Difference between revisions of "Linux-Old/C2/Ubuntu-Desktop-10.10/Sanskrit"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
Nancyvarkey (Talk | contribs) m (Nancyvarkey moved page Linux/C2/Ubuntu-Desktop/Sanskrit to Linux-Old/C2/Ubuntu-Desktop-10.10/Sanskrit without leaving a redirect) |
(No difference)
|
Revision as of 17:17, 1 March 2020
Time | Narration |
00:00 | ‘Ubuntu Desktop’ अधिकृत्य ‘Spoken Tutorial’ इत्यस्मिन् वर्गे भवतां स्वागतम्। |
00:04 | अस्य प्रयोगेण वयं Gnome परिवेशे Ubuntu Desktop इत्यस्य परिचयं प्राप्स्यामः। |
00:12 | अस्य कृते Ubuntu 10.10 इत्यस्य प्रयोगः मया क्रियते। |
00:19 | अधुना भवन्तः Ubuntu Desktop पश्यन्तः सन्ति। |
00:24 | भवन्तः उपरि वामभागे कोणे Main Menu इति द्रष्टुं शक्नुवन्ति। |
00:31 | तत् उद्घाटयितुं Alt + F1 नोत्तुं शक्नुवन्ति, अथवा Application इत्यस्य उपरि नोत्तुं शक्नुवन्ति। |
00:40 | Application Menu इत्यस्मिन् ये प्रयोगाः स्थापिताः सन्ति ते वर्गीकृतरूपेण दृश्यन्ते। |
00:48 | Menu इत्यस्मिन् स्थितानां मुख्यानां प्रयोगानां विषये परिचिताः भवामः। |
00:55 | तर्हि पश्यामः Applications>Accessories>Calculator. |
01:04 | 'Calculator' इत्येतत् अङ्कगणितस्य वैज्ञानिकस्य आर्थिकस्य च गणनायाः साहाय्यं करोति. |
01:12 | वयम् उद्घाटयामः, ‘Calculator’ इत्यस्य उपरि नुदामः। |
01:18 | किञ्चित् सरलाकलनस्य अभ्यासं कुर्मः। |
01:22 | '5 * 8' इति टङ्कयित्वा '=' चिह्नं नुदामः। |
01:32 | '=' इत्यस्य चिह्नस्य स्थाने 'Enter' अपि नोत्तुं शक्नुमः। |
01:39 | अधुना पिधानस्य चिह्नं नुत्त्वा 'Calculator' तः बहिः आगच्छामः। |
01:46 | अधुना अपरं कञ्चन प्रयोगं पश्यामः। |
01:50 | तन्निमित्तं Applications प्रति गत्वा पुनः Accessories प्रति गच्छतु। |
01:59 | तत्र Text Editor अस्ति। तस्य उपरि नुदतु। |
02:09 | अधुना screen मध्ये gedit text editor पश्यामः। |
02:16 | अहम् अधुना किञ्चित् टङ्कयामि रक्षामि च। "H-e-l-l-o W-o-r-l-d" इति टङ्कयामि। |
02:28 | रक्षणार्थं Ctrl + s नोत्तुं शक्नुमः अथवा File उपरि गत्वा Save नोत्तुं शक्नुमः। पश्यतु, अहं File उपरि गत्वा Save नुदामि। |
02:45 | अधुना किञ्चन लघु Dialogue Box आगच्छति। एतत् File इत्यस्य नाम, तस्य रक्षणस्थानं च पृच्छति। |
02:56 | अहं नामनिमित्तं "hello.txt" इति टङ्कयामि, रक्षणस्थानार्थं Desktop इति चिनोमि, अनन्तरं Save इत्यस्य उपरि नुदामि। |
03:15 | अधुना gedit पिधानं कृत्वा अस्माभिः निर्मितं File, 'Desktop' मध्ये रक्षितं उत न इति पश्यामः। इदानीं पिदधातु। |
03:24 | अधुना Desktop मध्ये hello.txt इति File दृष्टुं शक्नुमः। |
03:30 | अर्थात् निर्मितं text file रक्षितम् अभवत्। |
03:35 | एतत् चिह्नोपरि उपरि वारद्वयं नुत्वा उद्घाटयामः। |
03:40 | अहो! अस्माभिः यत् टङ्कितं तत् आगतम्। |
03:44 | जालपुटाख्ये Internet मध्ये gedit text editor अधिकृत्य अधिकविवरणम् अस्ति। |
03:50 | http://spoken-tutorial.org इत्यस्मिन् जालपुटे Spoken Tutorial अपि लभ्यते। |
04:00 | Text editor पिधानं कृत्वा Accessories मध्ये Terminal इत्यस्य विषये पश्यामः। |
04:12 | तर्हि प्रतिचलामः Application>Accessories>Terminal. |
04:19 | Terminal इत्यस्य अपरं नाम Command Line इति अस्ति। यतोहि इतः वयं सङ्गणकाय आदेशं दातुं शक्नुमः। |
04:25 | वस्तुतया एतत् 'GUI' अपेक्षया शक्तियुतम् अस्ति। |
04:30 | तर्हि एतदनुभवार्थं सरलादेशं दद्मः। |
04:36 | ls टङ्कयामः, Enter नुदामः च। |
04:41 | इदानीं वर्तमाने 'Directory' इत्यस्मिन् विद्यमानानि Files Folders च दृष्टुम् शक्नुवन्ति। |
04:48 | अत्र 'Home Folder' इत्यस्मिन् विद्यमानानि Files, Folders च दर्शयति। |
04:55 | वयं किम् नाम 'Home Folder' इति अग्रे पश्यामः। |
05:01 | अधुना वयम् Terminal इत्यस्य विषये इतोपि अधिकं समयं न यापयामः। http://spoken-tutorial.org इति जालपुटे Linux Spoken Tutorial मध्ये Terminal Commands विषये सम्यक्तया विवरणम् दत्तम् अस्ति। |
05:17 | Terminal इति प्रयोगस्य पिधानं कुर्वन्तु। |
05:20 | अधुना वयम् अपरं प्रयोगं प्रति गच्छामः। सः प्रयोगः अस्ति 'Firefox Web Browser'. तं उद्घाटयामः। |
05:27 | तन्निमित्तं गच्छामः Applications>Internet>Firefox Web Browser. अस्य उपरि नुदामः। |
05:36 | एतत् World Wide Web इत्येतत् दृष्टुम् उपयोगाय भवति। |
05:43 | अत्र वयं gmail जालपुटं प्रति गन्तुं शक्नुमः। तन्निमित्तं Address Bar प्रति गच्छतु, अथवा F6 नुदतु। अहम् अधुना F6 नुदामि। |
05:53 | अहम् अधुना Address Bar इत्यस्मिन् अस्मि। तथा च विद्यमानं मार्जयितुं Back Space इत्यस्य नोदनं करोमि। |
06:00 | अहं www.gmail.com इति टङ्कयामि। |
06:04 | टङ्कणावसरे Firefox कांश्चन विकल्पान् सूचयति। |
06:09 | तेषु एकं चेतुं शक्नोति, अथवा सम्पूर्णम् अपि टङ्कयितुं शक्नोति। |
06:15 | Firefox प्रयोगे साक्षात् योजयति अथवा प्रवेशनिमित्तं Username अपि च Password पृच्छति। |
06:22 | अधुना वयं Username अपि च Password टङ्कयित्वा Enter नुदामः। |
06:36 | अधुना उद्घाटितं gmail जालपुटं द्रुष्टुं शक्नुमः। तर्हि एतस्य पिधानं कृत्वा अग्रे गच्छामः। |
06:45 | अधुना वयं Office Menu प्रति गच्छामः। Applications>Office. |
06:53 | अपि च Office Menu इत्यस्मिन् Open office Word Processor, Spreadshee, Presentation चेति प्रयोगाः भवन्ति। |
07:03 | एतेषां विषये Internet मध्ये पर्याप्तविवरणं वर्तते। |
07:07 | अस्माकं Website इत्यस्मिन् अपि अग्रे एतेषां सर्वेषाम् उपरि Spoken Tutorials भविष्यन्ति। |
07:12 | अधुना वयं Sound and Video Menu पश्यामः। एतदर्थं Application गत्वा Sound and Video गच्छेयुः। |
07:21 | अस्मिन् Movie Player इति कश्चन महत्वपूर्णः प्रयोगः अस्ति। अनेन चलच्चित्रम् गीतानि च चालयितुं शक्नुमः। सामान्यतया एतत् Open Formet Files केवलं चालयति। |
07:35 | उदाहरणार्थं अहं मम Pen-Drive तः किञ्चन File चालयामि। अधुना अहं USB slot इत्यस्मिन् मम Pen-Drive योजयामि। तच्च उद्घाटितं च दृश्यते। |
07:48 | यदि एतत् न उद्घटति तर्हि Desktop तः अपि अन्वेष्टुं शक्नुमः। |
07:53 | अधः वामभागे विद्यमानं Icon नुदतु। यदा तत् प्रथमवारं नुदामः तदा Desktop दर्शयति, यदा पुनः नुदामः तदा Desktop मध्ये पूर्वम् उद्घाटितं Files दर्शयति। |
08:08 | वयं Windows + D इत्यनयोः नोदनेनापि Desktop प्रति गन्तुं शक्नुमः। अवधानं करणीयं यत् पुरातने Version मध्ये Ctrl + Alt + D इत्यस्य प्रयोगः भवति स्म। उपयोगकर्ता अस्य वैपरीत्यस्य विषये अवधानं दत्वा प्रयोगं कर्तुं सक्षमः भवेत्। अधुना वयं Windows + D नुदामः। |
08:37 | अत्र Desktop इत्यस्मिन् Pen-Drive अस्ति इति वयं दृष्टुं शक्नुमः। |
08:42 | अस्य उपरि वारद्वयं नुत्वा उद्घाटयामः। |
08:46 | अधुना अहं चालयितुम् Ubuntu Humanity.ogv इति चलच्चित्रस्य File चिनोमि। |
08:57 | मदीयं File अत्र अस्ति। अस्य उद्घाटनार्थं वारद्वयं नुदामि। |
09:09 | एतत् सामान्यतया Movie Player द्वारा उद्घाटितं भवति। |
09:13 | अधुना Desktop उपरि अन्यान् अपि महत्वपूर्णविषयान् पश्यामः। |
09:18 | तन्निमित्तं Places Menu उपरि गच्छामः। एतस्मिन् Home Folder विद्यते। |
09:27 | उद्घाटयामः। Home Folder उपरि नुदामः। |
09:29 | Ubuntu इत्यस्मिन् प्रत्येकम् उपयोक्तुः कृते अपि प्रत्येकं Home Folder भवति। |
09:34 | वयं वक्तुं शक्नुमः यत् Home Folder अस्माकं गृहमिव अस्ति इति, यत्र वयं अस्माकं वैयक्तिकं Files, folders च रक्षितुं शक्नुमः। |
09:42 | उपयोक्तुः अनुमत्या विना न कोऽपि दृष्टुं शक्नोति। http://spoken-tutorial.org इति जालपुटे Linux Spoken Tutorial मध्ये File Permissions इति विषये अधिकविवरणं उपलभ्यम् अस्ति। |
09:56 | अस्माकं Home Folder इत्यस्मिन् Desktop, Documents, Downloads, Videos इत्यादि अन्यानि अपि Folders दृष्टुं शक्नुमः। |
10:08 | Linux मध्ये सर्वमपि File एव भवति। Desktop इति Folder वारद्वयं नुत्वा उद्घाटयामः। |
10:16 | भोः! वयं समानं "hello.txt" इति File पश्यामः, यच्च अस्माभिः पूर्वमेव Text Editor उपयुज्य रक्षितम् आसीत्। |
10:25 | अतः एतत् Folder अपि च Desktop उभौ च समानौ स्तः। अस्य अहं पिधानं करोमि। |
10:31 | किम्, भवन्तः Desktop इत्यस्य तदेव प्रतिरूपं दृष्ट्वा निरसाः न जाताः? तस्य परिवर्तनं कुर्मः। |
10:37 | तन्निमित्तं System>Preferences>Appearance प्रति गच्छामः, तत्र नुदामः च। |
10:44 | अत्र Themes Tab अन्तः बहवः पूर्वनियोजितप्रयोगाः उपलभ्याः सन्ति। तेषु "Clearlooks" चिनुमः। |
10:52 | यदा भवान् नुदति तदा तदैव परिवर्तनं दृष्टुं शक्नोति। |
10:58 | वामभागे अधः Desktop Icon उपरि यदा नुदामः तदा सम्यक्तया परिवर्तितं Desktop प्रतिरूपं दृष्टुं शक्नुमः। पुनः Desktop Icon नोदनेन प्रत्यागच्छामः। |
11:10 | अत्र यथेष्टं विभिन्नप्रतिरूपाणि पश्यन्तु। अनन्तरं पिधानस्य चिह्नं नुत्वा बहिः आगच्छन्तु। |
11:18 | वयम् अधुना अस्य Tutorial इत्यस्य अन्ते आगताः स्मः। |
11:21 | अस्मिन् Tutorial द्वारा Ubuntu Desktop, Main Menu अपि च Ubuntu Desktop मध्ये दृश्यमानस्य Icons विषये ज्ञातवन्तः। |
11:31 | Spoken Tutorial इत्ययं प्रकल्पः Talk To a Teacher इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति। |
11:41 | अस्य विषये http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे अधिकविवरणम् उपलभ्यम् अस्ति। |
11:47 | अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहली तः लक्ष्मीनरसिंह: अस्ति। Tutorial इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादः। |