GIMP/C2/Brushes/Sanskrit
From Script | Spoken-Tutorial
Revision as of 21:49, 25 September 2019 by Sandhya.np14 (Talk | contribs)
Time | Narration |
00:23 | Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf steinort इदं Bremen इति Northern Germany देशे ध्वन्यङ्कनं कृतवान् अस्ति । |
00:32 | पूर्वस्मिन् पाठे Drawing tools इति विषये अहं कांश्चन विषयान् दर्शितवान् । कथञ्चित् apply jitter इतीदं कीलकं परित्यक्तम् । |
00:43 | अहं तत् कृतवान् इति स्मरामि, किन्तु, सम्पादनवेलायां तत् परित्यक्तं भवेत् । |
00:51 | यदा अहम् अत्र रेखाः चित्रयामि, तदा इमे मृदुकोणयुक्ताः अपि च लेखन्या कृताः इव भाति इति भवान् पश्यति । |
01:09 | इदानीम् अहं Apply jitter इतीदं चित्वा मूल्यम् अर्धं प्रति व्यवस्थापयामि । रङ्गसेचनकूर्चः किञ्चित् विग्नं (jitters) भवति अपि च सीमा पूर्ववत् समं नास्ति इति भवान् पश्यति । |
01:29 | वयं मूल्यं वर्धयामः । अपि च इदानीम् अत्र मया रचितरेखाः परितः वितरितबिन्दूनां मेघं भवान् द्रष्टुं शक्नोति । |
01:41 | अपि च इदमेव jitter इति कीलकस्य रहस्यम् । |
01:55 | अत्र अन्यत् समीकरणीयम् अस्ति । |
02:00 | Pen अथवा Brush अपि च Eraser इत्यनयोः साधनयोः मध्ये एकः मुख्यभेदः अस्ति इति Hansen महाभागः मह्यं लिखितवान् । |
02:06 | इदं क्रियायां द्रष्टुं, foreground layer इत्यस्य उपरि transparency इत्यस्मिन् अर्थात् Alpha channel इतीदं सक्रियं कृत्वा एवमेव किमपि रङ्गसेचनं करोतु । |
02:15 | pen अथवा brush इतीदं चितेन background colour इत्यनेन, तेन वर्णेन रङ्गसेचनं करोतु । किन्तु, Eraser इतीदं वर्णं निष्कास्य, तत् पारदर्शकं करोति । |
02:25 | अस्तु, तत् वयं प्रयतामहे । |
02:27 | मम पुरोदेशवर्णः कृष्णः, पृष्ठदेशवर्णः नारङ्गः च अस्ति । अपि च स्तरस्य नाम विस्थूले (bold) अस्ति इति भवान् द्रष्टुं शक्नोति, alpha channel इतीदं चित्रे नास्ति इत्यर्थः । |
02:41 | अतः, अहं alpha channel इतीदं संयुतनं करोमि (switch on) । |
02:47 | अतः, Eraser इतीदं चिनुमः । |
02:54 | अत्र, मम पुरोदेश-पृष्ठदेशयोः च वर्णः समानः अस्ति । अतः अहं Ctrl+click इतीदं नुत्वा नारङ्गं पृष्ठदेशवर्णत्वेन चिनोमि । |
03:12 | अतः, मूलतः पृष्ठदेशवर्णेन वयं रङ्गसेचनं कुर्वन्तः । अपि च इदानीम् अहं स्तरस्य उपरि दक्षिणनोदनं कृत्वा Add Alpha Channel इतीदं चित्वा alpha channel On इतीदं करोमि । इतः परं नाम कदापि विस्थूले (bold) न भवति इति भवान् द्रष्टुं शक्नोति । अपि च इदानीम् Eraser इतीदं चिनोमि । |
03:32 | पुरोदेशः पृष्ठदेशः च वर्णः मार्जितः इति भवान् द्रष्टुं शक्नोति । |
03:41 | अहम् इदानीं Paintbrush अपि च रङ्गसेचनं कर्तुं कूर्चाणां चयनम् इति विषये अधिकं वक्तुम् इच्छामि । |
04:01 | अतः, Meet The GIMP इत्यस्मिन् पाठे वयं brushes इति विषये चर्चयामः । |
04:07 | Pencil इत्यनेन आरभ्य, मम चिन्तनानुसारं Dodge अपि च Burn इति साधनपर्यन्तम् अपि Brushes इतीदं बहुभिः साधनैः उपयुज्यमानम् अस्ति । |
04:17 | Ink इतीदं परित्यज्य मध्ये विद्यमानसाधनानि इमानि कूर्चम् उपयुञ्जते । |
04:24 | अतः, अहम् इदानीं Paintbrush इतीदम् उदाहरणत्वेन चिनोमि । |
04:30 | Brushes इति संवादपेटिकायाः नोदनेन अथवा साधनपेटिकायां Paintbrush इतीदं चित्वा Brush इति विकल्पस्य चयनेन भवान् कूर्चं चेतुं शक्नोति । अपि च कूर्चसमूहं प्राप्तुं शक्नोति । |
04:47 | अत्र परितः लघु चिह्नानि सन्ति, यथा कूर्चः अत्र दर्शितः तथा लघु नास्ति इति plus इति चिह्नं सूचयति । अपि च यदा अहं तस्य उपरि नुदामि तदा बृहत् कूर्चं पश्यामि । |
05:03 | इदं रक्तत्रिकोणं जीवितकूर्चः (animated brush) अस्ति । |
05:18 | इदम् अत्र प्रयतामहे । |
05:27 | इदं किञ्चित् अङ्कनीचित्रणम् इव दृश्यते । अपि च अयम् अङ्कनीरेखान्यासः (pencil sketch) इति कथ्यते । |
05:36 | नीलवर्णे विद्यमानाः parametric brushes इति कथ्यन्ते । |
05:41 | एताः मूलतः गणितीयदशाः सन्ति, इदम् अहं किञ्चित् कालानन्तरं भवते दर्शयामि । |
05:49 | केचन अत्र आदर्शकूर्चाः (standard brushes) सन्ति । |
05:52 | अस्मिन् कूर्चे, कृष्णभागः पुरोदेशवर्णेन पूरितः अस्ति । सन्दर्भे अस्मिन् अयं कृष्णः । अपि च एतेषु आदर्शकूर्चेषु श्वेतभागः न परिवर्तितः । अतः, अहम् अत्र रङ्गसेचनं कर्तुं शक्नोमि । |
06:09 | अपि च, यदि अहं मम पुरोदेशवर्णं रक्तं प्रति परिवर्तयामि तर्हि रङ्गसेचने लघु चित्रं रक्तं भवति । अपि च अयं श्वेतः पृष्ठदेशरूपेण तिष्ठति । |
06:29 | मरिचवर्णकूर्चवत् (pepper color brush) अत्र अन्ये केचन कूर्चाः सन्ति । |
06:35 | अत्र अहं नूनं मरिचं स्थापयितुम् अपि च एतेषां मरिचाणां रेखां रचयितुम् अपि शक्नोमि । |
06:52 | अयं कूर्चः बहु उपयोगकरः नास्ति किन्तु, भवान् भवदीयकूर्चान् निर्मातुं शक्नोति अपि च ते उपयोक्तुं योग्याः स्युः । |
07:06 | अत्र बहु उत्तमः कूर्चः अस्ति । |
07:10 | इदं vine इति कथ्यते । अपि च vine इत्येतस्य एकां रेखां रचयितुं शक्नोति । तत् द्रष्टुं बहु सुन्दरम् अस्ति । |
07:18 | भवान् तत् अलङ्करार्थम् उपयोक्तुं शक्नोति । |
07:32 | अग्रिमे अंशफलके (Clipboard) विद्यमानं विचित्रकूर्चं वयं पश्यामः । |
07:37 | अतः, इदानीम् अहं किमपि चित्रयामि । किन्तु, ततः पूर्वम् अहं कृष्णं श्वेतं च मम वर्णत्वेन उपयुञ्जे । |
08:01 | अतः, इदानीम् अहं रङ्गसेचनं परितः चतुरस्रस्थानं चित्वा अपि च तत् Ctrl+C इत्यनेन अंशफलके प्रतिलेखं (copy) करोमि । |
08:16 | प्रतिलेखं कर्तुं, अहं क्रमशः Edit >> Copy इत्यत्र गन्तुम् अथवा दक्षिणनोदनं कृत्वा Copy इति कर्तुं शक्नोमि । |
08:33 | इदानीम् अहम् अत्र मम Paintbrush इतीदं चित्वा Clipboard इति संवादपेटिकां चिनोमि । |
08:41 | भवान् पश्यतु, इदम् अत्र कार्यं न कुर्वत् अस्ति । |
09:05 | अहं केवलम् अस्मिन् चयने रङ्गसेचनं कर्तुं शक्नोमि स्म; यतोहि इदं स्थानं चितम् अस्ति अपि च इदं न चितम् अस्ति । |
09:15 | अतः, Shift+Ctrl+A इतीदं नुत्वा अहम् इदं चिनोमि अपि च इदानीं रङ्गसेचनं कर्तुं शक्यते । |
09:26 | अत्र भवान् पश्यतु, मम लघु पुष्पम् उत्सूच्यते (pops up) । |
09:30 | भवान् एतेषां लघु पुष्पाणां रेखाम् एकाम् अपि चित्रयितुं शक्नोति, इदं तावत् सम्यक् नास्ति । यतोहि पृष्ठदेशः अपि प्रतिलेखितः अस्ति । अपि च प्रत्येकं पुष्पस्य उपरि अन्यपुष्पं प्रतिलेखितम् अस्ति । |
09:48 | केवलं चित्रस्य किञ्चित् भागं प्रतिलेखं कृत्वा अपि च अनन्तरं तत् चित्रे यत्र अपेक्ष्यते तत्र चित्रणं करोति चेत् इदं सम्यक् दृश्यते । |
09:59 | भवतां logos इतीदं मुद्रितुम् अथवा चित्रे एकस्य पुरुषस्य वदनम् असंस्कृतेन मुद्रितुम् इदम् उपयोक्तुं शक्यते । |
10:24 | यदा Brushes इति पृष्ठम् उद्घाटयामि अत्र तदा अहं किञ्चित् कूर्चाणां विषये परिष्कारं कर्तुं शक्नोमि । |
10:31 | Spacing इतीदम् अत्र प्रथमम् अस्ति । इदानीम् अपि मम अंशफलकस्य कूर्चः चितः अस्ति अपि च यदा अहं Spacing इत्यनेन 100% प्रति गच्छामि तदा सुन्दरपुष्पाणां रेखां रचयितुं शक्नोमि । |
10:53 | केवलं प्रथमविकल्पस्य नोदनेन अस्यां संवादपेटिकायां भवान् नूतनकूर्चं निर्मातुं शक्नोति । किन्तु, अयं सम्पादनविकल्पः अस्ति । |
11:10 | अतः, द्वितीयविकल्पं चित्वा अत्र अहं नूतनं कूर्चं निर्मातुं शक्नोमि । |
11:20 | अहं Shape इत्यत्र वर्तुलं, चतुष्कोणम् अथवा वज्राकारं चेतुं शक्नोमि । |
11:27 | वयं वज्राकारं स्वीकुर्मः । अहम् Radius इतीदं परिवर्तयितुं शक्नोमि अपि च Spikes इतीदम् अपि कूर्चं प्रति योजयितुं शक्नोमि । |
11:40 | अहं मम कूर्चस्य Hardness इतीदं परिवर्त्य मृदु अथवा कठिणम् अपि कर्तुं शक्नोमि इति भवान् द्रष्टुं शक्नोति । |
11:48 | अहं Aspect ratio इतीदम् अपि परिवर्तयितुं शक्नोमि । |
12:03 | कूर्चस्य Angle इत्यस्य परिवर्तनपूर्वकं, अहम् इदं किञ्चित् अभिनतं (tilt) कृत्वा Spacing इतीदं परिवर्तयितुं शक्नोमि । |
12:13 | वयं तत् अत्र कुर्मः । अनेन लघुनक्षत्रेण, Spacing इतीदं 200 प्रति वर्धयामः । |
12:22 | इदानीं नूतनकूर्चस्य निर्माणम् अत्र समापितवान् । अपि च इदम् अहं star इति कथयामि । |
12:37 | भवतः नूतनं star इतीदं कूर्चम् इदानीं संवादपेटिकायां Brushes इत्यत्र भवान् द्रष्टुं शक्नोति । |
12:43 | अपि च यदा भवान् तत् उपयुञ्जते तदा एतत्सदृशनक्षत्रं प्राप्नोति । |
12:49 | इदानीम्, मया इदं केवलकृष्णेन पूरणीयम् अस्ति । |
12:58 | गौरवर्णं भवतः पुरोदेशवर्णत्वेन चिनोतु । |
13:02 | अधिकमूल्ययुतं jitter इतीदं star इति कूर्चं प्रति योजयित्वा अत्र नक्षत्रं मुद्रयतु । |
13:18 | jitter इतीदं किञ्चित् अधिकम् अस्ति इति अहं चिन्तये । अपि च इदं सम्यक् न दृश्यते । |
13:27 | नूतनकूर्चं निर्मातुम् अतीव शीघ्रं विधानम् इदम् आसीत् । |
13:33 | प्रथमविकल्पस्य चयनेन अहं कूर्चं सम्पादयितुं शक्नोमि । अहं Angle इतीदं किञ्चित् परिवर्त्य, अपि च अत्र इदम् विवर्त्य (turn) उपयोक्तुं शक्नोमि । |
13:51 | अहं कोणं किञ्चित् परिवर्तितवान्, अतः इदं सम्यक् कार्यं करोति । |
13:58 | नूतनकूर्चस्य निर्माणद्वारा गणितीयया व्याख्यातान्, भवतः एव कूर्चान् भवान् निर्मातुं शक्नोति । |
14:05 | प्रथमविकल्पः नाम, नूनं किमपि अंशफलके प्रतिलेखकरणम् इति । |
14:10 | पाठे अस्मिन् अन्तिमतया अन्तर्जालतः कूर्चाणां प्राप्तिं दर्शयितुम् इच्छामि । तत् केवलं GIMP brushes इत्यस्य अन्वेषणेन भवति । अपि च भवतः कृते अत्र deviantART by Iceytina इत्यस्य उपरि एकम् उदाहरणम् अस्ति । |
14:49 | अत्र लभ्यमानाः कूर्चाः Iceytina इत्यनेन रचिताः सन्ति । अपि च Download इत्यस्य चयनेन अहम् अवारोहणं (download) कर्तुं शक्नोमि । |
15:05 | अपि च तान् अहं वृत्तके (disk) save इतीदं करोमि । |
15:14 | अहं मम वृत्तकं प्रति अवारोहणं कृतवान् । अपि च एकस्मिन् निमेषे एव प्रतिष्ठापनं (install) करोमि । |
15:21 | पत्रम् इदं वयं पश्यामः । अपि च एते कूर्चाः Creative Commons License इत्यतः प्राप्त-आज्ञापत्राः सन्ति । तत् आधृतवस्तूनां निर्माणं कर्तुम् अहम् अनुज्ञातः न अस्मि । तान् अहं प्राप्तुं, परिवर्तयितुम् अपि च पुनः जालपुटे स्थापयितुम् अपि न शक्नोमि । |
15:47 | किन्तु, तान् अहं मूलशृङ्खलम् (original link) अपि च Iceytina इति नामोल्लेखं कृत्वा उपयोक्तुं, तैः सह कार्यं कर्तुम् अपि च मम जालपुटे तान् प्रकाशयितुं शक्नोमि । |
16:00 | GIMP Brushes इत्यत्र गन्तुं शृङ्खलम् (link) अस्ति इति अपि च तत्र deviantART इत्यत्र तथैव अन्यत्र जालपुटेषु अपि बहु अधिकाः कूर्चाः सन्ति इति भवान् अत्र द्रष्टुं शक्नोति । |
16:14 | इदं, गत 24 घण्टाभ्यः कूर्चेषु अतिविनूतनः प्रसिद्धः च brush इत्ययम् एकः अस्ति । |
16:21 | अहं 1 month इतीदं चिनोमि । अपि च इदानीम् अत्र विभिन्नप्रकारकाः बहवः कूर्चाः सन्ति इति भवान् द्रष्टुं शक्नोति । |
16:36 | अस्तु ! वयं Stardust and Twinkles इतीदं स्वीकुर्मः । |
16:49 | किन्तु, इदम् अतीव आश्चर्यं जनयति । |
16:59 | KNUX’S Spike Brush Pack इतीदं Knux57 इत्यनेन इति । |
17:04 | अस्तु, अत्र आज्ञापत्रस्य सूचना नास्ति, अतः अहम् इदम् अवारोहणं कृत्वा तस्य उपरि कार्यं कर्तुं शक्नोमि । |
17:29 | अहं नूनं Download इतीदं नुदामि । |
17:32 | अत्र GIMP 2.4 brushes इत्यस्य सञ्चयः (folder) उद्घाटितः अस्ति अपि च 'star.vbr' इतीदं द्रष्टुं शक्नोति । |
17:44 | अहं 'vbr' इत्यस्य विषये न जानामि किन्तु, 'gbr' इतीमे तु GIMP इत्यस्य उत्कृष्टकूर्चाः सन्ति । |
17:54 | अत्र विद्यमानाः कूर्चाः तु, तस्मात् जालपुटात् Iceytina इत्यनेन रचिताः सन्ति । |
18:01 | अहं मम पुरावृत्त (archive) साधनेन इमं सञ्चयम् उद्घाटयामि । 'jpg' इत्यत्र विद्यामानं 'water colours' इतीदम् अपि च 'README' इतिवत् सदृश्यः अन्याः बहुसञ्चिकाः (files) भवान् द्रष्टुं शक्नोति । |
18:20 | अतः, अहं नूनं सर्वं चित्वा अपि च brushes इति विभागं (directory) प्रति कर्षयामि । |
18:35 | सर्वाणि अत्र सन्ति । |
18:37 | अपि च अहं Knux Spike Brush Pack इत्यनेन सह समानं करोमि । |
18:43 | अहं Archive manager इत्यनेन सञ्चयम् उद्घाटितवान् । अत्र GIMP इत्यस्य कूर्चस्य सञ्चिकाः भवान् पश्यति । |
18:52 | अतः, अहं सर्वं चित्वा मम brushes इति विभागं प्रति कर्षयामि । |
19:05 | इदानीं मम कूर्चविभागे सर्वे कूर्चाः प्राप्ताः । अतः, अहं Archive Manager इतीदं पिधाय अत्र सञ्चयं पिदधामि । अपि च GIMP इतीदं प्रति प्रति आगच्छामि । |
19:21 | किमपि परिवर्तितं नास्ति इति अत्र द्रष्टुं शक्नोति किन्तु, Reload Brushes इतीदं चेतुं शक्नोमि । इदानीम् अहं बहून् कूर्चान् प्राप्तवान् इति भवान् द्रष्टुं शक्नोति । इमे कूर्चाः Iceytina इत्यस्मात् आगताः अपि च अहम् अत्र परीक्षितुं शक्नोमि । |
19:46 | इमे कूर्चाः water colour इतिवत् सन्ति । |
19:50 | अतः, अत्र water colour box इत्यस्मात् एकं वर्णं चित्वा चित्रयामि । |
19:57 | इमे कूर्चाः केवलं मुद्रणार्थम् उपयुज्यन्ते न तु चित्रणार्थम् । |
20:03 | इमे कूर्चाः jitter इतीदं बहु प्राप्ताः सन्ति । |
20:17 | प्रथमम् अहं पृष्ठदेशं मार्जयामि । |
20:23 | अतः, अत्रत्याः इमे कूर्चाः कूटकरणं (fake) water colour इतिवत् कर्तुं योग्याः सन्ति अथवा चित्रं परितः आबन्धं (frame) रचयितुम् उपयोक्तुं शक्नोति । |
20:36 | अतः, इदानीं Knux इति कूर्चान् पश्यामः । |
20:40 | अहं तान् पूर्वं न दृष्टवान् अपि च वयं तत् यतामहे । |
20:47 | इमे कूर्चाः बृहदाकारे सन्ति । इदं पुनः मुद्रणार्थं विद्यन्ते । |
20:53 | अपि च अतीव भिन्नम् अस्ति । यदा एतैः सह रङ्गसेचनं करोमि तदा न तावत् सम्यक् अस्ति । किन्तु, यदा spacing इतीदं वर्धयित्वा opacity इतीदं न्यूनीकरोमि तदा इदं सम्यक् भवितुम् अर्हति । |
21:07 | यदि भवान् कञ्चित् परितः सीमाम् इच्छति तर्हि इदं सम्यक् भवितुम् अर्हति । |
21:13 | किन्तु, इमे कूर्चाः चित्रणस्य (graphical) कलाकाराणां कृते रचितम् अस्ति । अपि च भाचित्रकेभ्यः (photographers) न तावान् उपयोगकरः इति मे चिन्तनम् । |
21:23 | किन्तु, कदाचित् भवान् तान् उपयोक्तुं मार्गम् अन्विषति । |
21:27 | कूर्चविषयके बहु विषयान् चर्चितवान् इति चिन्तयामि । अहम् अनुप्राणितकूर्चस्य (animated brush) रचनम्, चित्रस्य जलनलिका (image hose) अपि च वर्णमयकूर्चाणां निर्माणविषये अन्यस्मिन् लघु प्रकाशने विवृणोमि । |
21:44 | अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च यदि टिप्पणीं प्रेषयितुम् इच्छति तर्हि कृपया info@meetthegimp.org. इत्यत्र प्रेषयतु । |
21:56 | Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणं धन्यवादाः । |