Difference between revisions of "Java/C2/Numerical-Datatypes/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 17: Line 17:
 
|00:18
 
|00:18
 
|पाठेऽस्मिन् वयं,  
 
|पाठेऽस्मिन् वयं,  
* Ubuntu 11.10,  
+
Ubuntu 11.10,  
* JDK 1.6 अपि च  
+
JDK 1.6 अपि च  
* Eclipse 3.7 इत्येतेषाम् उपयोगं कुर्मः।
+
Eclipse 3.7 इत्येतेषाम् उपयोगं कुर्मः।
 
|-
 
|-
 
|00:27
 
|00:27

Revision as of 16:53, 21 February 2017

Time' Narration
00:01 जावा मध्ये साङ्ख्यिकदत्तांशप्रकाराणां (न्युमरिक् डाटाटैप्) विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वगतम्।
00:07 अस्मिन् पाठे वयम्,
00:10 जावा मध्ये उपलभ्यमानान् विविधान् साङ्ख्यिकदत्तांशप्रकारान् अपि च,
00:13 तान् साङ्ख्यिकदत्तांशं सङ्ग्रहीतुं कथम् उपयोक्तव्यम् इति च ज्ञास्यामः।
00:18 पाठेऽस्मिन् वयं,

Ubuntu 11.10, JDK 1.6 अपि च Eclipse 3.7 इत्येतेषाम् उपयोगं कुर्मः।

00:27 पाठमिमम् अनुसर्तुं भवन्तः एक्लिप्स् मध्ये प्रोग्राम् कथं विलिख्य चालनीयमिति जानीयुः।
00:34 यदि नास्ति, एतत्सम्बद्धपाठं दृष्टुम् अधो निर्दिष्टम् अस्माकं जालपुटं गच्छन्तु।
00:42 इंटिजर् इत्यस्य सङ्ग्रहणाय विद्यमानः दत्तांशप्रकारः int इति उच्यते।
00:47 दशमांशं (डेसिमल्) सङ्ग्रहीतुं विद्यमानः दत्तांशप्रकारः float इति उच्यते।
00:52 प्रथमम् अहम् इंटिजर् विषये विवृणोमि तस्योपयोगं च करोमि।
01:02 अत्र Eclipse IDE अस्ति अपि च अवशिष्ट-अदेशानां कृते अपेक्षिताः अंशाः सन्ति।
01:10 वयं NumericalData एति किञ्चन क्लास् रचितवन्तः अपि च अस्मै मैन् मेथेड् योजितवन्तः।
01:15 अधुना सङ्ख्यासङ्ग्रहणं कथमिति पश्यामः।
01:20 int distance equal to (=) 28
01:27 एषः निर्देशः (स्टेट्मेंट्) इंटिजर् मौल्यं distance इति नाम्ना सङ्गृह्णाति।
01:33 distance इति नाम इंटिजर् वेरियेबल् इति वदामः।
01:37 अधुना वयं distance इति वेरियेबल् इतीदं तत्रस्थमौल्यं प्रिंट् कर्तुम् उपयोक्तुं शक्नुमः।
01:47 System dot out dot println. पेरेंथिसिस् मध्ये distance.
02:01 एषः निर्देशः (स्टेट्मेंट्) डिस्टेंन्स् वेरियेबल् इत्यस्य मौल्यं प्रिंट् करोति।
02:06 सञ्चिकां Save कृत्वा Run कुर्वन्तु।
02:14 28 इति मौल्यं distance इत्यत्र सङ्गृह्य प्रिंट् जातमस्ति इति वयं पश्यामः।
02:21 अधुना वयं वेरियेबल् मध्ये सङ्गृहीतं मौल्यं परिवर्तयामः।
02:25 28 (अष्टाविंशतिं) 24 इति परिवर्तयामः।
02:29 Save कृत्वा Run कुर्वन्तु।
02:34 पश्यन्तु, एतदनुसारं फलितमपि परिवर्तितमस्ति।
02:39 int इतीदं ऋणात्मकमौल्यानि अपि सङ्गृह्णाति।
02:42 24 (चतुर्विंशतिं) minus 25 इति परिवर्तयन्तु।
02:48 Save कृत्वा Run कुर्वन्तु।
02:56 पश्यन्तु, int इति वेरियेबल्, ऋणात्मकमौल्यानि अपि सङ्गृह्णाति।
03:02 int इति दत्तांशप्रकारः प्रोग्रामिंग् इत्यस्य आवश्यकताः सम्पूरयति।
03:06 परम् एषः सीमायां मौल्यं सङ्गृह्णाति।
03:10 वयमधुना किञ्चन बृहत्संहतेः मौल्यं सङ्गृहीतुं प्रयतामहे।
03:25 पश्यन्तु, अधः रक्तपङ्क्तिः दृश्यते, एषा दोषं सूचयति।
03:34 सः दोषः, सङ्ख्या int इति वेरियेबल् इत्यस्य सीमां अतिक्रम्य अस्ति इति वदति।
03:42 int इति केवलं 32 bits memory स्वीकरोति, अपि च -2 power 31 तः 2 power 31 पर्यन्तस्य मौल्यं केवलं सङ्गृह्णाति।
03:49 बृहत्सङ्ख्यां सह्गृहीतुं जावा long इति दत्तांशप्रकारं प्रापयति।
03:54 एनं वयं बृहत्मौल्यं सङ्गृहीतुम् उपयुञ्ज्महे।
03:59 int इतीदं long इति परिवर्तयन्तु।
04:04 सङ्ख्यायाः अन्ते बृहत् L योजयन्तु।
04:11 Ctrl, S नुत्वा रक्षन्तु।
04:16 पश्यन्तु, अधुना दोषाः न सन्ति।
04:19 एतत् Ctrl, F11 नोदनेन चालयामः। अधुना मौल्यं मुद्रितं वर्तते।
04:27 पश्यन्तु, बृहत्सङ्ख्याः long इति वेरियेबल् मध्ये सङ्गृहीतानि भवन्ति।
04:32 अधुना वयं, int इति वेरियेबल् मध्ये दशमांशसङ्ख्यां सङ्गृह्णीयाम।
04:37 long इतीदं int प्रति परिवर्त्य सङ्ख्यां 23.5 इति परिवर्तयन्तु।
04:50 अधुना वयं दोषं पश्यामः। यतोहि, int इति केवलं पूर्णाङ्कं सङ्गृह्णाति।
05:00 दशमांशं सङ्गृहीतुं वयं float इत्यस्य उपयोगं कुर्मः।
05:05 दत्तांशप्रकारं float इति परिवर्तयन्तु।
05:10 अपि च मौल्यस्य अन्ते f इति योजयन्तु।
05:17 रक्षन्तु।
05:19 वयमधुना अत्र दोषं न पश्यामः।
05:22 Control F11 इत्यस्य नोदनेन चालयामः।
05:29 पश्यन्तु, दशमांशसङ्ख्या सङ्गृह्य मुद्रितं वर्तते।
05:37 वयमधुना डिस्टेन्स् इति वेरियेबल् इत्यस्य मौल्यं परिवर्तयामः।
05:46 अत्र यथा दर्शितं तथा दशमांशबिन्दोः अनन्तरम् अनेकसङ्ख्यां योजयन्तु।
05:53 Save कृत्वा Run कुर्वन्तु।
06:01 पश्यन्तु, फलितं सङ्गृहे विद्यमानेभ्यः भिन्नं वर्तते।
06:06 यतोहि, चरसङ्ख्यायाः स्पष्टतायै काचित् सीमा वर्तते।
06:11 एषा स्पष्टतया यदि न सङ्गृहीतं तर्हि फलिते तत्समीपस्थसङ्ख्यां सूचयति।
06:18 अधुना वयं वेरियेबल् इत्यस्य नाम्नः कृते विद्यमानान् नियमान् पश्यामः।
06:23 नाम्नः प्राक् 2 इति सङ्ख्यां योजयन्तु।
06:30 पश्यन्तु, अत्र syntax error दृश्यते।
06:34 यतोहि, वेरियेबल् इत्यस्य नाम सर्वदा वर्णेन एव आरभेत्।
06:40 अपि च सामान्यतया underscore इतीदं वेरियेबल्-नाम्नः आरम्भे न उपयुज्यते।
06:45 अधुना सङ्ख्यां वेरियेबल्-नाम्नः अन्ते योजयामः।
06:55 पश्यन्तु, अधुना दोषः नास्ति।
06:59 वेरियेबल् इत्येतेषां नाम्नः अन्ते सङ्ख्या भवितुमर्हति परम् आदौ न।
07:04 अधुना नाम्नः मध्ये underscore योजयामः।
07:15 पश्यन्तु, अधुनापि दोषः नास्ति।
07:17 अर्थात्, underscore इतीदं वेरियेबल्-नाम्नि उपयोक्तुं शक्यते।
07:22 परम्, अन्यत् किञ्चन चिह्नं यदि नाम्नि अस्ति तर्हि दोषं दर्शयति।
07:28 एवं च भवन्तः जावा मध्ये साङ्ख्यिकदत्तांशं (numerical data) सङ्गृह्णन्ति।
07:35 अत्र असौ पाठः समाप्यते।
07:38 अस्मिन् पाठे वयं विविधान् साङ्ख्यिकदत्तांशप्रकारान् (numerical datatype) ज्ञातवन्तः।
07:44 अपि च साङ्ख्यिकदत्तांशाः (numerical data) कथं सङ्ग्राह्याः इत्यपि ज्ञातवन्तः।
07:46 अपि च वयं वेरियेबल्-नाम्नः कतिचन नियमान् अपि ज्ञातवन्तः।
07:51 अस्य पाठस्य अभ्यासाय,
07:53 अपरेषां साङ्ख्यिकदत्तांशप्रकाराणां विषये पठन्तु।
07:56 ते int अपि च float इत्येतेभ्यः कथं भिन्नाः सन्ति इति पश्यन्तु।
08:00 जावा इत्यस्य सर्वे पाठाः अस्मिन् लिंक् मध्ये सन्ति।
08:05 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधोविद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
08:11 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
08:14 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
08:20 स्पोकेन् ट्युटोरिय प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति।
08:24 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
08:35 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:39 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:45 अधिकविवरणार्थम् अधस्थं लिंक् पश्यन्तु।
08:51 अस्य पाठस्य अनुवादकः ऐ ऐ टि बांबेतः राकेशः अपि च प्रवाचकः ऐ ऐ टि बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal