दर्शयितुम्, |
12:54 | सूपर् सेल्स् रचयितुम् , |
12:56 | 'को-ओर्डिनेशन् कम्पौण्ड्स्' इत्येतेषु, ज्यामित्याः प्रदर्शनं तथा नेनो ट्यूब्स् रचना – इमान् विषयान् ज्ञातवन्तः । |
13:03 | अत्र पाठनियोजनम् :
सिल्वर् क्लोरैड् (AgCl) क्रिस्टल् स्ट्रक्चर् इतीदं लोड् कृत्वा तस्य मिल्लर् प्लेन्स् दर्शयन्तु । |
13:09 | 'को-ओर्डिनेशन् लैब्ररि' इत्यस्मात् स्ट्रक्चर्स् लोड् कृत्वा तस्य ज्यामितिं प्रदर्शयन्तु । |
13:14 | 'कैरालिटि इण्डेक्स्' 9,9 इत्यनेन सह नेनो-ट्यूब् रचयन्तु । |
13:19 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् । |
13:27 | स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु । |
13:34 | स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
13:41 | अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |