Difference between revisions of "GIMP/C2/Selecting-Sections-Part-1/Sanskrit"
From Script | Spoken-Tutorial
NaveenBhat (Talk | contribs) (Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:23 | '''Meet the GIMP''' इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम...") |
NaveenBhat (Talk | contribs) |
||
Line 165: | Line 165: | ||
|- | |- | ||
| 06:29 | | 06:29 | ||
− | | यदा अहं '''shift''' इति कीलकम् अपि च | + | | यदा अहं '''shift''' इति कीलकम् अपि च मौस्-की नुदामि तदा धनात्मकचिह्नं (+) दृश्यते । |
|- | |- | ||
| 06:39 | | 06:39 | ||
− | | इदानीम्, अहं यदि चयनस्य वियोगं कर्तुम् इच्छामि, तर्हि '''Ctrl''' इति कीलकं | + | | इदानीम्, अहं यदि चयनस्य वियोगं कर्तुम् इच्छामि, तर्हि '''Ctrl''' इति कीलकं मौस्-की च नुत्वा सारयितुम् आरभे । भवान् एकम् ऋणचिह्नं (-) द्रष्टुं शक्नोति । |
|- | |- | ||
Line 329: | Line 329: | ||
|- | |- | ||
| 14:16 | | 14:16 | ||
− | | | + | | मौस् नोदनात् प्राक् यदि '''Ctrl''' इतीदं कीलकम् नुदामि, तर्हि अहं चयनस्य वियोगं कर्तुं शक्नोमि । किन्तु, यदा प्रथमं मौस् नुत्वा अनन्तरं '''Ctrl''' इतीदं कीलकं नुदामि तदा अहं केन्द्रात् चयनं प्राप्नोमि । |
|- | |- | ||
Line 437: | Line 437: | ||
|- | |- | ||
| 19:54 | | 19:54 | ||
− | | | + | | मौस्-की इत्यस्य नोदनानन्तरं '''Ctrl''' इति कीलकेन '''Expand from center''' इतीदम् अपि तथैव कार्यं करोति । |
|- | |- | ||
| 20:05 | | 20:05 | ||
− | | '''Fixed aspect ratio''' इतीदम् अपि तथैव अस्ति । | + | | '''Fixed aspect ratio''' इतीदम् अपि तथैव अस्ति । मौस्-की इत्यस्य नोदनानन्तरं भवान् aspect ratio `1 by 1’ (1:1) इत्येतेन युक्तं परिपूर्णवर्तुलं प्राप्नोति । |
|- | |- |
Latest revision as of 20:21, 25 September 2019
Time | Narration |
00:23 | Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । |
00:25 | Rolf steinort महाभागः इदं Bremen इति Northern Germany देशे ध्वन्यङ्कनं कृतवानस्ति । |
00:31 | अनेन चित्रेण वयम् अद्यतन पाठस्य आरम्भं कुर्मः । |
00:34 | अद्य, केवलम् उदाहरणत्वेन उपयोक्तुम् अनेन चित्रेण सह कार्यं करोमि । |
00:44 | selection इत्यनेन सह कार्यारम्भात् प्राक्, selection इतीदं यथार्थतया किम् इति भवान् किञ्चित् जानीयात् इति अहं चिन्तयामि । |
00:57 | इदं चतुष्कोणं selection इति कथ्यते । अपि च अयं भागः चयनात् बहिः अस्ति । |
01:06 | एताः चलने विद्यमानरेखाः अत्र selection इत्यस्य सीमाः भवन्ति । |
01:15 | GIMP इत्यस्य जनाः selection इतीदं channel इति नाम्ना कथयन्ति । |
01:19 | रक्तः, हरितः अथवा नीलः अथवा पारदर्शकतायाः नियन्त्रयित्री आद्यवाहिनी (Alpha channel) वत् वाहिनी अस्ति । |
01:28 | चयनात् बहिः, अस्य channel इत्यस्य मूल्यं शून्यं भवति । |
01:33 | अस्य अन्तः 255 अस्ति । अपि च एतेषां मध्ये सीमा भवति । 255 इत्यपेक्षया न्यूनं, शून्यापेक्षया अधिकं मूल्यानि एतयोः मध्ये भवितुम् अर्हति । |
01:48 | अतः, 'changing a selection' अथवा 'making a selection' इतीदं नाम कांश्चन सङ्ख्यानां परिवर्तनम् इति । |
01:55 | अपि च इदानीं, selection इतीदं कथं करणीयम् इति वयं पश्यामः । |
02:01 | चयनस्य अपचयनं कर्तुं, 2 मार्गौ स्तः । |
02:05 | प्रथममार्गः, Select इत्यत्र गत्वा None इत्यत्र गमनम् । |
02:11 | भवान् Shift + Ctrl+ A इति कीलकानि एकधा एव उपयुज्य चयनं निवारयितुं शक्नोति । |
02:22 | इदानीं, Rectangle Select इतीदं साधनं चित्वा विकल्पसंवादपेटिकायां पश्यतु । |
02:33 | उपरि, चत्वारः पर्यायाः सन्ति । |
02:36 | Replace the current selection इत्ययं प्रथमः अस्ति । |
02:40 | अतः, अहम् अत्र विभिन्नप्रदेशान् चिनोमि । अपि च यदा अहं नूतनप्रदेशं चिनोमि तदा पुरातनं selection इतीदं निष्कासितं भवति इति भवान् द्रष्टुं शक्नोति । |
02:52 | Add to the current selection इत्ययं द्वितीयविकल्पः अस्ति । |
02:58 | तस्य विकल्पस्य चयनेन, चित्रे अहं विभिन्नप्रदेशान् चेतुं शक्नोमि । अपि च अतीव जटिलचयनं प्राप्नोमि । |
03:17 | अपि च अहं वर्णप्लवनं (colour tab) प्रति गत्वा selection इत्यत्र यदि वर्णं कर्षयामि तर्हि सर्वे अपि चितप्रदेशाः तेन वर्णेन पूरिताः भवन्ति अपि च चितप्रदेशः किन्तु, सः न संयुक्तः चेदपि पूरितः अस्ति इति भवान् द्रष्टुं शक्नोति । |
03:44 | अतः, चयनं प्रति किमपि युज्यते चेत्, तत्रत्य चितप्रदेशानां मध्ये सम्पर्कराहित्ये अपि सर्वं चयनम् एकम् एव इति निगृह्णाति । |
03:57 | इदं किञ्चित् जटिलम् अस्ति । |
03:59 | पूरितस्य undo इति कर्तुं Ctrl + Z इतीदं नुत्वा सर्वम् अपचिनोतुं shift + Ctrl + A इतीदं नुदतु । अपि च मम विकल्पसंवादपेटिकां प्रति आगच्छामः । |
04:11 | इदानीम्, अत्र चतुष्कोणं चित्वा Subtract from the current Selection इतीदं चिनोतु । |
04:21 | अहम् इदं प्रदेशं चिनोमि किन्तु, किमपि न भवति । |
04:27 | किन्तु, यदा अहम् इमान् प्रदेशान् चिनोमि, तदा प्रान्तः कर्तितः इति भवान् द्रष्टुं शक्नोति । |
04:36 | चयनस्य खण्डः (frame) तत्रैव अवशिष्यते अपि च यदा अहं तत् सारयामि तदा परिवर्तनानि कर्तुं शक्यन्ते इति भवान् द्रष्टुं शक्नोति । |
04:47 | अतः, नूतनचयनं प्राप्तुम्, अन्यत्र स्थाने नोदनपर्यन्तं, भवता कृतम् अन्तिमं चयनम् अपि परिवर्तयितुं शक्यते । भवान् भवतः कार्यं सर्वदा अपि परिवर्तयितुं शक्नोति । |
05:07 | इदानीम् Intersect with the current selection इत्ययम् अन्तिमविकल्पः अस्ति । |
05:14 | वयं तत् प्रयतामहे । |
05:17 | अहम् अत्र आयतं चिनोमि । अस्मात् बहिः विद्यमानप्रदेशः न चितः अस्ति अपि च पूर्वं यत् चितम् आसीत् तत् निष्कासितम् अस्ति । |
05:32 | अपि च आयते केवलं selection इतीदं स्थापितम् अस्ति । |
05:38 | मह्यम् अपेक्षितप्रदेशस्य चयनं पर्यन्तम् अहम् इमम् आयतम् अपि अभिसंनमनं (modify) कर्तुं शक्नोमि । |
05:49 | अतः इदानीं, Replace, Add, Subtract अपि च Intersect इति चतस्रः दशाः वयं समापितवन्तः । |
06:06 | भवान् केवलं नोदनेन चयनं पुनर्निवेशं (replace) कर्तुं शक्नोति । |
06:11 | Click अपि च Shift इत्येताभ्यां योजनं कर्तुं शक्यते । |
06:17 | अतः, तत् वयं प्रयतामहे । अहं shift इति कीलकं नुदामि । अपि च नोदनेन नूतनं selections इतीदं योजयितुम् आरभे । |
06:29 | यदा अहं shift इति कीलकम् अपि च मौस्-की नुदामि तदा धनात्मकचिह्नं (+) दृश्यते । |
06:39 | इदानीम्, अहं यदि चयनस्य वियोगं कर्तुम् इच्छामि, तर्हि Ctrl इति कीलकं मौस्-की च नुत्वा सारयितुम् आरभे । भवान् एकम् ऋणचिह्नं (-) द्रष्टुं शक्नोति । |
06:57 | अतः, इदानीम् अहं चयनस्य वियोगं कर्तुं शक्नोमि । |
07:02 | संसर्गार्थं (intersection), Shift, Ctrl इतीदम् उभयम् एकधा एव नुत्वा अनन्तरं संसर्गं कर्तुं प्रदेशं चिनोतु । |
07:26 | यदि भवान् एतत्कीलकसमवायं मनसि धरति तर्हि प्रदेशं शीघ्रं चेतुं शक्नोति । |
07:33 | अपि च इमानि कीलकानि अन्यचयनसाधनेन उपयुज्यन्ते । |
07:38 | अतः, भवता केवलम् एकधा तानि नूनम् अध्येतव्यानि । |
07:44 | Shift, Ctrl, A, इतीदम् अन्यचयनानि निष्क्रियं करोति । अपि च मम सामान्यदशां प्रति आनयति । इदानीं वयम् अत्रत्यान् अन्यविषयान् आरभामहे । |
07:56 | Feather edges इति अग्रिमविकल्पः अस्ति । यदा अहम् इदं चिनोमि तदा अत्र Radius Count इति अन्यविकल्पं भवान् प्राप्नोति । |
08:09 | अतः, अहम् इदं किञ्चित् वर्धयित्वा एकं प्रदेशं चिनोमि । |
08:15 | इदानीं भवान् अत्र मण्डलीकृतं (rounded) कोणं द्रष्टुं शक्नोति । |
08:21 | अत्र अहं मण्डलीकृतकोणं न अपेक्ष्ये । |
08:25 | नूनं किम् अभवत् इति भवते दर्शयितुम्, अहं कृष्णेन इदं पूरयित्वा चित्रे सर्पणं करोमि । |
08:37 | अत्र मध्ये कृष्णः अस्ति, अपि च सीमायाः समीपे शीर्णः (fades) अस्ति, एतत्प्रान्तस्य अन्त्यभागाः नैजकृष्णः अपि च मूलचित्रम् इति उभयोः मध्ये चलन्तः सन्ति । तथैव चयनस्य मूल्यं 128 इत्यस्ति इति भवान् द्रष्टुं शक्नोति । |
09:09 | अतः, अर्धकृष्णवर्णः selection इत्यस्य अन्तः अपि च अपर-अर्धः बहिः शीर्णः अस्ति । |
09:19 | यदा भवतः सविधे कठोरचयनम् अस्ति तदा केवलं प्रान्तस्य अन्त्यभागः भवतः चयनस्य यथार्थसीमा भवति । |
09:29 | Feather edges इतीदं मृदुचयनानि प्राप्तुम् उत्तमविकल्पः अस्ति । |
09:35 | Feather selection इत्यनेन, भवान् न्यूनाग्र्ययुक्तं दृश्यं प्राप्नोति, तथा इदं सुलभमार्गः अस्ति । |
09:45 | तान्त्रिकमनोभावस्य जनाः Feather selection इतीदं Gaussian Blur इति कथयन्ति । अपि च अत्र मया या त्रिज्या (radius) चिता अस्ति सा Gaussian Blur इत्यस्य अस्ति । |
10:04 | Rounded corners इति अग्रिमविकल्पः अस्ति । |
10:09 | इदं मण्डलीकृतम् आयुतम् अस्ति । अपि च मण्डलीकृतकोणानां भवान् त्रिज्यां व्यवस्थापयितुं शक्नोति । |
10:20 | अत्र मण्डलीकृतभागः अस्ति अपि च एते प्रान्ताः ऋजुभागाः सन्ति । |
10:28 | अत्र, Antialiasing इति अग्रिमविकल्पः अस्ति । |
10:34 | अयं विकल्पः सीमायाः रङ्गसेचनं व्यवस्थापयति । |
10:40 | नूनम् अहम् selection इतीदं कृष्णेन पूरयामि । अपि च इदानीं मम चयनसाधनं प्रति गत्वा Antialiasing इतीदम् अपचिनोमि । अन्यत् चयनं कृत्वा इदम् अपि कृष्णेन पूरयामि । |
11:09 | अतः, zoom इतीदं साधनं चित्वा Shift + Ctrl + A इत्यस्य नोदनेन सर्वचयनानि अपचिनोतु । अपि च अस्मिन् प्रदेशे सर्पणं करोतु । |
11:24 | अपि च अत्र, प्रान्तः antialiasing इत्यनेन रहितः अस्ति । इदं कृष्णेन पूरितः अथवा पूरितः नास्ति । |
11:37 | अपि च अत्र, भवान् धूसरवर्णस्य सोपानानि द्रष्टुं शक्नोति । |
11:42 | अत्र भवान् jaggies रहितमृदुसीमाः द्रष्टुं शक्नोति । इदम् एव antialiasing इति कथ्यते । |
11:53 | इदं चयनं मण्डलीकृतसीमया युक्तं नास्ति । किन्तु, सोपानानां श्रेणिः एव अस्ति । |
12:04 | अपि च, यदा अहं 100% सर्पणं प्रति गच्छामि, तदा अहम् अत्र jaggies इतीदं द्रष्टुं शक्नोमि । इदं मृदु नास्ति, अत्र मृदुसीमाः अपि च स्वयं भवान् एव सुलभेन प्रयत्नं कर्तुं शक्नोति । |
12:32 | अतः, यदि मृदुसीमाः प्राप्तुं इच्छति तर्हि Antialiasing इतीदं चिनोतु । |
12:42 | अपि च यदि अत्र इमाः धूसरछायाः प्राप्तुम् इच्छति तर्हि तं विकल्पम् अपचिनोतु । |
12:55 | अतः, अहं तं विकल्पं चिनोमि । अपि च अत्र Expand from centre इति उपविकल्पः अस्ति । |
13:04 | अहम् इदं चित्वा तेन कार्यम् आरभे । |
13:13 | अतः, अहम् अत्र बिन्दुं संस्थाप्य इतः मम चयनं कर्षयितुम् आरभे । |
13:21 | इदं तस्मात् बिन्दोः वर्धमानम् अस्ति इति भवान् द्रष्टुं शक्नोति । अपि च अयं बिन्दुः सर्वदा चयनस्य मध्ये भवति । |
13:31 | यदा अहं तं विकल्पम् अपचिनोमि, अत्र selection इतीदं कर्षयितुं शक्नोमि । अपि च कोणस्य स्थितिः अपि मम चयनस्य अनुसारं परिवर्तते । |
13:46 | एतदर्थम् अत्र कीलकविध्यादेशः (keycode) अस्ति । |
13:51 | यदा अहम् इदं बिन्दुं नुत्वा Ctrl इतीदं नुदामि तदा केन्द्रात् selection इतीदं प्राप्नोमि अपि च तत् चयनं केन्द्रात् विस्तृतं भवति । |
14:06 | अपि च यदा अहं Ctrl इतीदं कीलकं त्यजामि तदा चयनं नष्टं भवति । |
14:16 | मौस् नोदनात् प्राक् यदि Ctrl इतीदं कीलकम् नुदामि, तर्हि अहं चयनस्य वियोगं कर्तुं शक्नोमि । किन्तु, यदा प्रथमं मौस् नुत्वा अनन्तरं Ctrl इतीदं कीलकं नुदामि तदा अहं केन्द्रात् चयनं प्राप्नोमि । |
14:42 | Fixed aspect ratio इति अग्रिमविकल्पः अस्ति । अपि च अत्र अहं पूर्वनियोजित-आलोक-अनुपातरूपेण (aspect ratio) ‘1 by 1’ इति प्राप्तुं शक्नोमि । यदा अहं चित्रयामि तदा इदं सर्वदा चतुष्कोणे एव भवति । |
15:08 | अत्र अहं ‘2 by 3’ (2:3) इतीदं चेतुं शक्नोमि । अपि च अहं सर्वदा ‘2 by 3’ इति अनुपाते एव चयनं प्राप्नोमि । ‘3 by 2’ (3:2) इति परिवर्तने कृते इदं मह्यं भूप्रदेशदशायां (landscape mode) चयनं ददाति । |
15:31 | परिपूर्णचतुष्कोणं रचयितुम् अन्यमार्गः अस्ति । |
15:36 | अहम् अस्मिन् बिन्दौ चयनम् आरभ्य, कर्षयामि च अनन्तरं shift इतीदं नुदामि । |
15:46 | इदानीं पूर्वनियोजितमूल्येन (preselected value) अत्र Fixed aspect ratio इतीदं चितम् अस्ति । |
15:54 | अपि च अयं वेगतरमार्गः, अतः मह्यम् अपेक्षितान् आलोक-अनुपातयुक्तप्रदेशान् केवलं shift इत्यस्य नोदनेन चेतुं शक्नोमि । |
16:08 | Highlight इति अग्रिमविकल्पः अस्ति । यदा अहं तत् उपयुञ्जे तदा अपचितप्रदेशः धूसरे अपि च चितप्रदेशाः सर्वे श्वेते भवन्ति । |
16:24 | अपि च इदं केवलं प्रकृतचयनेन सह सम्बद्धम् अस्ति । अतः इदम् अपचयनं कृत्वा अन्यविकल्पान् पश्यामः । |
16:35 | अत्र इमानि मूल्यानि भवान् हस्तेन व्यवस्थापयितुं शक्नोति । यदि अत्र Fix इतीदं नुदति तर्हि चयनस्य आकारं परिवर्तयितुं न शक्नोमि । |
16:47 | किन्तु, विस्तारं (Width) यदि चित्रकणद्वयं न्यूनम् अपि च एकचित्रकणाधिकम् उन्नतं (Height) व्यवस्थापयितुम् इच्छामि तर्हि तत् चयनं सुतानं (fine tune) करोति । |
16:59 | मूलस्य बिन्दुः X इत्यस्य मूल्यस्य वर्धनेन अहं चयनं दक्षिणं प्रति किञ्चित् सारयितुं शक्नोमि । |
17:10 | अपि च यदा Fix इतीदं चिनोमि तदा अहं समग्रचयनस्य चलनं कर्तुं शक्नोमि । |
17:17 | अतः, ‘X’ अपि च ‘Y’ इत्यनयोः मूल्यानि वामतः उपरि विद्यमानबिन्दोः मूलबिन्दुः अस्ति । अपि च Fix इति कीलकेन चलनम् अवरोद्धुं शक्नोमि । |
17:30 | Guides इति अग्रिमविकल्पः अस्ति । |
17:34 | चयनस्य मध्यबिन्दुः कुत्र अस्ति इति दर्शयन्तीं Centre line इतीमाम् अहं चेतुं शक्नोमि । |
17:44 | चित्रणकार्यार्थम् (graphics) उपयुज्यमानं Rule of thirds इतीदम् अथवा एतत्सदृशं Golden sections इतीदं प्राप्तुं शक्नोमि । |
18:00 | अधः Auto Shrink Selection अपि च Shrink merged इतीदम् अस्ति । |
18:08 | Auto Shrink Selection इतीदं न तावत् उपयोगकरम् अस्ति । |
18:14 | किन्तु Shrink merged इति विकल्पस्य चयने विधिकल्पाः (algorithm) layers इत्यत्र पश्यति । अपि च यदि अपचयनं क्रियते तर्हि layer इत्यत्र यत् भवतः कार्यं प्रचलति केवलं तत् परिगण्यते । |
18:34 | एतेषां विकल्पानां पुनरावलोकनात् प्राक् वयं Ellipse इति चयनस्य विषये चर्चयामः । |
18:42 | अतः, Shift + ctrl + A इतीदं नुत्वा सर्वचयनानि अपचिनोतु । |
18:49 | उपरि, भवते Replace current selection, Add to the selection with Shift key before clicking अपि च Subtract with Ctrl key before clicking अपि च Intersect with Shift and Ctrl key before clicking इति समानविकल्पाः प्राप्यन्ते । |
19:12 | पुनः Antialiasing इतीदं मृदुप्रान्तेभ्यः अस्ति । |
19:17 | आयताकारस्य अपेक्षया विषमचक्रवालेन (ellipse) सह इदं मुख्यम् अस्ति यतोहि विषमचक्रवालानि सर्वदा वर्तुलाकारे भवन्ति । |
19:26 | Feather edges इतीदम् आयतस्थविकल्पान् एव प्राप्नोति । |
19:32 | इदं यदा अहं कृष्णेन पूरयामि, तदा कृष्ण-श्वेतयोः मृदु gradient इतीदं भवान् द्रष्टुं शक्नोति । अपि च एतत् पालिकायाः (margin) अन्त्यभागाः कृष्ण-श्वेतयोः मध्ये भवन्ति । |
19:54 | मौस्-की इत्यस्य नोदनानन्तरं Ctrl इति कीलकेन Expand from center इतीदम् अपि तथैव कार्यं करोति । |
20:05 | Fixed aspect ratio इतीदम् अपि तथैव अस्ति । मौस्-की इत्यस्य नोदनानन्तरं भवान् aspect ratio `1 by 1’ (1:1) इत्येतेन युक्तं परिपूर्णवर्तुलं प्राप्नोति । |
20:19 | इदानीम्, अद्य प्रदर्शनीयम् अन्तिमं साधनं प्रति वयम् आगच्छामः । अपि च तत् Free Select इति साधनम् अस्ति । |
20:29 | यदा अहं तत् साधनं चिनोमि, तदा अहं समानविकल्पान् एव अत्र पश्यामि । Add, Replace, Subtract अपि च Intersect कर्तुं कीलकानि अपि तथैव कार्यं कुर्वन्ति । |
20:44 | समानकार्येभ्यः Antialiasing अपि च Feather edges इति केवलेन अग्रिमविकल्पद्वयेन इदं युक्तम् अस्ति । |
20:54 | अत्र, वृत्तस्य Radius इतीदं प्राप्नोमि । अपि च तत् अहम् अपचिनोमि । |
21:00 | उदाहरणरूपेण भवते दर्शयितुम् अहं पर्णस्य इमम् अधोभागं चिनोमि । |
21:08 | अपि च चित्रे selection इतीदं यत्र आरम्भणीयम् अस्ति तत्र अहं नुदामि । रेखाम् एकां रचयित्वा पर्णस्य सीमाम् अनुसरामि । |
21:33 | अतः, इदानीम् अहम् इमं प्रदेशं चितवान् अस्मि । |
21:38 | समीकर्तुम् अहं चित्रे उपसर्णं करोमि । |
21:43 | अपि च मम चयनसंवादपेटिकायाम्, अहं Add to the current selection इतीदं चिनोमि । अपि च चितं व्यवस्थापयितुम् आरभे । |
22:10 | विधिकल्पः, चयनं यतः आरब्धम् अस्ति तद्बिन्दुं प्रति बहु समीपतरमार्गम् अन्विषति । |
22:19 | चयनं सुलभं कर्तुम् अहं Quick Mask इतीदम् उपयुञ्जे । |
22:26 | अधः वामकोणे Toggle Quick Mask इति विकल्पः अस्ति । अहं तत् विभाषकं (toggle) करोमि अपि च इदानीं मम समग्रचित्रं रक्तमयम् इति भवान् द्रष्टुं शक्नोति । |
22:38 | अयं किञ्चित् व्याकुलजनकः विकल्पः अस्ति । यतोहि यः प्रदेशः चितः अपि च यश्च न चितः अस्ति उभयम् अपि रक्तवर्णे दृश्यते । |
22:51 | अतः, अहं विभाषकं प्रति गत्वा तस्य उपरि दक्षिणनोदनं करोमि । तच्च मह्यं Configure Colour and Opacity इतीदं ददाति । अत्र अहं वर्णं व्यवस्थापयितुं शक्नोमि । अतः, नीलं प्रति व्यवस्थापयामि । |
23:07 | इदानीं चितप्रदेशः रक्ते अपि च अवशिष्टप्रदेशः नीले अस्ति । |
23:19 | अपि च इदानीम्, अहं pen इतीदं चित्वा चितप्रदेशस्य रङ्गसेचनं कर्तुम् आरभे । ततः प्राक् foreground अपि च background इत्यनयोः वर्णं ’X’ इति कीलकेन परिवर्तयामि । |
23:38 | अपि च इदानीम् अहं रङ्गसेचनम् आरभे । |
23:48 | अपि च यदा सीमायाः उपरि रङ्गसेचनं करोमि, तदा अहं background colour इत्यनेन रङ्गसेचनं कर्तुं शक्नोमि । |
24:00 | रङ्गसेचनं कर्तुं, मया उत्तमाकारयुक्तः कूर्चः चेतव्यः । |
24:23 | अपि च यदा अहं वर्णिकाम् अविभाषकं (untoggle) करोमि तदा selection इत्यत्र दोषः, अत्र अपि च दोषः अस्ति इति भवान् द्रष्टुं शक्नोति । |
24:35 | अतः, अहं विभाषकं चित्वा दोषान् समीकरोमि । |
24:44 | समीकृताः । |
24:50 | अतः, जटिलचयनं समीकर्तुं Quick Mask इत्ययं सुलभतरमार्गः अस्ति । |
24:59 | Quick Mask selection इतीदं भवान् साधनत्वेन उपयोक्तुं शक्नोति । |
25:05 | भवान् वर्णिकायाः opacity इतीदं परिवर्तयितुं शक्नोति । अपि च अचितप्रदेशाः भवते इदानीं न दृश्यन्ते । |
25:19 | बहुषु सन्दर्भेषु 50% opacity इतीदम् उत्तमं प्रमाणं भवति । |
25:28 | अचितप्रदेशेभ्यः भवदिच्छानुसारं वर्णं चेतुं शक्नोति । |
25:36 | अत्र Mask Selected Areas इति अन्यविकल्पः अपि अस्ति । |
25:43 | इदं Quick Mask इत्यस्य विरुद्धपरिणामयुक्तम् अस्ति । |
25:48 | अतः इदानीम्, चितप्रदेशः नीलेन रङ्गसिक्तः अस्ति । अपि च अत्र सन्दर्भे अस्मिन् इदं सम्यक् दृश्यते । |
25:59 | अपि च यदा Quick Mask इतीदम् अपचिनोति तदा भवतः चयनं भवान् द्रष्टुं शक्नोति । |
26:08 | अतः इदानीम्, अत्र परिपूर्णचयनं कृतवान् अपि च अग्रे कार्यं कर्तुं तत् रक्षणीयम् अस्ति । तत् नाशयितुं न इच्छामि इति वयं व्यपदिशामः (pretend) । |
26:29 | क्रमशः Select अपि च Save to Channel इत्यत्र गच्छतु । यतोहि चयनानि मूलतः वाहिन्यः सन्ति । |
26:45 | इदम् अहं Mask1 इतिरूपेण रक्षामि अपि च इदं ’XCF’ इति सञ्चिकया संगृहीतं भवति । |
26:55 | अतः इदानीम्, Shift + Ctrl + A इतीदं नुत्वा सर्वम् अहम् अपचयनं कर्तुं शक्नोमि । |
27:02 | अन्यत् भागं चित्वा मम चयनं प्रति यदा गच्छामि, तदा अहं चयनं प्रति योजयितुम् अथवा चयनात् निष्कासयितुम् अथवा चयनं छेदितुम् अपि शक्नोमि । अत्र मम चयनं पुनः आगतम् अस्ति । |
27:23 | अतः, तत् रक्षितुं नूनं Select अपि च Save to Channel इत्यत्र गच्छतु । पुनर्मिलामः । |
27:34 | Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणं, धन्यवादाः । |